Daily Archives: January 10, 2020

नववर्षगीतम् – विजयन् वि. पट्टाम्बि।

नववर्षं सामोदं भुवनं मे प्राप्तं

शान्तमिदं चित्तं तु सन्तोषपूर्णम्।

नानाजनततिभरितो मामकदेशो

मधुभरितकुसुमयुतमतुलमुद्यानम्।।

हेैन्दव क्रैस्तव जनततिरिह नित्यं

सन्तोषभावेन वसति चिरकालम्।

इस्लाम पार्सी सिख् बौद्धजनाश्चात्र

सोदरभावेन सन्तोषचित्ताः।।

किमेषा घोषणा सर्वत्र देशे

किमेतच्चित्तं मे सोद्वेगपूर्णम्।

निवसन्ति मम देशे ये ये बहुकालं

तैरेव नागरिकजनतात्र सत्यम्।।

कुरुत नहि सोदराः दुःखं हृदि नित्यं

मानसमनुपमसागरकल्पम्।

नैवात्र भीतिः नैवात्र कोपो

नैवात्र मात्सर्यरोषाग्निबाधा।।

भवतु मे देशोयं मुदभरितं नित्यं

जनततिः सर्वथा सोदरकल्पा।

नहि कलहो नहि द्वेषो भीषणाश्चत्र

सकलजनहृदयमिह शान्ततामेतु।।

राष्ट्रे दुर्घटावस्था, प्रथमं शान्तिः आवश्यकी – सर्वोच्चन्यायालयः।

नवदिल्ली- नागरिकनियमसंशोधनावेदने सर्वोच्चन्यायालयस्य रूक्षं विमर्शनम्। नागरिकसंशोधननियमः संविधानानुसारी इति प्रख्यापयन् द्रुतमेव प्रावर्तिकं करणीयमिति आवश्यकेन समर्पितम् आवेदनं विमृश्य सर्वोच्चन्यायालयेन निगदितं यत् प्रथमं राष्ट्रे शान्तिः संस्थापनीया इति।

राष्ट्रं दुर्घटावस्थाायामेव पुरेगच्छति। अस्मिन्नवसरे शान्तिं पुनस्स्थापयितुमुपाय एव प्रथममावश्यकम्। तदर्थम् एतादृशम् आवेदनं सहायकं न भवेत् इति मुख्यन्यायाधीशस्य एस्. ए. बोब्डे वर्यस्य आध्यक्ष्ये बी.आर्. गवाय, सूर्यकान्त् इत्यङ्गद्वययुक्तं संवेशनम् असूचयत्। मुम्बै देशीयायाः आवेदने एव न्यायालयेन एवं परामृष्टम्।