नववर्षगीतम् – विजयन् वि. पट्टाम्बि।

नववर्षं सामोदं भुवनं मे प्राप्तं

शान्तमिदं चित्तं तु सन्तोषपूर्णम्।

नानाजनततिभरितो मामकदेशो

मधुभरितकुसुमयुतमतुलमुद्यानम्।।

हेैन्दव क्रैस्तव जनततिरिह नित्यं

सन्तोषभावेन वसति चिरकालम्।

इस्लाम पार्सी सिख् बौद्धजनाश्चात्र

सोदरभावेन सन्तोषचित्ताः।।

किमेषा घोषणा सर्वत्र देशे

किमेतच्चित्तं मे सोद्वेगपूर्णम्।

निवसन्ति मम देशे ये ये बहुकालं

तैरेव नागरिकजनतात्र सत्यम्।।

कुरुत नहि सोदराः दुःखं हृदि नित्यं

मानसमनुपमसागरकल्पम्।

नैवात्र भीतिः नैवात्र कोपो

नैवात्र मात्सर्यरोषाग्निबाधा।।

भवतु मे देशोयं मुदभरितं नित्यं

जनततिः सर्वथा सोदरकल्पा।

नहि कलहो नहि द्वेषो भीषणाश्चत्र

सकलजनहृदयमिह शान्ततामेतु।।

Leave a Reply

Your email address will not be published. Required fields are marked *