राज्यस्तरीयः शिक्षकपुरस्काराः प्रख्यापिताः।

तिरुवनन्तपुरम्-  राज्यस्तरीयः शिक्षकपुरस्काराः प्रख्यापिताः। प्राथमिक-माध्यमिकस्तरे १४ उच्चविद्यालय-स्तरे १४ च आहत्य २८ अध्यापकाः पुरस्कृताःभवितारः। मण्डलस्तरसमितेः लब्धा संस्तुतिः पाठ्य-पाठ्येतररङ्गेषु प्रवर्तनानां वैशिष्ट्यं च परिगणय्यैव पुरस्काराः वितरन्ति। जनपदस्तरसमितेः अध्यक्षः जनपदभरणाधिकारी भवति। राज्यस्तरीयसमित्यां शिक्षामन्त्री अध्यक्षः सार्वजनीन-शिक्षासचिवः समाय़ोजकः सार्वजनीनशिक्षानिदेशकः अङ्गं च भवति। इयं समितिरेव राज्यस्तरीयपुरस्कारार्थम् अध्यापकान् चिनोति।

     १०००० रूप्यकाणि प्रशस्तिपत्रं शिल्पं च पुरस्कारे अन्तर्भवन्ति। राष्ट्रियशिक्षकदिने सप्तम्बर् ५ दिनाङ्के तिरुवनन्तपुरं वी.जे.टी. प्रशालायां प्रातः दशवादने आयोजिते समारोहे पुरस्कारान् प्रदास्यति। अस्मिन् समारोहे तत्रत्यः सामाजिकः अध्यक्षः भविता। शिक्षामन्त्री सी. रवीन्द्रनाथवर्यः पुरस्कारान् प्रदास्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *