अक्रमः विकासश्च समं न गच्छति – उपराष्ट्रपतिः।

कोषिक्कोट्- केरलेषु राजनैतिकातिक्रमान् शक्तया भाषया अपलपन् उपराष्ट्रपतिः वेङ्कय्या नायिडू वर्यः रङ्गे। अक्रमः विकासश्च सममेव न गच्छति। राष्ट्रे शान्तिं पालयितुं सर्वेषां सहयोगः आवश्यकः इति स अवदत्। राजनैतिकदलानि परस्परं शत्रुतां पर्यवसेयुः इति उपराष्ट्रपति अार्थयत्।

     हत्याराजनैतिकरीतिः न केवलं केरलस्य अपि तु राष्ट्रस्यापि न भूषणम्। विभिन्नस्य प्रत्ययशास्त्रस्य कृते  मिथः कलहः हत्या च परिष्कृते समाजे न युज्यते। एतत् राष्ट्रं नाशे पातयति इत्यपि उपराष्ट्रपतिः अवदत्।

 

Leave a Reply

Your email address will not be published. Required fields are marked *