कालटी श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालये शास्त्रयान् पद्धतिः फेब्रुवरी २०,२१ दिनाङ्कयोः।

कालटी – विश्वनिद्यालयस्य प्रवर्तनानि योगदानानि च सम्यगवगन्तुं साधारणजनानामवकाशः कल्पनीयः इति विज्ञाय सर्वकारैः रूपवत्कृता पद्धतिर्भवति शास्त्रयान्। अस्याः पद्धतेः भागत्वेन कालटी श्रीशङकराचार्य संस्कृत सर्वकलाशालायां विविधाः कार्यक्रमाः आयोजिताः।

     नाक् समितेः ए ग्रेड् अङ्गीकारः प्राप्तः केरलस्थः प्रथमः विश्वविद्यालयः भवति कालटी संस्कृतविश्वविद्यालयः। कालटीस्थं मुख्यकेन्द्रमतिरिच्य अष्टौ प्रादेशिककेन्द्राणि सन्ति अस्य विश्वविद्यालयस्य। भाषाः मानविकविषयाः अभिनयप्रकारः नृत्तं सङ्गीतं चित्रकला सामाजिकप्रवृत्तयः कायिकपठनम् इत्यादयः वैविध्यपूर्णाः पठनविभागाः अत्र सन्ति।

     पूर्वोक्तां शास्त्रयान् पद्धतिमनुसृत्य २०१८ फिब्रुवरी २०,२१ दिनाङ्कयोः अत्रायोजिते कार्यक्रमे सामान्यजनानां कृते प्रभूतः अवकाशः कल्पितः। ते अत्रागन्तुं प्रभवन्ति, विविधानां पठनविभागानां प्रवर्तनानि निरीक्ष्य मूल्यनिर्णयं कर्तुमपि प्रभवन्ति। सममेव २० तमे दिनाङ्के विद्यालयीयछात्राणां कृते चित्ररचनामत्सरः आयोजितः। अस्मिन् मत्सरे प्रतिविभागं प्रथमं, द्वितीयं, तृतीयं च स्थानमाप्तवतां कृते यथाक्रमं ५०००,३०००,२००० रूप्यकाणां पारितोषिकमपि ददाति।

     अस्याः पद्धतेः उद्धाटनं २० तमे दिनाङ्के उपकुलपतेः धर्मराज् अटाट् वर्यस्य आध्यक्ष्ये कालटी ग्रामपञ्चायत् अध्यक्षा श्रीमती तुलसीभाय् वर्या विधास्यति। राष्ट्रिय-उच्चतरशिक्षा-अभियानस्य राज्यस्तरीया पद्धतिसंयोजिका एं.एस्. जया ऐ.ए.एस्. वर्या  मुख्यप्रभाषणं विधास्यति। द्वयेरपि दिनयोः सर्वे  अक्कादमिकविभागाः तत्तत्पठनगवेषणादीनाम् अवतारणं करिष्यन्ति। संस्कृतशास्त्रविषये केरलीयानां पारम्पर्यम् इति विषये एका विचारगोष्ठिरपि अस्याः भागत्वेनायोजिता।

     सर्वैः अस्यावसरस्य सदुपयोगः करणीयः इति भारवाहिणः अवदन्।

Leave a Reply

Your email address will not be published. Required fields are marked *