नौसेना प्रशिक्षणप्लवकस्य दुर्घटनायां द्वौ नौसेनाकर्मकरौ मृतौ।

कोच्ची- नौसेनायाः प्रशिक्षणप्लवगस्य दुर्घटनायां द्वौ कर्मकरौ मृतौ। उत्तराखण्ट् देशीयः लेफ्ट्नेन्ट् राजीव झा, विहार् देशीयः पेॆट्टी ोफीसर् सुनिल् कुमार् च मृतौ। एतौ चिकित्सालयप्रवेशात् प्रागेव मृतौ स्तः।
एरणाकुलं तोप्पुंपटी बी.ओ.टी. सेतोः समीपस्थे मार्गे एव प्लवकः प्रभञ्ज्य पतितः। कोच्ची नौसेनास्थानात् एककिलोमीट्टर् दूरे एव अयमपघातः संवृत्तः। प्रभाते प्रशिक्षणवेलायामासीत् अपघातः।
Leave a Reply