Category Archives: News Updates

वर्षाप्रलयमध्ये वल्गुप्रचारणम्- नियमव्यवहारः भवेत् – मुख्यमन्त्री।

तिरुवनन्तपुरम- महावृष्टिपातेन दुरितमनुभूयमानाना जनानां सान्त्वनाया यतमानेषु सत्सु समाजमाध्यमेषु व्याजप्रचारणं कुर्वतः जनान् विरुध्य कठिनान् नियमव्यवहारान् स्वीकरिष्यति इति मुख्यमन्त्री पिणरायि विजयन् वर्यः अवदत्। एतादृशानि प्रचारणानि प्रत्यभिज्ञातुं जनाः प्रभवेयुः। यथार्थसूचनाः अनुगन्तुं समाजः सज्जः भवेदित्यपि स न्यगादीत्।

जनान् परिभ्रान्तान् क्रियमाणानि प्रचारणानि गौरवरूपेण पश्यति। मुल्लप्पेरियार् प्रभृतयःजलभन्धाः बलक्षयेन भग्नाः भविष्यन्तीति रूपेण प्रचारणं समाजमाध्यमेषु प्रचलन्ति। परन्तु एतेषां जलबन्धानां कापि हानिः न भवति इति मुख्यमन्त्री अवदत्।

भूतपूर्वप्रधानमन्त्री अटल् बिहारी वाजपेयीवर्यः दिवं गतः

नवदिल्ली- भूतपूर्वः प्रधानमन्त्री तथा भा.ज.पा. दलस्य वरिष्ठः नेता अटल् बिहारी वाजपेयीवर्यः दिवं गतः। स ९४ वयस्कः आसीत्। आमयपीडया कतिपयदिनानि यावत् दिल्ल्यां एयिंस् चिकित्सालये चिकित्सायामासीद् अयं वर्यः। २००४ तमे वर्षे प्रधानमन्त्रीपदवीतः विरमय्य अनारोग्यकारणात् निजीयरंगं त्यक्तवानयम्। ततः स्ववसत्यां विश्रान्तः सन् कालं निनाय।

     १९२४ दिसम्बर् २५ तमे दिनाङ्के मध्यप्रदेशे ग्वालियोर् जनपदे अयं भूजातः। पिता कृष्णबिहारी वाजपायी माता कृष्णदेवी च। कान्पूर् विश्वविद्यालयात् राष्ट्रतन्त्रे स्नातकोत्तरबिरुदं सम्पाद्य नियमपठनार्थं प्रविष्टवानयम्। परन्तु पठनसमाप्तेः पूर्वं स्वतन्त्रतासंग्रामेण आकृष्टः। क्विट् इन्ड्या समरकाले अयं कारायां बद्धः आसीत्।

     त्रिवारं भरतस्य प्रथानमन्त्रिपदम् अलंचकार अयं महाभागः। किन्तु लोकसभायाः सम्पूर्णे सत्रे एकवारमेव स तत्पदमूढवान्। १९९९-तः २००४ पर्यन्तमासीदयं कालघट्टः। ततः पूर्वं १९९६, १९९८ काले ह्रस्वकालं स प्रधानमन्त्रिपदे स्थितः आसीत्।

     भारतरत्न, पद्मविभूषण् इत्यादिभिः राष्ट्रं तं समादरत्। राष्ट्रतन्त्रेण साकं साहित्ये अपि निष्णात आसीदयम्। हिन्दी भाषायां प्रसिद्धः कविरायीदयं महाभागः।

स्वतन्त्रता दिवसस्य शुभाशयाः

राष्ट्रम् अद्य द्वासप्ततितमं स्वतन्त्रतादिनम् आचरति। जलोपप्लवेन महादुरितमनुभूयमाना अपि केरलीयाः औपचारिकरीत्या आघोषे भागं गृह्णन्ति।

सर्वेभ्यो नववाणीसुहृद्भ्यः स्वतन्त्रतादिनस्य शुभकामनाः

जलोपप्लवः- कोच्ची अन्ताराष्ट्रविमानपत्तनं शनिवासरं यावत् पिहितम्।

कोच्ची- मुल्लप्पेरियार्- इटुक्की-चेरुतोणी जलबन्धानाम् अनावरणेन कोच्ची प्रदेशे महान् जलोपप्लवः सञ्जातः। अनेन शनिवासरं यावत् कोच्ची अन्ताराष्ट्रविमानपत्तनं पिहितम्। प्रथानस्थलं जलपूरितमभवदित्यतः पिधातुं निर्णीतः। जलोपप्लवः नियनित्रणातीतः इति अधिकारिभिः निगदितम्। ह्यस्तनीयविज्ञापनानुसारम् अद्य मध्याह्ने द्विवादनपर्यन्तमासीत् नियन्त्रणम्। तत्तु इटुक्की चेरुतोणी जलबन्धौ अनावृतौ इत्यतः जाग्रताकारणादासीत्। अद्य तु विमानपत्तनं जलमयमभवत्। तत्र नियन्त्रकघटना आरब्धा दूरवाणी – ०४८४ – ३०५३५००, २६१००९४.

अस्मिन् वर्षे सर्वकारीण-श्रावणणोत्सवकार्यक्रमान् प्राजहत् इति मुख्यमन्त्री।

तिरुवनन्तपुरम्- प्रलयदुरन्तस्य भूमिकायाम् अस्मिन् वर्षे सर्वकारस्य श्रावणोत्सवकार्यक्रमान् प्रजहाति इति मुख्यमन्त्री पिणरायि विजयन् वर्यः प्रावोचत्। आघोषार्थं विभिन्नानां विभागानां कृते उद्घोषितं धनं प्रलयदुरिताश्वासनिधौ निक्षिप्यते। दुरितबाधितेभ्य साहाय्यदानार्थं सर्वे दत्तमनस्काः भवेयुरिति स अब्रवीत्।

सर्वकारीण-निजीयसंस्थासु विद्यमानाः कर्मकराः द्विदिवसीयपरिमितं वेतनं दुरिताश्वासनिधये दद्युरित्यपि मुख्यमन्त्री अवोचत्। एवं दीयमानं धनं सेवनशुल्कं विना स्वीकर्तुं वित्तकोशाः निर्दिष्टाः सन्ति। जलेपप्लवेन राज्ये २०००० गृहाणि भग्नानि, १०००० कि.मी.पर्यन्तं रथ्याः विनष्टाः इत्यपि स निजगाद।

पूर्वतनलोकसभाध्यक्षः सोमनाथचाट्टर्जीवर्यः दिवंगतः।

कोल्क्कत्ता – भारतस्य पूर्वतनलोकसभाध्यक्षः सि.पि.एम् दलनेता च सोमनाथचाट्टर्जीवर्यः कोल्क्कत्तायां दिवंगतः। गतचत्वारिशद्दिननि यावत्  श्वासनिरुद्धतया चिकित्सालये तीव्रपरिचरणविभागे प्रविष्टः। असमराज्ये तेजपुरे लब्धजन्मनः अस्य पितरौ निर्मल चाट्टर्जी, बीनापाणीदेबी च। दशवारं लोकसभासदस्यत्वेन कर्मनिरतः आसीदयं जनायत्तवादी २००४ तः २००९ पर्यन्तं यु.पि.ए सर्वकारस्य लोकसभाध्यक्षप्राप्त्या आभारतं प्रसिद्धिमाप्तवान्। अस्य भार्या रेणू, अनुराधा अनुषिला च अपत्ये।

नोबेल् पुरस्कृतः साहित्यकारः नेय्पालः दिवंगतः।

लण्टन् – सुप्रसिद्धः आगलेयसाहित्यकारः नोबेल पुरस्कारजेता च वि.एस् नेय्पालः(८५)  दिवंगतः। शनिवासरे लण्टन् नगरस्थायां स्वकीयवसत्यामेवासीदस्य मृतिः। भारजीयवंशजो∫यं  लिपिकारः २००१ तमे वर्षे साहित्यस्य कृते दीयमानेन नोबेलपुरस्कारेण आदृतः  भवति। अनेन त्रिंशदधिकाः ग्रन्था: रचिताः सन्ति। ‘इन् ए फ्री स्टेट्‘ नामकेन नोवल्ग्रन्थेन १९७१ तमे वर्षे बुक्कर् पुरस्कारः अपि अनेन स्वायत्तीकृतः। अयं ग्रन्थः विंशतितमशतकस्य महत्तमेषु १०० ग्रन्थेषु स्थानमवाप। १९९० तमे वर्षे ब्रिट्टीष् सर्वकारेण सर् स्थानमपि पुरस्कृतम्।

केरले आपातकालीनघटनाः निरीक्षितुं केन्द्रिय गृहमन्त्री आगच्छति।

तिरुवनन्तपुरम्- केरलराज्ये दिवसान् यावत् अनुवर्तमानां महतीं वृष्टिं तत्सम्बन्धीन् जलोपप्लवांश्च साक्षादवगन्तुं केन्द्रीयगृहमन्त्री राजनाथसिंह् वर्यः केरलानागच्छति। रविवासरे एव राजाथसिंहस्य नेतृत्वे केन्द्रसंघस्य आगमनम्। प्रलयबाधितप्रदेशे संघस्य सन्दर्शनं भविता। आपातकालीनसाहाय्यं केरलाय दातव्यमिति केरलस्थाः सभासदस्याः गृहमन्त्रिणं न्यवेदयन्।

     सममेव केरलस्य कृते अवश्यं साहाय्यं दास्यति इति केन्द्रसर्वकारः समसूचयत्। प्रधानमन्त्री नरेन्द्रमोदीवर्यः दूरवाणीद्वारा मुख्यमन्त्रिणमाहूय स्थितिगतीः अवालेकयत्। अस्माकं प्रातिवेशिकौ तमिल्नाटु-कर्णाटकप्रदेशौ अपि साहाय्यम् उदघोषयताम्।

इटुक्की सेतौ जलसञ्चयः २३९९ पादाः सञ्जाताः। पिधानोन्नयनार्थं ट्रयल् रण् आयोजयितुम् उद्यमः।

तोडुपुषा- ४८ होराः यावत् अनवरतेन वृष्टिपातेन इटुक्की सेतौ जलसञ्चयः २३९९ पादाः जाताः ट्रयल् रण् आयोजयितुम् उन्नततलाधिवेशने निर्णयः। वृष्टिप्रदेशे वृष्टिः अनुवर्तते इत्यतः अद्य मध्याह्नात् पूर्वं जलसञ्चयः सम्भरणशोषीम् अतिगच्छेयुः। अत एव ट्रयल् रण् आयोजयितुं राज्य वौद्युतनिगमः सज्जो भवति। इटमलयार् सोतोः पिधानम् अद्य प्रातः पञ्चवादने उन्नीतमासीत्। अद्य ११ वादने इटुक्की चेरुतोणी सेतोः एकं पिधानम् उन्नीयते। प्रदेशवासिनः जागरूकाः भवेयुः इति वैद्युतविभागमन्त्री एं.एं. मणीवर्यः अवदत्।

कलैञ्जर् करुणानिधिः दिवंगतः।

चेन्नै- द्राविड मुन्नेट्र कषकं दलस्य अध्यक्षः तथा तमिल् नाटु राज्यस्य भूतपूर्वः मुख्यमन्त्री श्रीमान् एम्. करुणानिधिवर्यः दिवंगतः। चलनचित्रमण्डले चिरप्रतिष्ठः अयं विख्यातः पटकथाकारः आसीत्। वार्धक्यसहजेन आमयेन कावेरी चिकित्सालये चिकित्सायामासीत्। अद्य सायं ६.४० वादने आमयः मूर्छितः, तेन अन्यश्च जातः।