Daily Archives: October 17, 2020

नीट्ट् परीक्षायां सम्पूर्णाङ्कप्राप्तिः, षोय्ब् अफ्ताब् श्रद्धेयो जातः।

जय्पूर्- अखिलभारतीय-वैद्यकप्रवेशकपरीक्षायां आहत्य 720 अङ्केषु 720 अङ्कान् पूर्णतया  अवाप्य अखिलभारतस्तरे प्रथमस्थानमाप्तवान् ओडीषा रूर्कलादेशायः षोय्ब् अफ्ताब् इति अष्टादशवयस्कः युवा। वैद्यकीयाध्ययनं समाप्य हृद्रोगचिकित्सको भवितुं स इच्छति।

     राज्यस्थानराज्ये कोट्टा मण्डले करियर् इन्स्टिट्यूट् इति संस्थाने एव ऊर्जिताध्ययनाय गतवानयम्। आराष्ट्रं पिधाने घोषिते सर्वेपि तस्य सब्रह्मचारिणः स्व स्वदेशं प्रतिनिवृत्ताः। तथापि षोय्ब् तत्रैव उषित्वा अधिकसमयम् अध्ययनाय व्ययितवान्। अस्य कठिनप्रयत्नस्य फलमेव अनेन प्राप्ताः पूर्णाङ्काः।

     प्रतिसन्धीनां मध्ये अतीव क्लेशमनुभूयैव अस्मिन् वर्षे नीट्ट् परीक्षा आयोजिता इति शिक्षामन्त्री रमेश् पोख्रियाल् वर्यः अवदत्। कोविड् मानदण्डान् परिपाल्य परीक्षा समुन्नतरीत्या प्रचालिता।तदर्थं सहकृतेभ्यः मुख्यमन्त्रिभ्यः मन्त्री कृतज्ञताम् अवदत्। 1367322 छात्राः परीक्षामलिखन्। एषु 290 छात्राः ओक्टोबर् 14 दिनाङ्के एव परीक्षां लिखितवन्तः।