Daily Archives: November 17, 2026
संस्कृतम् आयुर्वेदश्च मिथ आश्रिते । डा पि एम् वारियर्
संस्कृतम् आयुर्वेदश्व परस्परमाश्रित्य वर्तेत इति कोट्टकल आर्यवैद्यशालाया : मुख्यवैद्यः डा पि एम् वारियर् अभिप्रैति स्म । केरलसंस्कृतअक्कादम्याः 2026 वर्षीयान् पुरस्कारान् समर्पयन् भाषमाण आसीत् स धन्यात्मा ।
अकादम्या : अध्यक्षः डा के टी माधवः आध्यक्ष्यमावहत् । पि टी कुर्याक्कोस् पुरस्कारं डा के एन् नीलकण्ठ इलयत् ‘ साहिती पुरस्कारं डा के भारती वर्या सहितीप्रभा पुरस्कारं डा ई श्रीघर : तथा रामप्रभापुरस्कारं डा वि के राजकृष्णश्च स्वीकृतवन्तः ।
स्मृतिषु स्त्रीणां स्थानमिति विषयमाधारीकृत्य डा सी टी फ्रान्सिस् कुर्याक्कोस् अनु स्मरणभाषणञ्च कृतवान् । डा पि सी मुरली माधवः पुरस्कारजेतॄन् परिचाययत् । डा वि के विजयः प्रशास्त्रिपत्रमपठत् । डा ई आर् नारायण : श्रीमती गौतमी कृष्णश्च भाषितवन्तौ । विश्वविद्यालयस्य निदेशकः डा के के षैन् स्वागतं तथा डा के एम् रवीन्द्रः कृतज्ञताञ्च अवदताम् ॥











