Daily Archives: January 19, 2020

नववाणी संस्कृत-ह्रस्वचलचित्रोत्सवः।

इरिङ्ङालक्कुटा- इरिङ्ङालक्कुट विद्याभ्यासमण्डलस्य संस्कृतम् अक्कादमिकसमितेः आभिमुख्ये संस्कृतं ह्रस्वचलचित्राणां मेलनं समायोजयति। प्रथम-द्वितीय-तृतीयस्थानमाप्तानां चलचित्राणां धनराश्पुरस्कारं शिल्पञ्च सम्मानयति। अपि च निदेशनं पटकथा, नटः, नटी इत्येतेभ्यः अपि पुरस्काराः दीयन्ते।
२०२० फेब्रुवरी ११ दिनाङ्के इरिङ्ङालक्कुट नगरसभा गृहे आयोज्यमाने चलचित्रोत्सवे प्रमुखानां पुरतः चलचित्राणि प्रदर्शयिष्यति। तस्यां वेदिकायामेव पुरस्काराः अपि दीयन्ते।

  • अर्धहोरायाः न्यूनदैर्घ्याणां चलचित्राणामेव मत्सराधिकारः।
  • चलचित्रस्य भाषा संस्कृतं भवेत्।
  • ३० निमेषादधिकं दैर्घ्यं न स्यात्।
  • आङ्गले मलयाळे वा सम्भाषणपरिभाषा देया।
  • धर्म-जाति-सङ्घटनानाम् अवहेलनपरं स्तुतिपरं वा न स्युः।
  • अनाचारः नारीविरुद्धता, मादकवस्तूनि इत्यादीनां प्रोत्साहनपराणि न स्य़ुः।
  • धर्मनिरपेक्षता, संविधानं, बालाधिकारः, मानवाधिकारः इत्यादीनां हानिकराणि न स्युः
  • मूल्यनिर्णेतृणां निर्णयः अन्तिमः स्यात्।

फिब्रुवरी ५ दिनाङ्कः एव अन्तिमतिथिः।  डी.वी.डी. तालिकायां मुद्रितानि चित्राणि पत्रालयद्वारा प्रेषणीयानि।

PRASNOTHARAM (भागः ११५) – 25-01-2020

EPISODE – 115

 

प्रश्नोत्तरम्।

 

 

  1. बालकः श्वः विद्यालयं ——–। (क) गमिष्यामि  (ख) गमिष्यसि  (ग) गमिष्यति
  2. त्वं कदा विदेशं ———?(क) गमिष्यति  (ख) गमिष्यामि (ग) गमिष्यसि
  3. अहम् आगामि मासे ——–।(क) गमिष्यामि  (ख) गमिष्यति  (ग) गमिष्यसि
  4. परीक्षा आगामि मासे ———। (क) भविष्यसि (ख) भविष्यति (ग) भविष्यन्ति
  5. छात्रः श्वः कथां ———। (क) वदिष्यति  (ख) वदिष्यसि (ग) वदिष्यामि
  6. वयं पाठान् ——–।  (क) पठिष्यन्ति  (ख) पठिष्यामः (ग) पठिष्यथ
  7. अध्यापकः श्वः नूतनपाठं ———। (क) पाठयिष्यति  (ख) पाठयिष्यथ (ग) पाठयिष्यसि
  8. यूयं कदा चित्रं ——–। (क) द्रक्ष्यन्ति  (ख) द्रक्ष्यथ   (ग) द्रक्ष्यामः
  9.  ——–दिल्लीं गमिष्यावः । (क) अहं   (ख) आवां  (ग) वयम्
  10.  ——–गीतं गास्यथः । (क) यूयं (ख) त्वं (ग) युवाम्

ഈയാഴ്ചയിലെ വിജയി

RAJESWARI S

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Rjeswari S
  • Maya P R
  • Divyachithran N V
  • Sathi M
  • Mahesh Krishna Tejaswi
  • Greeshma Francis

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

 

 

 

Last date: 25-01-2020