Monthly Archives: February 2018
छात्राणां यात्राशुल्कं न वर्धापयति। वैयक्तिकलोकयानानं कर्मन्यासेन अवसितः
अनन्तपुरी- दिवसचतुष्टयं यावत् कर्मन्यासेन केरलीयान् महाकष्टे पातयित्वा पुनः अद्य कर्मन्यासं प्रत्यपाययत्। लोकयानस्वामिनः मुख्यमन्त्रिणा सह अनन्तपुर्यां कृते चर्चामेलने एवायं निर्णयो जातः। छात्राणां यात्राशुल्कं सपदि न वर्धापयति। कार्यमेतत् पुनरालोच्य निर्णयो भविता। इति मुख्यमन्त्री यानस्वामिनः अबोधयत्। तथापि जनानां क्लेशं परिगणय्यैव समरं प्रत्यपाययत् इति यानस्वामिनः अवदन्।
े
अरुविप्पुरे श्रीनारायणगुरुदेवेन कृता शिवप्रतिष्ठा सामाजिकविप्लवस्य कारणभूता अभवत्।
पत्तनंतिट्टा – अरुविप्पुरे श्रीनारायणगुरुदेवेन कृता प्रतिष्ठा सामाजिकपरिवर्तनस्य कारणभूता जाता इति मुख्यमन्त्री पिणरायि विजयः अब्रवीत्। केरलेषु ब्राह्मणेतराणाम् अर्चकरूपेण नियुक्ति एतस्यानन्तरफलत्वेन द्रष्टव्या इत्यपि सो/वदत्। पत्तनंतिट्टा माटमण् श्रीनारायणाधिवेशनस्य समापनसत्रम् उद्घाटयन्नासीत् मुख्यमन्त्री। केवलं ब्राह्मणानां कृते एव आराधनास्वातन्त्र्ययुक्ते कालघट्टे श्रीनारायणगुरुदेवः अरुविप्पुरे शिवप्रतिष्ठां व्यदधात्। एतत् कर्म सामाजिकविप्लवस्य निदानमभवत्। अस्मिन्नेव पथि चरन् सर्वेषां जातिविभागानां कृते अर्चनाय अवकाशः दत्तः इति मुख्यमन्त्री अवदत्।
संस्कृतं मम जीवनम् – 24-02-2018
नूतनी समस्या
“संस्कृतं मम जीवनम्”
ഒന്നാംസ്ഥാനം
येनेदं भारतं भाति
भाति येन च भारती।
द्वयोरप्येकमूलत्वात्
संस्कृतं मम जीवनम्।।
सुकुमारः।
“അഭിനന്ദനങ്ങൾ”
कालटी श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालये शास्त्रयान् पद्धतिः फेब्रुवरी २०,२१ दिनाङ्कयोः।
कालटी – विश्वनिद्यालयस्य प्रवर्तनानि योगदानानि च सम्यगवगन्तुं साधारणजनानामवकाशः कल्पनीयः इति विज्ञाय सर्वकारैः रूपवत्कृता पद्धतिर्भवति शास्त्रयान्। अस्याः पद्धतेः भागत्वेन कालटी श्रीशङकराचार्य संस्कृत सर्वकलाशालायां विविधाः कार्यक्रमाः आयोजिताः।
नाक् समितेः ए ग्रेड् अङ्गीकारः प्राप्तः केरलस्थः प्रथमः विश्वविद्यालयः भवति कालटी संस्कृतविश्वविद्यालयः। कालटीस्थं मुख्यकेन्द्रमतिरिच्य अष्टौ प्रादेशिककेन्द्राणि सन्ति अस्य विश्वविद्यालयस्य। भाषाः मानविकविषयाः अभिनयप्रकारः नृत्तं सङ्गीतं चित्रकला सामाजिकप्रवृत्तयः कायिकपठनम् इत्यादयः वैविध्यपूर्णाः पठनविभागाः अत्र सन्ति।
पूर्वोक्तां शास्त्रयान् पद्धतिमनुसृत्य २०१८ फिब्रुवरी २०,२१ दिनाङ्कयोः अत्रायोजिते कार्यक्रमे सामान्यजनानां कृते प्रभूतः अवकाशः कल्पितः। ते अत्रागन्तुं प्रभवन्ति, विविधानां पठनविभागानां प्रवर्तनानि निरीक्ष्य मूल्यनिर्णयं कर्तुमपि प्रभवन्ति। सममेव २० तमे दिनाङ्के विद्यालयीयछात्राणां कृते चित्ररचनामत्सरः आयोजितः। अस्मिन् मत्सरे प्रतिविभागं प्रथमं, द्वितीयं, तृतीयं च स्थानमाप्तवतां कृते यथाक्रमं ५०००,३०००,२००० रूप्यकाणां पारितोषिकमपि ददाति।
अस्याः पद्धतेः उद्धाटनं २० तमे दिनाङ्के उपकुलपतेः धर्मराज् अटाट् वर्यस्य आध्यक्ष्ये कालटी ग्रामपञ्चायत् अध्यक्षा श्रीमती तुलसीभाय् वर्या विधास्यति। राष्ट्रिय-उच्चतरशिक्षा-अभियानस्य राज्यस्तरीया पद्धतिसंयोजिका एं.एस्. जया ऐ.ए.एस्. वर्या मुख्यप्रभाषणं विधास्यति। द्वयेरपि दिनयोः सर्वे अक्कादमिकविभागाः तत्तत्पठनगवेषणादीनाम् अवतारणं करिष्यन्ति। संस्कृतशास्त्रविषये केरलीयानां पारम्पर्यम् इति विषये एका विचारगोष्ठिरपि अस्याः भागत्वेनायोजिता।
सर्वैः अस्यावसरस्य सदुपयोगः करणीयः इति भारवाहिणः अवदन्।
PRASNOTHARAM – 24-02-2018
प्रश्नोत्तरम्।
- सङ्गीतप्रधानवेदः कः? (क) सामवेदः (ख) यजुर्वेदः (ग) ऋग्वेदः
- संस्कृतस्य प्रथमः चम्पूग्रन्थः भवति नलचम्पुः। तस्य कर्ता कः? (क)त्रिविक्रमः (ख)माघः (ग)कालिदासः
- नाट्यशास्त्रस्य कैरली विवर्तकः कः?(क) अच्युतपिषारटिः (ख) एषुत्तच्छन् (ग)के पि नारायणपिषारटिः
- मत्तूर् संस्कृतग्रामः कर्णाटकस्य कस्यां जिल्लायां वर्तते ? (क) शिवमोगा (ख) होसूर् (ग)बङ्गलूरु
- पञ्चमहाकाव्यानाम् व्याख्याता कः? (क)मल्लीनाथः (ख)दण्डिः (ग) भारविः
- अधो दत्तेषु केरलीयसमाजपरिष्कर्ता कः?(क) श्रीरामकृष्णपरमहंसः (ख) स्वामी विवेकानन्दः (ग)श्रीनारायणगुरुः
- नौकागानकर्ता कः?(क) रामपुरत्तु वार्यर् (ख)वल्लत्तोल् (ग) कुमारनाशान्
- चट्टम्पिस्वामी कुत्र जनिमलभत ? (क) कालटि (ख) मेल्पत्तूर् (ग)कोल्लूर्
- बाल्ये विवेकानन्दस्य नाम किमासीत् ? (क) भास्करः (ख)रवीन्द्रः (ग) नरेन्द्रः
- अधोदत्तेषु ‘ वारि ‘ इत्यर्थकं पदं चित्वा लिखत ।(क)तटिनी (ख)सुधा (ग)सलिलम्
ഈയാഴ്ചയിലെ വിജയി
Bushara . V. P. G U P S. Nediyanga . Kannur dist.
“അഭിനന്ദനങ്ങൾ”
ശരിയുത്തരമയച്ചവർ:
- Bushara . V. P. G U P S. Nediyanga . Kannur dist.
- Rohith M S
- Gokul P
- Rajani PG
- सुकुमारः
- Dr. P Narayanan
- Wilson T
- Suresh babu
- Sreedevi V
- Manikandan K K
- Mariya K W
“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”
अक्रमः विकासश्च समं न गच्छति – उपराष्ट्रपतिः।
कोषिक्कोट्- केरलेषु राजनैतिकातिक्रमान् शक्तया भाषया अपलपन् उपराष्ट्रपतिः वेङ्कय्या नायिडू वर्यः रङ्गे। अक्रमः विकासश्च सममेव न गच्छति। राष्ट्रे शान्तिं पालयितुं सर्वेषां सहयोगः आवश्यकः इति स अवदत्। राजनैतिकदलानि परस्परं शत्रुतां पर्यवसेयुः इति उपराष्ट्रपति अार्थयत्।
हत्याराजनैतिकरीतिः न केवलं केरलस्य अपि तु राष्ट्रस्यापि न भूषणम्। विभिन्नस्य प्रत्ययशास्त्रस्य कृते मिथः कलहः हत्या च परिष्कृते समाजे न युज्यते। एतत् राष्ट्रं नाशे पातयति इत्यपि उपराष्ट्रपतिः अवदत्।
केरलस्य प्रगत्यां चित्तिरतिरूनाल् महाराजस्य निस्तुलं योगदानम्। – उपराष्ट्रपतिः।
तिरुवनन्तपुरम् – केरलेन आर्जितायाः प्रगतेः पश्चात् श्रीचित्तिरतिरुनाल् महाराजस्य दीर्घवीक्षणं व्यक्तं वर्तते इति उपराष्ट्रपतिः वेङ्कय्या नाय्टू वर्यः अवदत्। सामाजिकनीतिः समत्वं शिक्षा इत्यादीनां प्रभूतं प्राधान्यं महाराजेन कल्पितम् इति च स उक्तवान्। अनन्तपुर्यां कनकक्कुन्न् प्रासादे चतुर्विंशत्तमं चित्तिरतिरुनाल् अनुस्मरणप्रभाषणं विधास्यन् भाषमाण आसीत् सः।
१९३६ तमे वर्षे मन्दिरप्रदेशविलम्बरेण विप्लवकरस्य सामाजिकपरिवर्तनस्यैव चित्तिरतिरुनाल् पन्थानमुदघाटयत्। दलिदानां मन्दिरप्रवेशाय अनेन दत्ता अनुमतिः स्वतन्त्रतान्दोलनस्य प्रचोदिका अभवत्। पञ्चवयसः एकादशवयःपर्यन्तेभ्यो बालकेभ्यो अवश्यशिक्षादानार्थं निर्णयः एव अद्यत्वे केरलीय शिक्षाक्षेत्रस्य महत्वनिदानम् इति च उपराष्ट्रपतिः अन्वस्मरत्।
संस्कृताध्यापकफेटरेषन् सङ्घस्य वार्षिकाधिवेशनं कासरगोड् नगरे।
कासरगोड् – केरल संस्कृताध्यापकफेटरेषन् इति सङ्घस्य ४० तमं वार्षिकाधिवेशनं कासरगोड् नगरे २०१८ फिब्रुवरी २२,२३,२४ दिनाङ्केषु सम्पत्स्यते। २२ तमे दिनाङ्के दीपशिखाप्रयाणेन साकं समारोहः आरभ्यते। विख्यातः संस्कृतपण्डितः तथा महाजन संस्कृत कलालयस्य स्थापकश्चासीत् नीर्चाल् खडिके श्यां भट् वर्यः। तेषां स्मृतिमण्डपात् जयदेवखडिकेवर्यः दीपशिखां नारायणहेग्डेवर्याय प्रयच्छति। अधिवेशननगर्यां सा दीपशिखा संघाटकसमितेः अध्यक्षः ऐ.वी.भट् वर्यः स्वीकरिष्यति।
अधिवेशनस्य उद्घाटनं उदुमा मण्डलस्य नियमसभासदस्यः के.कुञ्ञिरामन् वर्यः विधास्यति। अस्मिन् समारोहे कासरगोड् नगरसभाध्यक्षा बीफात्तिमा इब्राहिं वर्या अध्यक्षा भविता। ततः स्मरणिकाप्रकाशनं प्रतिनिधिसम्मेलनं च भविता। कार्यक्रमे अस्मिन् संस्कृताध्यापकसङ्घस्य नेतारः भूतपूर्वनेतारश्च भागं भजिष्यन्ति।
२३ दिनाङ्के विद्याभ्याससम्मेलनं केरलमन्त्री ई. चन्द्रशेखरन् वर्यः उद्घाटयिष्यति। कासरगोड् सदस्यः एन्. ए. नेल्लिक्कुन्न् अध्यक्षः भविता। संस्कृतसम्मेलनं कालटी विश्वविद्यालयस्य उपकुलपतिः डो.धर्मराज् अटाट् वर्यः उद्घाटनं करिष्यति।चेन्नै संस्कृतकलालयस्य प्रांशुपालः टी.पी.आर्.नम्पूतिरिः अध्यक्षो भविता। प्रतिभापुरस्कारार्थं चिताः श्रीमन्तः हरिप्रसाद् कटम्पूर्- संघगानरचना, जोस् नववाणी- संस्कृतजालपुटः तथा मोबैल् आप्, पी.के. अशोकन् – संस्कृत त्रिमानचलच्चित्रं, हरिकुमार् अय्यम्पुषा- सम्प्रतिवार्ताः इति जालपत्रिका इत्येते वेदिकायाम् आदरिष्यन्ते। अध्यापकानां छात्राणां च सास्कृतिककार्यक्रमानपि आयोजयिष्यन्ते।