Monthly Archives: October 2020
वर्षमेकं वृथाभवत् (भागः १५३) – 17-10-2020
EPISODE – 153
नूतना समस्या-
“वर्षमेकं वृथाभवत्”
ഒന്നാംസ്ഥാനം
“ഭിഷഗ്വരേണ ഛാത്രേണ
വണിജാ കൃഷകേണ ച
പ്രത്യേകം സ്മര്യതേ നൂനം
വർഷമേകം വൃഥാഭവത്”
Naarayanan N
“അഭിനന്ദനങ്ങള്”
चलद्दूरवाणीपटेषु, धनपत्रेषु स्फटिकेषु च कोरोणाविषाणोः प्रभावः 28 दिनानि यावत् स्थास्यति।
सिड्नी- नवीनकोरोणावैराणुः धनपत्र-स्फटिक-चलद्दूरवाणी प्रभृतीनां प्रतलेषु दिनानि यावत् स्थास्यतीति अन्ववेक्षणम्। ओस्ट्रेलिया राष्ट्रस्थे प्रशस्ते जैवसंरक्षणपरीक्षणालये एव एतादृशं परीक्षणं समायोजयत्।
धनपत्रे स्फटिके च 2-3 दिनानि यावत् विषाणुः स्थास्यति इत्यासीत् पूर्वनिर्णयः। परन्तु टलद्दूरवाणी, स्फटिकं, काचनिर्मितपात्रं धनपत्रम् इत्यादिषु 28 दिनानि यावत् स्थातुं विषाणुः प्रभवति इति अधुनातनं पर्यवेक्षणं सूचयति।
20 डिग्रि सेल्ष्यस् तापमाने कोरोणा विषाणुः 28 दिनानि यावत् स्थास्यतीति आवेदने वदति। विषाणुपठनवार्तापत्रिकायामेव सी.एस्.ऐ.आर्. संघस्य गवेषणावेदनं प्रकाशितम्।
कार्पाससदृशवस्तुषु उपरितले अनुकूलावस्था चेत् 14 दिनानि यावत् विषाणुः स्थास्यति। वर्धिते तापमाने एतत् 16 होरारूपेण न्यूनतां प्राप्नोति। मांससंस्करणस्थलेषु शीतीकृतावस्थासु च कोविड् रोगव्यापनस्य साध्यता अधिका इति च आवेदने सुचयति।
PRASNOTHARAM (भागः १५३) – 17-10-2020
EPISODE – 153
प्रश्नोत्तरम्।
- गृहिणिी पुष्पाणि ——–। (क) क्रीणामि (ख) क्रीणासि (ग) क्रीणाति
- ताः वस्त्रं ———। (क) क्रीणन्ति (ख) क्रीणीथ (ग) क्रीणीमः
- भवत्यौ पात्राणि ——-। (क) क्रीणीवः (ख) क्रीणीथः (ग) क्रीणीतः
- भगिनी वेल्लनीं ——-। (क)क्रीणासि (ख) क्रीणाति (ग) क्रीणामि
- सः पुस्तकं ——–। (क) क्रीणाति (ख) क्रीणामि (ग) क्रीणासि
- त्वं फलं ——। (क) क्रीणामि (ख) क्रीणासि (ग) क्रीणाति
- अहं दूरदर्शनं ——–। (क) क्रीणामि (ख) क्रीणासि (ग) क्रीणाति
- वयम् औषधं ———।(क) क्रीणीथ (ख) क्रीणन्ति (ग) क्रीणीमः
- आवां मालां ———-। (क) क्रीणीवः (ख) क्रीणीतः (ग) क्रीणीथः
- यूयं लेखनीः ———। (क) क्रीणीथ (ख) क्रीणीमः (ग) क्रीणन्ति
ഈയാഴ്ചയിലെ വിജയി
DILJITH
അഭിനന്ദനങ്ങള്
10 ശരിയുത്തരങ്ങള് അയച്ചവര്:
- DILJITH
- Leena K S
- Dawn Jose
- Sibil Surendran
- Adidev C S
केरलं सम्पूर्णाङ्कीयराज्यम्- घोषणम् ओक्टोबर् १२ दिनाङ्के।
केरलराज्यं सम्पूर्णाङ्कीयराज्यत्वेन परिवर्तनस्य आधिकारिकं घोषणम् ओक्टोबर् १२ दिनाङ्के मुख्यमन्त्री पिणरायि विजयन् वर्यः आधिजालिकतया निर्वक्ष्यति। सार्वजनीन शिक्षाविभागमन्त्री प्रोफ. सी रवीन्द्रनाथवर्यः अध्यक्षो भविता।
अनेन सह प्रतिमण्डलं चिते विद्यालये विधानसभासामाजिकस्य नेतृत्वे विधानसभामण्डलस्य अङ्कीयपरिवर्तनप्रख्यापनमपि विधास्यति। राज्यस्थम् अखिलानामपि विद्यालयानाम् अङ्कीयपरिवर्तनघोषणं विद्यालयतले भविष्यति।
राज्ये मुख्यमन्त्रीतः पञ्चायत् अङ्गं यावत् सर्वेषां प्रतिनिधीनां संवेशनम् इति विशेषमपि अस्यास्ति। कार्यक्रममवलोकयितुं राज्ये सर्वे जनाः प्रभवन्ति। विक्टेस् नालिकाद्वारा एतदर्थं सुविधा आयोजिता।
केन्द्रीय भक्ष्यविभागमन्त्री रां विलास् पास्वान् वर्यः दिवङ्गतः।
नवदिल्ली- केन्द्रीय भक्ष्यमन्त्री तथा लोक जनशक्ती दलस्य नेता च रां विलास् पास्वान् वर्यः दिवङ्गतः। शारीरिकव्यथया चिकित्सालयं नीतः आसीत्। शनिवासरे हृदयपरिवर्तनशस्त्रक्रियामतीतः आसीत्। स्वपुत्रः चिराग् पास्वान् एव मृत्युसूचनामदात्।
बिहार् राज्यात् आगतः दलित् राजनैतिकनेता आसीत् पास्वानः। बिहार् विधानसभानिर्वाचनस्य भूमिकायामेव पास्वान् वर्यस्य देहवियोगः। अष्टवारं स लोकसभासदस्यत्वेन चितः आसीत्। संयुक्त समाजवादिदले अङ्गत्वेन स राजनैतिकक्षेत्रं प्रविष्टः। षट्भिः प्रधानमन्त्रिभिः साकं पास्वान् वर्यः मन्त्रिमण्डले सदस्यः आसीत्। 1977 तमे वर्षे स प्रथमतया लोकसभासदस्यः अभवत्।
पास्वानस्य वियोगे विभिन्नाः नेतारः अन्शोचयन्।
२०२१ तमे वर्षे विश्वे १५ कोटि जनाः दारिद्र्ये पतिष्यति- विश्वबैंक्।
वाषिङ् टण्- कोविड् महामारिद्वारा विश्वे २०२१ वर्षागमे १५ कोटि जनाः कठोरे दारिद्र्ये पतिष्यतीति विश्वबैकस्य जागरूकनिर्देशः।
अतः राष्ट्राणि मूलधन-वृत्ति-नैपुण्यादीनि नूतनसंरम्भकेषु इतरमेखलासु च विनियोक्तुं सज्जानि भवेयुः इति विश्वबैंकेन दत्तां विज्ञप्त्यां सूचितम्।
अस्मिन् वर्षे एव ८.८ तः ११.५ कोटिपरिमिताः जनाः दारिद्र्ये पतिताः। २०२० तमे वर्षे विश्वे दारिद्र्यावस्था ७.५ शतमितत्वेन न्यूना भविष्यतीति यद्यपि प्रतीक्षिता तथापि कोविड् महामारिणा प्रतीक्षा अस्तंगता इति विश्वबैंक् अध्यक्षः डेविड् माल्पास् वर्यः अवदत्।
PLUS TWO : चिन्तारतो बालकः।
चिन्तारतो बालकः – CLASS – 1
चिन्तारतो बालकः – CLASS – 2
चिन्तारतो बालकः – CLASS – 3
विद्यालयानां प्रवर्तने मार्गनिर्देशः घोषितः।
नवदिल्ली- ओक्टोबर् १५ दिनाङ्कादूर्ध्वं विद्यालयानां पुनरुद्घाटनविषये निर्णयं स्वीकर्तुं राज्यानामेव अधिकार इति केन्द्रीय गृहमन्त्रालयस्य सूचना आसीत्। विद्यालयानां पुनरुद्घाटनम् अधुना अवश्यं न करोति ओण् लैन् अध्यापनम् अनुवर्तनीयम् इत्यपि सूचनायामासीत्।
तदनन्तरमेव शिक्षामन्त्रालयस्य मार्गनिर्देशः घोषितः। तत्र एते निर्देशाः सन्ति। सर्वेषु विद्यालयेषु शुचित्वं परिपालयितुं कर्मसेना भवितव्या। विद्यालयेषु अणुनशीकरणं कर्तव्यम्। कक्ष्याप्रकोष्ठेषु शुद्धवायोः सान्निध्यमस्तीति निर्णेतव्यम्। छात्राणां विद्यालयागमनसमये विद्यालयात् गृहगमनयमये, कक्ष्यायाम् अध्ययनसमये च सामाजितान्तरम् अवश्यंभावि। कक्ष्यासु सर्वे मुखावरणं धारयेयुः। वैद्यानाम् अनुवैद्यानां च सेवनम् आयोजनीयम्। उपस्थितिविषये कर्शनव्यवस्था न करणीया।
सर्वोपरि रक्षाकर्तृणां अनुमतिपत्रेण साकमेव छात्राः विद्यालयम् आगच्छेयुः इति च मार्गनिर्देशे वर्तते।
नष्टस्वापा हि मानवाः (भागः १५२) – 10-10-2020
EPISODE – 152
नूतना समस्या –
“नष्टस्वापा हि मानवाः”
ഒന്നാംസ്ഥാനം
പുഷ്ടസാങ്കേതികജ്ഞാന
ക്ലിഷ്ടവിദ്യാവശാത് സദാ
ഇഷ്ടചിത്രാണി സംവീക്ഷ്യ
നഷ്ടസ്വാപാ ഹി മാനവാ:
Narayanan N
“അഭിനന്ദനങ്ങൾ”
नौसेना प्रशिक्षणप्लवकस्य दुर्घटनायां द्वौ नौसेनाकर्मकरौ मृतौ।
कोच्ची- नौसेनायाः प्रशिक्षणप्लवगस्य दुर्घटनायां द्वौ कर्मकरौ मृतौ। उत्तराखण्ट् देशीयः लेफ्ट्नेन्ट् राजीव झा, विहार् देशीयः पेॆट्टी ोफीसर् सुनिल् कुमार् च मृतौ। एतौ चिकित्सालयप्रवेशात् प्रागेव मृतौ स्तः।
एरणाकुलं तोप्पुंपटी बी.ओ.टी. सेतोः समीपस्थे मार्गे एव प्लवकः प्रभञ्ज्य पतितः। कोच्ची नौसेनास्थानात् एककिलोमीट्टर् दूरे एव अयमपघातः संवृत्तः। प्रभाते प्रशिक्षणवेलायामासीत् अपघातः।












