केरलराज्यस्य 50 तमाः चलनचित्रपुरस्काराः घोषिताः।

तिरुवनन्तपुरम्- 2019 वर्षस्य केरलीयचलनचित्रपुरस्काराः घोषिताः। सांस्कृतिकविभागमन्त्री ए.के. बालन् वर्यः पुरस्कारान् अघोषयत्। मधु अम्बाट्ट् वर्यस्य आध्यक्ष्ये आयोजिता पुरस्कारनिर्णयसमितिरेव विजयिनः अचिनोत्। पुरस्कारार्थं 119 चलनचित्राणि निरीक्षितानि। ओषु पञ्च बालकानां चलनचित्राणि आसन्। प्रतियोगितार्थम् आगतेषु 50 प्रतिषतं चलनचित्राणि नवागतनिदेशकानाम् इत्येतत् अस्मिन् रंगे शुभप्रतीक्षां ददाति इति मन्त्री अवदत्।

पुरस्काराः एवम्-

उत्कृष्टं चलनचित्रम् – वासन्ती। द्वितीयम् उत्कृष्टं चित्रम् – केञ्चिरा।

उत्कृष्टः नटः – सुराज् वेञ्ञारमूट् – चित्रं विकृतिः, आन्ड्रोय्ट् कुञ्ञप्पन्। नटी – कनि कुसृतिः, चित्रं बिरियाणी।

उत्कृष्टः निदेशकः – लिजो जोस् पेल्लिश्शेरि, – चित्रं जेल्लिक्केट्ट्।

संगीतनिदेशकः – शुषिन् श्याम्।, सम्पादकः – किरण् दास्।, गायकः – नजीम् अर्षाद्, गायिका – मधुश्री नारायणन्।

चलनचित्रग्रन्थस्य कृते पुरस्काराय डो. पी.के. राजशेखरः अर्हो अभवत्।

Leave a Reply

Your email address will not be published. Required fields are marked *