एकं भारतम् एकं निर्वाचनम् इत्याशयस्य निर्णयः केन्द्र-नियमायोगेन विलम्बितः।

दिल्ली- राज्यविधानसभा- लोकसभानिर्वाचनानि एकीभूय सञ्चालनीयानि इति विषये अन्तिमनिर्णयः केन्द्रीय-नियमायोगेन विलम्बितः सर्वकाराणामभिप्रायं मानयन् आयोगः अस्मिन् विषये राजनैतिकसमवायस्य आवश्यकताम् असूचयत्।

     निर्वाचनानि एकस्मिन् समये आयोजयितुं सर्वकारस्य प्रयत्नं नियमायोगस्य प्राथमिकावेदने स्वागतं करोति स्म। एतदर्थं संविधानसंशोधनमावश्यकमिति आयोगेन सूचितम्। २०१९ तमे वर्षे १२ राज्येषु विधानसभानिर्वाचनं लोकसभानिर्वाचनं च एकीभूय कर्तुम् आवेदने निर्देशमस्ति। २०२१ तमे वर्षे १७ राज्येषु विधानसभा-निर्वाचनानि एकस्मिन् समये करणीयानि। २०२४ तमे वर्षे आसां १७ विधानसभानां कालपरिधिं न्युनीकृत्य सर्वाणि निर्वाचनानि एकस्मिन् समये चालयितुं शक्यते इति आयोगस्य निर्देशः। अतः २०१९ लोकसभानिर्वाचनेन सह सर्वासां विधानसभानां निर्वाचनं न भविष्यतीति व्यक्तमभवत्।

 

Leave a Reply

Your email address will not be published. Required fields are marked *