Daily Archives: October 10, 2020
केरलं सम्पूर्णाङ्कीयराज्यम्- घोषणम् ओक्टोबर् १२ दिनाङ्के।
केरलराज्यं सम्पूर्णाङ्कीयराज्यत्वेन परिवर्तनस्य आधिकारिकं घोषणम् ओक्टोबर् १२ दिनाङ्के मुख्यमन्त्री पिणरायि विजयन् वर्यः आधिजालिकतया निर्वक्ष्यति। सार्वजनीन शिक्षाविभागमन्त्री प्रोफ. सी रवीन्द्रनाथवर्यः अध्यक्षो भविता।
अनेन सह प्रतिमण्डलं चिते विद्यालये विधानसभासामाजिकस्य नेतृत्वे विधानसभामण्डलस्य अङ्कीयपरिवर्तनप्रख्यापनमपि विधास्यति। राज्यस्थम् अखिलानामपि विद्यालयानाम् अङ्कीयपरिवर्तनघोषणं विद्यालयतले भविष्यति।
राज्ये मुख्यमन्त्रीतः पञ्चायत् अङ्गं यावत् सर्वेषां प्रतिनिधीनां संवेशनम् इति विशेषमपि अस्यास्ति। कार्यक्रममवलोकयितुं राज्ये सर्वे जनाः प्रभवन्ति। विक्टेस् नालिकाद्वारा एतदर्थं सुविधा आयोजिता।












