Category Archives: News Updates

अद्य अध्यापकदिनम्। सुशोभनं भविष्यकालम् उत्पश्यामः।

तिरुवनन्तपुरम्- अद्य सेप्तम्बर् ५ दिनाङकः शिक्षकदिनत्वेन आचर्यते आभारतम्। विशिष्टः अध्यापकः भूतपुर्वः राष्ट्रपतिः तथा विश्वोत्तरः तत्वचिन्तकश्चासीत् डो. सर्वप्पल्ली राधाकृष्णन् वर्यः। तस्य महात्मनः जन्मतिथिरेव वयम् अध्यापकदिनत्वेन आचरामः। बालकानां शिक्षणं प्रशिक्षणं तेषां संवर्धनादिकं च अध्यापकस्य कर्तव्यानि भवन्ति। अनेनैव नूतनां गुणयुक्तां परम्परां संवर्धयितुं शक्यते।

विज्ञानस्याधारेणैव विश्वस्य प्रगतिः। तादृशीं सामाजिकघटनां प्रति विश्वस्य प्रयाणे अध्यापकानां योगदानम् अधिकं वर्तते। किन्तु अध्यापकानां सामान्यावस्था अद्य आशाकरी नास्ति। वृत्यनुरूपं वेतनं न लभ्यते इत्यतः समर्थाः अध्यापनं प्रति प्रायः विभुखतां प्रकटयन्ति। न केवलं ज्ञानेन उत्तमशिक्षको भवितुमर्हति। महाकवेः कालिदासस्य वचने उत्तमः शिक्षकः एवम् –
शिष्टा क्रिया कस्यचिदात्मसंस्ता
संक्रान्तिरन्यस्य विशेषयुक्ता।
यस्योभयं साधु स शिक्षकाणां
धुरि प्रतिष्ठापयितव्य एव।। इति।
अत एव अध्यापनाय अयोग्याः यदि पाठयन्ति तर्हि सा शिक्षा महती न भवति। तमेव सन्देशम् इदमध्यापकदिनं प्रददाति।

अद्ध्यापकाः आदर्शपुरषाः भवेयुरिति डो. राधाकृष्णवर्यस्याभिप्रायः। अतः प्रशिक्षितः कर्तव्यबोधयुक्तः अध्यापनकर्मणि स्निह्यमानश्च जनः विद्यालयेषु पाठयितुम् आगच्छेत् इत्येव अस्मिन् दिवसे अस्माकं सन्देशः।

सर्वेभ्यो अध्यापकदिऩाशंसाः।

उत्तरप्रदेशराज्ये अपि वृष्टिप्रलयः 21 मरणानि, गङ्गा यमुना च कूलङ्कषे अभवताम्।

लक्नौ-  उत्तरप्रदेशराज्ये 12 जनपदेषु जलोपप्लवः। महत्या वृष्ट्या जलोपप्लवेन च गतेषु 48 होरासु मृतानां संख्या 21 जाता। अतिघोरया वृष्ट्या गङेगायमुनाप्रभृत्यः नद्यः कूलङ्कषरूपेण प्रवहन्ति।

षहजन्पुर, अमेटी, औरिया जनपदेषु महान् नष्टः सञ्जातः। षहजनपुरे षट् जनाः प्रलये मृताः। प्रलयबाधितप्रदेशेषु राष्ट्रिय-राज्यस्तरीयश्च दुरन्तनिवारणसेनाः रक्षाप्रवर्तनानि कुर्वन्तः वर्तन्ते।

ग्वालियोर् व्योमसेनानिलयादागतानि व्योमयानानि प्रलर्यप्रदेशात् बहून् जनान् जुगुपुः। प्रलये 461 भवनानि भग्नानि इति प्राथमिकं निगमनम्। बहवः ग्रामाः सूचनाविनिमयरहिताः अभवन्। दिवसद्वयपर्यन्तं घोरा वृष्टिर्भविष्यतीति अन्तरिक्षपठनकेन्द्रस्य निगमनम्। मुख्यमन्त्री योगी आदित्यनाथः प्रलयप्रदेशेषु व्योमनिरीक्षणं कृतवान्।

 

असंस्कृतमृत्तैलस्य मूल्ये न्यूने अपि तैलेन्धनस्य मूल्यवर्धना अनुवर्तते।

कोच्ची- तैलेन्धनस्य मूल्यवर्धना अनुस्यूतम् अनुवर्तते। कोच्ची नगरे अद्य पेट्रोल् मूल्यं ८१ रूप्यकाणि अतिक्रम्य ८१.१९ अभवत्। डीजल् इन्धनस्य मूल्यमपि ७५ रूप्यकाणाम् उपरि स्थितं वर्तते। नगराद्बहिः एतत् क्रमेण ८२ रूप्यकाणि ७६ रूप्यकाणि च तिष्ठति।

राष्ट्रान्तरविपण्यां तैलेन्धनस्य मूल्यवर्धनेन सह रूप्यकाणां मूल्यपतनमेव एवं मूल्यवर्धनस्य कारणम्।

राष्ट्रिय-शिक्षकदिनम् आघोषरहितम् आचर्यते।

तिरुवनन्तपुरम्- ऐषमं शिक्षकदिनाचरणं सेप्तमंबर् ५ दिनाङ्के बुधवासरे आधोषं विना अनन्तपुर्यां आयोजयति। प्रातः दशवादने वी.जे.टी. प्रशालायाम् आयोज्यमाने समारोहे शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथवर्यः पुरस्कारवितरणं निर्वक्ष्यति। विशिष्टशिक्षकाणां कृते पुरस्कारः, विशिष्टसमितीनां कृते पुरस्कारः शिक्षकाणां साहित्यरचनायै प्रोफ. मुण्डश्शेरी पुरस्कारश्च अस्यां वेदिकायां वितरिष्यते।

प्रलयदुरन्तस्य भूमिकायां टी.टी.ऐ.-पी.पी.टी.टी.ऐ. कलोत्सवः अस्मिन् वर्षे न संचाल्यते इति सार्वजनीनशिक्षानिदेशकः अवदत्।

राज्यस्तरीयः शिक्षकपुरस्काराः प्रख्यापिताः।

तिरुवनन्तपुरम्-  राज्यस्तरीयः शिक्षकपुरस्काराः प्रख्यापिताः। प्राथमिक-माध्यमिकस्तरे १४ उच्चविद्यालय-स्तरे १४ च आहत्य २८ अध्यापकाः पुरस्कृताःभवितारः। मण्डलस्तरसमितेः लब्धा संस्तुतिः पाठ्य-पाठ्येतररङ्गेषु प्रवर्तनानां वैशिष्ट्यं च परिगणय्यैव पुरस्काराः वितरन्ति। जनपदस्तरसमितेः अध्यक्षः जनपदभरणाधिकारी भवति। राज्यस्तरीयसमित्यां शिक्षामन्त्री अध्यक्षः सार्वजनीन-शिक्षासचिवः समाय़ोजकः सार्वजनीनशिक्षानिदेशकः अङ्गं च भवति। इयं समितिरेव राज्यस्तरीयपुरस्कारार्थम् अध्यापकान् चिनोति।

     १०००० रूप्यकाणि प्रशस्तिपत्रं शिल्पं च पुरस्कारे अन्तर्भवन्ति। राष्ट्रियशिक्षकदिने सप्तम्बर् ५ दिनाङ्के तिरुवनन्तपुरं वी.जे.टी. प्रशालायां प्रातः दशवादने आयोजिते समारोहे पुरस्कारान् प्रदास्यति। अस्मिन् समारोहे तत्रत्यः सामाजिकः अध्यक्षः भविता। शिक्षामन्त्री सी. रवीन्द्रनाथवर्यः पुरस्कारान् प्रदास्यति।

एकं भारतम् एकं निर्वाचनम् इत्याशयस्य निर्णयः केन्द्र-नियमायोगेन विलम्बितः।

दिल्ली- राज्यविधानसभा- लोकसभानिर्वाचनानि एकीभूय सञ्चालनीयानि इति विषये अन्तिमनिर्णयः केन्द्रीय-नियमायोगेन विलम्बितः सर्वकाराणामभिप्रायं मानयन् आयोगः अस्मिन् विषये राजनैतिकसमवायस्य आवश्यकताम् असूचयत्।

     निर्वाचनानि एकस्मिन् समये आयोजयितुं सर्वकारस्य प्रयत्नं नियमायोगस्य प्राथमिकावेदने स्वागतं करोति स्म। एतदर्थं संविधानसंशोधनमावश्यकमिति आयोगेन सूचितम्। २०१९ तमे वर्षे १२ राज्येषु विधानसभानिर्वाचनं लोकसभानिर्वाचनं च एकीभूय कर्तुम् आवेदने निर्देशमस्ति। २०२१ तमे वर्षे १७ राज्येषु विधानसभा-निर्वाचनानि एकस्मिन् समये करणीयानि। २०२४ तमे वर्षे आसां १७ विधानसभानां कालपरिधिं न्युनीकृत्य सर्वाणि निर्वाचनानि एकस्मिन् समये चालयितुं शक्यते इति आयोगस्य निर्देशः। अतः २०१९ लोकसभानिर्वाचनेन सह सर्वासां विधानसभानां निर्वाचनं न भविष्यतीति व्यक्तमभवत्।

 

विश्ववाणिज्यसंघात् अपैष्यति इति भीषया सह रोनाल्ड् ट्रम्प् वर्यः।

न्यूयोर्क- विश्ववाणिज्यसंघटनायाः(WTO) अपैष्यति इति अमेरिक्का राष्ट्रपतिः रोनाल्ड् ट्रम्प् वर्यः भीषां प्राकटयत्। अमेरिक्कां प्रति संघस्य असमीचीनम् उपगमं प्रतिषिध्यैव तस्यायमभिप्रायः। उपगमः न परिवर्तितश्चेत् नूनं संघात् बहिरागमिष्यति इति स अवदत्।

     आगोलवाणिज्यार्थं राष्ट्राणां परस्परम् औद्योगिकसमस्या परिहारार्थं च रूपवत्कृतं भवति विश्ववाणिज्यसंघटना। परन्तु अमेरिक्कां प्रति अस्य संघस्य उपगमः न समीचीनः इति ब्लूंवर्ग् न्यूस् इति वार्तामाध्यमस्य कृते दत्ते अभिमुखे ट्रम्प् वर्यः असूचयत्।

     विश्ववाणिज्यसंघस्य समस्यापरिहारन्यायालये प्राड्विवाकानां चयनात् अमेरिक्काराष्ट्रं परावर्तितमभूत्। अनेन विविधव्यवहारेषु विधिप्रख्यापने संघः प्रयासमनुभवति।

प्रतिपरिवारं दशसहस्ररूप्यकाणाम् साहाय्यस्य वितरणम् आरब्धम्।- राज्यस्वविभागः।

तिरुवनन्तपुरम्- प्रलयदुरितबाधितानां परिवाराणां कृते प्रख्यापितं दशसहस्ररूप्यकाणां साहाय्यं वितरणं कर्तुम् आरब्धमिति राज्यस्वविभागः। पालक्काट् देशस्थानां १६०० परिवाराणां कृते धनादेशः तेेषां वित्तकोशलेखायां निक्षिप्तम्। दत्तानाम् अङ्कने पूर्तीकृते इतरेषां लेखायामपि संख्या प्राप्स्यतीति राज्यस्वविभागस्य पत्रिकायां सूचितम्।

एवं धनदानाय २४२.७३ कोटि रूप्यकाणि जिल्ला प्रशासकेभ्यः दत्तानि। चतुर्लक्षपरिमिताः जनाः आपादधनसाहाय्यं लभन्ते। अधुना ५९००० अधिकं जनाः ३०५ दुरिताश्वासशिबिरेषु वसन्ति। जले अपगते अपि भवनानि वासयोग्यानि नास्तीति कारणादेव ते शिबिरेषु वसन्ति।

लक्षाधिकाः जनाः शिबिरात् गृहं प्रतिनिवृत्ताः। लक्षपरिमितानां रूप्यकाणां नष्ट एव अनेन संवृत्तः। नष्टानां परिगणनानुसारमेव इतः परं धनसाहाय्यं विधास्यति।

सप्ताहद्वयानन्तरं कोच्ची अन्ताराष्ट्रविमानपत्तनं पुनःप्रवर्तनसज्जमभवत्। महाप्रलये ३०० कोटिरूप्यकाणां नष्टः।

नेडुम्बाश्शेरि- सप्ताहद्वयानन्तरं कोच्ची अन्ताराष्ट्र-विमानपत्तनं पुनःप्रवर्तनसज्जं भवति। अद्य मध्याह्नादूर्ध्वं द्विवादने आभ्यन्तर-आन्ताराष्ट्रपरिवहणव्यवस्था पुनरारभते। बंगलूरुतः आगम्यमानं इन्डिगो विमानं द्विवादने नेडुम्बाश्शेरि विमानपत्तने अवतरिष्यति। अद्य एवं ३२ विमानानां यातायातो भविष्यति।

     प्रलयकारणात् पिहिते विमानपत्तने एयर्लैन्स् कस्टंस् इमिग्रेशन् विभागानां प्रवर्तनं सोमवासरे आरब्धमासीत्। कोच्ची नैसेना आस्थानात् तात्कालिकतया प्रवृत्तं गतागतम् अद्यप्रभृति अवसितमिति अधिकृतैरुक्तम्।

     कोच्ची विमाननिलये इदम्प्रथमतया एतावन्तं कालं गतागतं स्थगितम्। महाप्रलयेऩ विमानपत्तनस्य नियन्त्रक- प्रदेशे जलोपप्लवमजायत। सहस्राधिकानां जनानां २४ होरापरिमितं अष्टदिनप्रत्नमेव अधुना सफलमभवत्। विमाननिलये आहत्य ३०० कोटिरूप्यकाणां नष्टः अजायत इति अधिकृतैरुक्तम्।

प्रलयदुरितमधिकृत्य अनुसन्धानं कर्तुं विदग्दसंघः आगच्छति।

तिरुवनन्तपुरम्- केरले संजातं प्रलयदुरितमधिकृत्य विपुलरूपेण अनुसन्धानं कर्तुं राष्ट्रिय-भौमशास्त्रानुसन्धान-केन्द्रात् वरिष्ठसंघः केरलानागच्छति। जलबन्धानाम् अनावरणेन सञ्जातान् प्रत्याघातानधिकृत्य भवेत् मुख्यं पठनम्। वृष्टिव्यापनात् पूर्वम् अनया संस्थया सूचना दत्ता आसीत्। वृष्टिः तथा जलबन्धे स्थितानां जलसञ्चयानां परिमाणमपि परिगणय्य अनुसन्धानं भविष्यति।

     एतदर्थं दशाङ्गयुक्तं संघम् अचिरेण नियोक्ष्यते। संघः आकेरलं पर्यटन् सूचनाः संचेष्यते। बृहती वृष्टिः तथा जलसञ्चयात् समायातःअप्रतीक्षितः जलपातश्च प्रलयस्य कारणमिति प्राथमिकं निगमनम्।