Monthly Archives: January 2020

राष्ट्रे दुर्घटावस्था, प्रथमं शान्तिः आवश्यकी – सर्वोच्चन्यायालयः।

नवदिल्ली- नागरिकनियमसंशोधनावेदने सर्वोच्चन्यायालयस्य रूक्षं विमर्शनम्। नागरिकसंशोधननियमः संविधानानुसारी इति प्रख्यापयन् द्रुतमेव प्रावर्तिकं करणीयमिति आवश्यकेन समर्पितम् आवेदनं विमृश्य सर्वोच्चन्यायालयेन निगदितं यत् प्रथमं राष्ट्रे शान्तिः संस्थापनीया इति।

राष्ट्रं दुर्घटावस्थाायामेव पुरेगच्छति। अस्मिन्नवसरे शान्तिं पुनस्स्थापयितुमुपाय एव प्रथममावश्यकम्। तदर्थम् एतादृशम् आवेदनं सहायकं न भवेत् इति मुख्यन्यायाधीशस्य एस्. ए. बोब्डे वर्यस्य आध्यक्ष्ये बी.आर्. गवाय, सूर्यकान्त् इत्यङ्गद्वययुक्तं संवेशनम् असूचयत्। मुम्बै देशीयायाः आवेदने एव न्यायालयेन एवं परामृष्टम्।

इराने 180 यात्रिकैः साकं युक्रैन् विमानं भङ्क्त्वा पतितम्।

तेह्रान्- इराने युक्रैन् विमानं भङ्क्त्वा पतितम्। यात्रिकाः कर्मकराश्च आहत्य 180 जनाः यात्रिकाः आसन्। तेह्राने इमां खोमेनि विमानपत्तनस्य समीपमेव अपघातः समापन्नः।

     इमां खोमेनी विमानपत्तनात् उड्डयितं  बोयिंङ् 737 जेट्ट् विमानमेव तेह्रानस्य प्रान्तप्रदेशे परान्ते पतितम्। तेह्रानात् युक्रैन् प्रति प्रस्थितमासीत् विमानम्।

     अपघातस्य कारणं अभियान्त्रिकन्यूनतेति प्राथमिकं निगमनम्।

२०१९ वर्षस्य प्रलयः, केरलराज्यस्य केन्द्रसाहाय्य नास्ति। सप्तभ्यः राज्येभ्यः ५९०८.५६ कोटिरूप्यकाणि विहितानि।

नवदिल्ली – २०१९ वर्षस्य प्रलयमनुबन्ध्य केरलराज्यस्य केन्द्रसाहाय्यं नानुमितम्। केरलादृते सप्तभ्यः राज्येभ्यः राष्ट्रीयदुरन्दनिवारणनिधेः ५९०८.५६ कोटि रूप्यकाणि प्रदातुं गृहमन्त्रिणः अमित् षा वर्यस्य आध्यक्षे आयोजितम् उन्नततलाधिवेशनं निरणयत्। असं, हिमाचलप्रदेशः, कर्णाटका, मध्यप्रदेशः, महाराष्ट्र, त्रिपुर, उत्तरप्रदेशः इत्येतेभ्यः राज्येभ्यः एव केन्द्रसाहाय्यं प्रदत्तम्।

     प्रलयः, मृत्पातः, मेघविस्फोटनम् इत्येते आपतितं दुरितं प्रतिरोद्धुमेव सप्तभ्यः राज्येभ्यः केन्द्रसाहाय्यमदात्। २०१९ प्रलयस्य विशदांशान् सूचयन् २१०१ कोटि रूप्यकाणि आवश्यकानि इति गते सेप्तम्बर् सप्तमेदिनाङ्के केरलराज्यं केन्द्रसर्वकाराय पत्रं प्रैषयदासीत्। ततः आगतः केन्द्रसंघः पत्रमिदं परिगणनाविषयं नाकरोदिति मन्यते।

व्यर्थं हि तस्य जीवितम् (भागः-११३) – 11-01-2020

EPISODE – 113

नूतना समस्या –

“व्यर्थं हि तस्य जीवितम्”

ഒന്നാംസ്ഥാനം

മഹാഭാഗ്യേന ലബ്ധം സ്യാത്
മർത്യജന്മം ന സംശയ:
ധർമചിന്താവിഹീനശ്ചേത്
വ്യർഥം ഹി തസ്യ ജീവിതം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

इरानस्य प्रत्याक्रमणम्, बाग्दादस्थस्य अमेरिकास्थानपतिकार्यालयस्य समीपं क्षेपण्याक्रमणम्।

बाग्दाद्- पश्चिमेष्याप्रान्ते आशङ्कां प्रवर्धयन् इराख् राजधानीभूते बाग्दादे पुनरपि क्षेपण्याक्रमणम्। बाग्दादे अमेरिक्कास्थानपतिकार्यालयस्य समीपमेव शनिवासरे क्षेपण्याक्रमणमभूत्। अस्यां घटनायां मानवमृत्युः नावेदित इति सैन्यं व्यजिज्ञपत्।

बलाद् वायुसेनाशिबिरमपि स्थानपतिकार्यालयस्य समीपमेव। अपि च अतीव सुरक्षितमेखलायामेव क्षेपणी पतिता इति सूचना। अमेरिक्कासैनिकानां शिबिरं वर्तते बलाद् स्थले।

बहवः सर्वकारीणकार्यालयाः अस्मिन् प्रदेशे सन्ति। क्षेपण्याक्रमणानन्तरम् अमेरिकासैन्यम् अस्यां मेखलायां व्योमनिरीक्षणं शक्तमकरोत्।

PRASNOTHARAM(भागः-११३) – 11-01-2020

EPISODE – 113

 

प्रश्नोत्तरम्।

 

 

 

  1. सः कुत्र ——-? (क) गच्छामि  (ख) गच्छसि  (ग)  गच्छति
  2. त्वं किं ——–? (क) करोति  (ख) करोषि  (ग) करोमि 
  3. अहं जलं ——। (क) पिबामि  (ख) पिबति  (ग) पिबसि
  4.  —–विायालयं गच्छतः। (क) सः  (ख) तौ  (ग) ते
  5. वयं गीतं  ——। (क) गायामः (ख) गायन्ति (ग) गायथ
  6. ——-चित्रं पश्यथः। (क) यूयं (ख) आवां (ग) युवां
  7. यूयं किं ——? (क) कुर्वन्ति  (ख) कुरुथ  (ग) कुर्मः
  8. ते बालिके ———। (क) नृत्यन्ति (ख) नृत्यतः  (ग) नृत्यथ
  9. ———मधुरं खादन्ति । (क) बालकाः  (ख) बालकौ (ग) बालकः
  10. अहं छात्रः  ——। (क) अस्ति (ख) असि  (ग) अस्मि

ഈയാഴ്ചയിലെ വിജയി

RAJANI M

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • RAJANI M
  • Sreesha Vinod
  • Rohan Roopesh
  • Mahesh Krishna Tejaswi K
  • Greeshma Francis

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

आस्ट्रेलिय राष्ट्रे अग्निबाधा मासचतुष्टयमतीता। ५० कोटि जीवजालानि भस्मीभूतानि।

सिड्नी- २०१९ सेप्तम्बर् मासे आस्ट्रेलिय राष्ट्रे व्यापृता अग्निबाधा एतावता नियन्त्रणविधेया न जाता। अग्निस्तु सर्वसंहारी भूत्वा पुरो गच्छति।

इतः पर्यन्तं १७ जनाः मृताः। अपि च नैके जनाः तिरोभूताः सन्ति। अत एव मृतानां संख्या इतोप्यधिकतरा जायेत इत्यावेदनम्।

अग्निबाधायां व्यापादितानां मृगाणां संख्या अतिशयास्पदा। इतःपर्यन्तं ५० कोटि परिमिताः जन्तवः मृताः इत्यावेदयति।

एकवारमात्रमुपयुज्यमानस्य पलास्तिकस्य निरोधः।

तिरुवनन्तपुरम्- २०२० जनुवरी प्रथमदिनाङ्कात् प्रभृति केरलेषु एकवारमात्रमुपयुज्यमानस्य पलास्तिकस्य निरोधः। व्यक्तयः, संस्थापनानि, निगमानि उद्योगानि च पलास्तिकवस्तूनां निर्माणे विक्रयणे परिवहणे च सन्नद्धानि न स्युः। अस्ति चेत् तत् दण्डार्हं भवति।

प्रथमघट्टे १०००० रूप्यकाणां दण्डः, पुनरावर्तने २५००० रूप्यकाणां दण्डः, पुनरपि लङ्घने ५०००० रूप्यकाणां दण्डः इत्येव क्रमः। अस्य मासस्य १५ तिथिपर्यन्तं दण्डनकार्यक्रमः न भवेत्। विशेषः मार्गनिर्देशः परिष्ठितिविभागेन दीयते।

कुटुम्बश्री संस्थया पलास्तिकानां स्थाने उपयुज्यमानस्य स्यूतस्य निर्माणे व्यापृता वर्तते।