Category Archives: News Updates

श्रावणविरामानन्तरं राज्यस्थेषु विद्यालयेषु अस्य मासस्य २९ तमे दिनाङ्के अध्ययनं पुनरारभ्यते।

तिरुवनन्तपुरम्- श्रावणोत्सवविरामानन्तरं राज्यस्थेषु विद्यालयेषु अध्ययनम् अस्य मासस्य २९ तमे दिनाङ्के पुनरारभ्यते इति शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथवर्यः अवदत्। प्रलयदुरितकारणात् विद्यालयाः आगस्त् १७ तमे दिनाङ्के पिहिताः आसन्।

     राज्यस्थाः उच्चतरविद्यालयाः प्रवृत्युन्मुखोच्चतर-विद्यालयाः प्राथमिक-माध्यमिक-उच्चविद्यालयाश्च २९ तमे दिनाङ्के प्रवर्तिष्यन्ते। अधुना बहुषु विद्यालयेषु दुरिताश्वासशिबिराणि प्रचलन्ति। जलप्रलयः अवसितः इत्यतः शिबिरेभ्यः जनाः स्वकीयं गृहं प्रति गच्छन्तः सन्ति। कृट्टनाट् प्रदेशे जलाप्लवः अनुवर्तते इत्यतः तत्र शिबिर प्रचालनार्थं मार्गान्तरम् आलोच्यते इति वित्तमन्त्री तोमस् ऐसेक् वर्यः अवदत्।

प्रलयजले कालटी संंस्कृतविश्वविद्यालयस्य सर्वाः प्रमाणरेखाः विनष्टाः

 कालटी – जलोपप्लवेन कालटिदेशस्थायाः श्रीशङ्कराचार्य-संस्कृतसर्वकलाशालायाः सर्वाः प्रमाणरेखाः विनष्टाः अभवन्। प्राशासनिक-प्रासादखण्डे जलाप्लावेनैव छात्राणां लब्धाङ्कपत्राणि प्रमाणपत्राणि प्रभृतीनि सर्वाणि प्रमाणानि विनष्टानि जातानि। विश्वविद्यालयस्य सर्वेषु प्रासादखण्डेषु जलोपप्लवः सञ्जातः।

     बहूनि प्रमाणानि नष्टानि इत्यतः कोटिशानां संख्यानां नष्टः अभवदिति विश्विद्यालयस्य कुलपतिः डो. धर्मराज् अटाट् वर्यः अवदत्। विश्वविद्यालयस्य निम्नप्रदेशेषु समीपस्थात् केदारादेव जलमागतम्। जलौघप्रवाहवेगात्  प्रधानप्रमाणानि प्रासादात् इतरस्थानं नेतुं समयः न लब्धः। रात्रौ जनाप्लावनपर्यन्तः जलसञ्चयः सर्वत्र व्याप्तः। छात्रावासः प्राशासनिकखण्डः तान्त्रिकखण्डः कूत्तम्पलः च जलेन पूरिताः। वाहनानि मुद्रणालयादीनि च जलाप्लावेन नष्टानि जातानि।

     तान्त्रिकविभागस्य ग्रन्थालयः पूर्णतया  निरुपयोगो जातः। विश्वविद्यालयसमुच्चये नैकोपि प्रासादः जलपूरणभिन्नः अस्ति। विनष्टाः रेखाः कथं पुनःप्राप्तुं शक्यते इत्यालोचनायामेव अधिकारिणः। विश्वविद्यालयस्य प्रवर्तनं पूर्वस्थितिं प्राप्तुं  एकमासाधिकः समयः आवश्यकः इति कुलपतिः अवदत्।

केरलीयानाम् अद्य आघोषरहितः श्रावणोत्सवः

तिरुवनन्तपुरम्- प्रलयदुरितस्य मध्ये केरलीयानाम् अद्य श्रावणोत्सवः। घोरवर्षापातः अवसितः अपि मावेलिदेशे प्रलयदुरितदृश्यानि नावसितानि। पुष्पकोष्ठैरलंकरणीयीनि चत्वराणि पङ्कैः मालिन्यैश्च पूरितानि दृश्यन्ते। एकैकोपि केरलीयः स्वयं मावेलिरूपेण परिणामं प्राप्नुवन्ति दृश्यान्येव प्रलयकाले अस्माभिः दृष्टानि।

दुरिते पतितानां कृते भोज्यानि वस्त्राणि तथा सर्वाणि अवश्यवस्तूनि विधातुं केरलीयाः परस्परम्  स्पर्धन्ते स्म। सर्वकाराः कलासंघानि च आघोषं जहति स्म। सर्वे दुरिताशवासशिबिरेषु संभूय श्रावणाघोषे निरताः सन्ति। प्रलयकालः आपणमपि बाधते। कार्षिकरंगः चलचित्ररंगः च स्थगितः। एवं अमुं प्रलयकालं स्मृतिसागरे निलीय आगामिनि वर्षे श्रावणोत्सवम् सम्यगाघोषयितुं प्रतिपालयन्ति केरलीयाः

मुल्लप्पेरियार् जलबन्धे जलसञ्चय 139 पादत्वेन न्यूनीकर्तव्यम् – सर्वोच्चम्यायालयः

दिल्ली – केरलेषु सञ्जातस्य प्रलयस्य भूमिकायां मुल्लप्पेरियार् जलबन्धे जलसञ्चयः 139 पादत्वेन परिमितिः करणीया इति सर्वोच्चन्यायालयः निरदिशत्। मुल्लप्पेरियार् समीक्षणसमितेः आवेदनानुसारमेव अयमादेशः।

जलसञ्चयः इदानीन्तनावस्थातः द्वित्राः पादाः न्यूनीकर्तव्याः इति समीक्षणसमितेः आर्थना इति व्यवहारपरिगणनावसरे केन्द्रसर्वकारः सर्वोच्चन्यायालयं आवेदयत्। अस्य  पठनानन्तरं समीक्षणसमितेः निर्णयानुसारं पुरोगन्तव्यमिति न्यायालयः केरलसर्वकारं तमिल्नाटु सर्वकारं च निरदिशत्। निरणयः अयं उभाभ्यां राज्याभ्याम् अङ्गीकरणीयः परस्परसहयोगेन पुरो गन्तव्यश्चेति न्यायालयः निरदिशत्।

 

केरलाय साहाय्यम् आवश्यकम्, केन्द्रसर्वकारः नायपरिवर्तनं कुर्यात् इति केन्द्रमन्त्री अल्फोऩ्स् कण्णन्तानम्।

तिरुवनन्तपुरम्- विदेशसाहाय्यस्वीकारविषये केन्द्रसर्वकारैः नायपरिवर्तनं करणीयमिति केन्द्रमन्त्री अल्फोन्स् कण्णन्तानं वर्यः अभ्यर्थयत्। प्रलयदुरितमनुभूयमानानां केरलानां विदेशसाहाय्यम् आवश्यकमेव। एतद्विषये इतरैः केन्द्रमन्त्रिभिः सह चर्चां विधास्यति इति स अवदत्।

लक्षपरमितानां जनानां पुनरधिवासार्थं प्रभूतं धनमावश्यकम्। विदेशसाहाय्य न स्वीकुर्युः इति नियमः मन्मोहन् सिंह् सर्वकारेण आनीतः। १४ वर्षाणि यावत् अयमेव नियमः अनुवर्तते। परन्तु केरलस्य कृते अस्मिन् नियमे परिवर्तनम् आवश्यकम्। केरलाय साहाय्यविषये प्रधानमन्त्रिणम् अभ्यर्थये इति स अवदत्।

केरलाय ७०० कोटि रूप्यकाणां साहाय्यं विधास्यति इति यु.ए.इ. सर्वकारेण सूचितमासीत्। परन्तु विदेशधनस्वीकारविषये प्रतिबन्धः अस्तीत्यतः केन्द्रसर्वकारेण तन्निरस्तमासीत्। एतद्विषये व्यापकः प्रतिषेधः प्रचलन्नस्ति।

गते शताब्दौ भारतेन अभिमुखीकृतः बृहत्तरः प्रलय एव केरलेषु सञ्जातः इति नासा संस्था।

नवदिल्ली- गते शताब्दौ भारतेन अभिमुखीकृतः महाप्रलय एव केरलेषु सञ्जातः इति नासासंस्था। गते सप्ताहे भारतेषु लब्धायाः वृष्टेः गणनाम् अपग्रथनं कृत्वैव नासायाः निगमनम्। एतत्सम्बन्धीनि उपग्रहे लब्धानि वीडियोचित्राणि नासा बहिरानयत्। जूलै १९तः आगस्त १८ पर्यन्तं लब्धानां वृष्टीनां रेखाङ्गनमेव एषु चलनचित्रेषु विद्यन्ते।

     केरलेषु कर्णाटकेषु च प्रलयदृश्यानि व्यञ्जयन्ति उपग्रहचित्राणि। नासायाः जी.पी.एम्. आख्यः उपग्रहः एव एतानि चित्राणि बहिरानयत्। नासायाः तथा जक्सा नाम जपानशून्याकाशसङ्घस्य च संयुक्तसंरम्भ एव जी.पी.एम्.

     जूलै २० दिनाङ्के आरब्धा वृष्टिः आगस्त् ८-१६ दिनाङ्केषु अतितीव्रा जाता। जूण् प्रारम्भ एव साधारणात्  ४२ प्रतिशतम् अधिका वृष्टिः लब्धा। परम् आगस्त् मासे आद्येषु २० दिनेषु साधारणात् १६४ प्रतिशतम् अधिका वृष्टिः जाता।

     ४०० पर्यन्तं जनानां मृत्युः लक्षाधिकानां जनानां भवननष्टश्च अनेन प्रलयेन संवृत्तः। तथापि केन्द्रसर्वकारेण राष्ट्रियदुरन्तत्वेन परिगणना न दत्तम्, केवलं गुरुतरदुरन्तः इति रूपेणैव परिगणितम्।

 

पुण्यभूमौ बलिपेरुन्नाल् आघोषस्य धन्यतायां हज्ज् तीर्थाटकाः।

मक्का-  पुण्यभूमौ मक्कादेशे बक्रीद् आघोषेण सह हज्ज् कर्मणः धन्यतायां तीर्थाटकाः। जंरायां प्रथमे दिने अश्मप्रक्षेपकर्मानन्तरं बलितर्पणमपि जातम्। ततः मक्कां प्रविश्य  क-अबा प्रदक्षिणं सफा मर्वायां अटनं च समाप्य हज्ज् कर्मणः अर्धविरामो जातः। ततः नूतनवस्त्रं धृत्वा हाजिनः परस्परम् आश्लिष्य बक्रीद् आघोषे निरताः अभवन्। गल्फ् राष्ट्रेषु ह्यस्तने आसीत् बक्रीदाघोषः।

     मुसदलिफातः सञ्चितेन प्रस्तरखण्डेन सह प्रातरारभ्य समायाताः तीर्थाटकाः पिशाचस्य प्रतीकरूपायां जंरायां प्रस्तरप्रक्षेपकर्मणि निरताः। प्रतिहोरं लक्षं जनेभ्यः एतदर्थं सुविधा सज्जीकृता आसीत्। तथा प्रतिराष्ट्रं प्रत्येकं सुविधाश्च सज्जीकृताः। अतः जनसम्मर्दः नानुभूतः। २४ लक्षं तीर्थाटकाः हज्ज् कर्म निर्व्यूढाः इति अधिकृताः असूचयन्।

केरलस्य कृते साहाय्यविषये ऐक्यराष्ट्रसभायाः प्रतिकरणम्।

नवदिल्ली- प्रलयदुरन्तम् अनुभूयमानाय केरलाय यु.एन्. साहाय्यविषये केन्द्रसर्वकारस्य सूचनं प्रति स्वाभिप्रायं प्रकटयन् ऐक्यराष्ट्रसभा रङ्गमागता। दुरन्तान् अभिमुखीकर्तुं केरलं शक्तं भवतीति ऐक्यराष्ट्रसंघेन सूचितम्। परन्तु अभ्यर्थितं साहाय्यं दातुं सभा सन्नद्धतां प्राकटयत्। केरलाय साहाय्यं स्वयम् उद्घुष्य ऐक्यराष्ट्रसभा रेड् क्रोस् प्रभृतयः राष्ट्रान्तरसंघटनां प्रत्येव साहाय्यं नावश्यकमिति केन्द्रसर्वकारः स्वाभिप्रायं व्यजिज्ञपत्। राष्ट्रिय दुरन्तनिवारण अधिकृतस्थानानां सूचनानुसारं आगोल संघानां साहाय्यं नावश्यकमिति दिल्ल्यां आशयविनिमये केन्द्रसर्वकारः असूचयत्।

एतस्मिन्नन्तरे ऐक्य अरब् एमिरेट्स् प्रभृतीनि सागरराष्ट्राणि केरलाय साहाय्यं कर्तु सन्नद्धतां प्राकटयत्। यु.ए.इ. ७०० कोटि रूप्यकाणां साहाय्यं प्राख्यापयत्। परन्तु एषां साहाय्यानां स्वीकारविषये केन्द्रसर्वकारस्य अभिप्रायः कः इति न व्यक्तं भवति।

प्रलयदुरितसमाश्वासप्रवर्ततनानां निर्वहणम् – राष्ट्रपतिः केरलराज्यं प्राशंसयत्।

नवदिल्ली- प्रलयदुरिते आप्लाव्यापि रक्षाप्रवर्तनेषु दुरित-समाश्वासप्रवर्तनेषु च केरलराज्येन प्रकटितां धीरतां राष्ट्रपतिः प्राशंसयत्। केन्द्र-राज्यसर्वकारयोः एकीभूय प्रवर्तनेन इदं साध्यमभवत्।

     केरलानां कृते आराष्ट्रं जनानां सहयोगः भविष्यति इति स न्यगादीत्। तेन इदमपि निगदितं यत् केरलमुख्यमन्त्रिणं केरलराज्यपालं च दूरवाणीद्वारा असकृदाहूय केरलस्थाः स्थितिगतयः अवगताः इति। वर्षाप्रलयात् तरितुं एकीभूय तिष्ठतां केरलीयानां निश्चयदार्ढ्यं प्रशंसनीयमेव। रक्षाप्रवर्तनानाम् एकोपनं कुर्वद्भ्यः केन्द्रिय-दुरन्तनिवारण-सेनाभ्यः केन्द्र-राज्यस्तरीयेभ्यः कर्मकरेभ्यश्च स आशंसां व्याहरत्।

प्रलयप्रदेशे व्योमनिरीक्षणं कर्तुं प्रथानमन्त्रिणः उद्यमस्य प्रतिबन्धः, व्योमयानम् उड्डीय दशनीमेषाभ्यन्तरे प्रतिनिवृत्तम्।

तिरुवनन्तपुरम्- राज्ये प्रलयबाधितप्रदेशान् साक्षाद् द्रष्टुं ह्यः आगतः प्रथानमन्त्री नरेन्द्रमोदीवर्यः अद्य व्योमनिरीक्षणार्थं कोच्चीं प्रति प्रस्थितः अपि वातावरणक्षोभकारणेन स्वकीयात् दौत्यात् प्रतिनिवृत्तः।

     कोच्ची रान्नी, चेङ्ङन्नूर्, आलुवा, पत्तनंतिट्टाप्रभृतिषु क्षेत्रेषु व्योमनिरीक्षणाय प्रातः सप्तवादने प्रधानमन्त्री प्रस्थितः आसीत्। परन्तु झंझावातः घोरवृष्टिश्च यात्रायां प्रतिबन्धत्वेन परिणतौ। केन्द्रमन्त्री अल्फोन्स् कण्णन्तानं, मुख्यमन्त्री पिणरायि विजयः, राजस्वमन्त्री ई. चन्द्रशेखरः मुख्यसचिव प्रभृतयः प्रधानमन्त्रिणम् अनुगच्छन्ति स्म।

     प्रलये प्राणरक्षाप्रवर्तनानि अनुवर्तन्ते। अयुतसंख्यकाः जनाः इदानीमपि अभयमलभमानाः विविघेषु स्थलेषु सन्ति। व्योम-नाविक-स्थलसेनासैनिकाः रक्षाप्रवर्तने निरताः सन्ति। सममेव जानपदीयाः सन्नद्धप्रवर्तकाः धीवरसंघाश्च तेषां साहाय्यं कुर्वन्तःसन्ति। वृष्टिप्रलये इतः पर्यन्तं ३२५ जनाः मृताः इति मुख्यमन्त्री पिणरायि विजयः अवदत्।