एषुत्तच्छन् पुरस्कारः सक्करिया महोदयाय।

तिरुवनन्तपुरम्- साहित्यरंगे केरलीयसर्वकारेण दीयमाना परमोन्नतबहुमतिः भवति एषुत्तच्छन् पुरस्कारः। मलयालभाषापितुः तुञ्चत्त् एषुत्तच्छन् वर्यस्य नाम्नि संस्थापितः अयं पुरस्कारः अस्मिन् वर्षे विख्यातकथाकाराय सक्करियावर्याय दीयते। साहित्यरंगे समग्रयोगदानमभिलक्ष्यैवायं पुरस्कारः। पञ्चलक्षं रूप्यकाणि फलकं च पुरस्कारे अन्तर्भवति। सांस्कृतिकविभागमन्त्री ए.के.बालन् वर्यः पुरस्कारमघोषयत्।

     केरल्यां श्रद्धेयः लेखकः भवति सक्करिया। तेन लिखिताः सर्वाः अपि कथाः श्रेष्ठाः सन्ति। केन्द्र साहित्य अक्कादमी पुरस्कारः, केरल साहित्य अक्कादमी पुरस्कारः, ओ.वी. विजयन् पुरस्कारः, केरल साहित्य अक्कादम्यां विशिष्टाङ्गत्वम् इत्यादयः निरवधिकाः अङ्गीकाराः सक्करियावर्यं प्रापन्।

     1945 जूण् 5 दिनाङ्के कोट्टयं मीनच्चिल् तालूक् पैका मध्ये अयं भूजातः। कुञ्ञच्चन् त्रेस्यक्कुट्टी च पितरौ। बंगलूरु एं इ.एस् कलाशालायां तथा काञ्ञिरप्पल्ली डोमनिक् कलाशालायां च अयम् अध्यापकः आसीत्।

    नवम्बर् प्रथमं दिनं ऐक्यकेरलसंस्थापनदिवसं भवति। अस्मिन्नेव दिने कैरलीसाहित्यस्य परमोन्नतः अयं पुरस्कारः घोषितः।

Leave a Reply

Your email address will not be published. Required fields are marked *