Monthly Archives: October 2020

PRASNOTHARAM (भागः १५२) – 10-10-2020

 

प्रश्नोत्तरम्।

 

 

 

  1. सा ध्यानं ——–। (क) करोषि  (ख) करोति (ग) करोमि
  2. ते अध्ययनं न ——-।(क) कुर्मः  (ख) कुरुथ  (ग) कुर्वन्ति
  3. त्वं शयनं ——-। (क) करोषि  (ख) करोमि (ग) करोति
  4. युवां पाकं ——-। (क) कुरुतः  (ख) कुरुथः  (ग) कुर्वः
  5. भवन्तौ पालनं ——। (क) कुरुतः  (ख) कुर्वः  (ग) कुरुथः
  6. किं यूयं स्वच्छतां ——। (क) कुर्वन्ति (ख) कुरुथ (ग) कुर्मः
  7. आवां मार्जनं ——। (क) कुर्वः (ख) कुरुथः  (ग) कुरुतः
  8. अहं भोजनं ——-। (क) करोति (ख) करोषि (ग) करोमि
  9. ते बालिके नृत्तं ——-। (क) कुरुथः  (ख) कुर्वः  (ग) कुरुतः
  10. ताः चिन्तनं ——-। (क) कुर्मः  (ख) कुर्वन्ति (ग) कुरुथ

ഈയാഴ്ചയിലെ വിജയി

KARTHIKA T

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Karthika T
  • Leena K S
  • Dawn Jose
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

अटल् सुरङ्गा प्रधानमन्त्रिणा उद्घाटिता। अत्युन्नतस्थले विश्वे दीर्घतमा सुरङ्गरथ्या।

मणाली- अटल् सुरङ्गमार्गः  प्रधानमन्त्रिणा राष्ट्राय समर्पितः। कोविड् मानदण्डं परिपाल्य आयोजिते उद्घाटनसमारोहे प्रधानमन्त्रिणा सह सुरक्षामन्त्री राजनाथसिंहः, हिमाचल् प्रदेश मुख्यमन्त्री जय् रां ताक्कूर् प्रभृतयः भागमभजन्त। समुद्रतलात् अत्युन्नते संस्थितः सुरङ्गमार्गः भवति अटल् सुरङ्गा। हिमाचलप्रदेशस्य मणाली-ले राजमार्गे 9.02 कि.मी. दीर्घयुक्ता सुरङ्गा समुद्रतलात् 3000 मीट्टर् उन्नते स्थीयते।

     सुरक्षामन्त्रालयस्याधीनस्थस्य प्रान्तीय रथ्या संघस्य आसीत्  निर्माणधुरा। 3086 कोटि रूप्यकाणि एव पद्धतेः व्ययः। सुरङ्रमार्गस्य उद्धाटनेन मणाली – ले यात्रायां 46 किलोमीट्टर् दूरस्य न्यूनता अस्ति, यात्रासमये अपि पञ्चहोरा न्यूना स्यात्।

     पूर्वं तुहिनकाले षण्मासावधिकं रोह्तङ् गिरिमार्गः पिहितः आसीत्। तदानीं यात्रानिरोधेन जनैः बहुकष्टमनुभूतम्। परं नूतनमार्गस्याविर्भावेन तुहिनकाले अपि यात्रां कर्तुं शक्यते। अस्य सुरङ्गमार्गस्य निर्माणे के.पी. पुरुषोत्तमन् इति केरलीयः अभियान्त्रिकः नेतृत्वमावहत्।

महात्मजी – श्री मुत्तलपुरं मोहन् दास्।