चन्द्रयान-२ भूमेः भ्रमणपथमतिक्रान्तः, चन्द्रं प्रति प्रयाणमारब्धः।

बंगलूरु- भारतस्य द्वितीयः चन्द्रपर्यवेक्षण उपग्रहः भूमेः भ्रमणपथमतिक्राम्य चन्द्रं प्रति प्रयाणमारभत। भूमेः भ्रमणपथात् परिवर्तनं विजयप्रदम् आसीदिति भारतीय-शून्याकाश-पर्यवेक्षणसंघः सूचयति। प्रातः ३.३० वादने एव एतदर्थं भ्रमणपथोन्नमनमभवत्।
चन्द्रं लक्ष्यीकृत्य प्रस्थास्यमानः चन्द्रयान्-२ उपग्रहः आगस्त् २० दिनाङ्के चन्द्रस्य भ्रमणपथं प्राप्स्यति। ट्रान्स् लूणार् इञ्जक्षन् इति कृत्यस्य विजयेन चन्द्रयानस्य भूमिं परिक्रम्य २३ दिवसीयस्य प्रयाणस्य समापनमेष्यति। अनेन चन्द्रयान्-२ चन्द्रस्य स्वाधीनवलयम् आगच्छति। ततः पेटकस्थं यन्त्रं प्रज्वाल्य षट्भिः दिवसैः चन्द्रस्य दूरतमं भ्रमणपथं नेष्यति। ततः क्रमशः चन्द्रमण्डलात् १०० कि.मी. दूरस्थं भ्रमणपथं नेष्यति। तदनन्तरं सेप्तम्बर् ७ दिनाङ्के चन्द्रस्य दक्षिणध्रुवे पेटकम् अवतरिष्यति।
३८४० कि.ग्रां भारयुक्तं चन्द्रयान्-२ उपग्रहम् उद्वहन् जी.एस्.एल्.वी. मार्क्-३ उदग्रयानं गते जूलै २२ दिनाङ्के एव श्रीहरिक्कोट्टातः ऊर्ध्वमगात्।

Leave a Reply

Your email address will not be published. Required fields are marked *