Daily Archives: January 26, 2020

अकिञ्चनानां बालकानां पठनाय विद्यालयं स्थापितवते फलव्यापारिणे पद्मश्री पुरस्कारः।

नारङ्गकविक्रयणात् लभ्यमानेन धनेन अकिञ्चनानां बालकानां पठनाय विद्यालयं स्थापितवान् हरकेल हज्जब्बा महाशयः २०२० तमं पद्मश्री पुरस्कारमवाप। कर्णाटकराज्यस्थः अयं विंशतिवर्षान् यावत् अकिञ्चनानां बालकानां मनस्सु शिक्षायाः प्रकाशं प्रापयति। ६४ वयस्कस्य हजब्बावर्यस्य अक्षरसान्टो इति नामान्तरमप्यस्ति। दक्षिणकन्नटे मंगलूरुसपीपस्थः न्यूपडुप्प ग्राम एवास्य देशः। गृहे नदीजलैराप्लाविते एव स मंगलूरु नगरे नारङ्गकं विक्रेतुमारभत।

शिक्षाराहित्यस्य दोशान् बहु अनुभूतवानसौ इतः परं तामवस्थां कस्यचिदपि मा भूत् इति विचिन्त्यैव ग्रामेषु विद्यालयं संस्थापितवान्।

स्वकीयेन अश्रान्तपरिश्रमेण २००४ नवम्बर् १४ दिनाङ्के न्यूपडुपा ग्रामे दक्षिणकन्नट जिलापञ्चायत्त् हयर् प्रैमरि विद्यालयं स्थापितवान्। तदानीं १२५ छात्राः चत्वारः अध्यापकश्चासीत्। अद्य तु स विद्यालयः बहूनां छात्राणां पठनपरिसरः अभवत्। अधुना इमं विद्यालयं प्री यूणिवेसिट्टी विद्यालयरूपेण परिवर्तयितुं हजबा परिश्रममारभत।

PRASNOTHARAM (भागः ११६) – 01-02-2020

EPISODE – 116

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ” समुत्थितोsस्मि ” अत्र कर्ता कः ? (क) त्वम्   (ख) यूयम्  (ग) अहम्
  2. “अर्ह ” पूजायाम् इति धातोः लटि उत्तमपुरुषैकवचनम् ।(क) अर्हामि  (ख) अर्हति (ग)अर्हसि
  3. “अभवत् ” इति कस्मिन् लकारे रूपम् ? (क)  लट्  (ख) लङ्   (ग) लोट्
  4. ह्यः बुधवासरः आसीत् । तर्हि शनिवासरः कदा भविष्यति ? (क) परश्वः (ख) परह्यः  (ग) श्वः
  5. गुहा = ——–। (क)गहनम् (ख) गह्वरम् (ग) गात्रम्
  6. प्रजानाथः = ———-। (क) राजा  (ख) पिता   (ग) गात्रम्
  7. तत्  —–  उच्चैरहसत् तत्रागतः ।(क) श्रोतुं  (ख) श्रुत्वा (ग) शृणोति
  8. अहम् ईशस्य पादस्मरणं  ——–। (क) करोति  (ख) करोषि  (ग) करोमि
  9.  ———अन्यतमं भवति योगदर्शनम्। (क) भारतीयदर्शनेषु (ख) भारतीयदर्शने (ग)भारतीयदर्शनेन
  10.  छात्राः ———साकम् आगच्छन्ति। (क) अध्यापकात्  (ख) अध्यापकस्य  (ग) अध्यापकेन

ഈയാഴ്ചയിലെ വിജയി

AMARNATH K V KANNUR

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • AMARNATH K V
  • Sreesha Vinod
  • Sathi M
  • Divyachithran N. V
  • Rajani M
  • Greeshma Francis
  • Parvathi

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”