Category Archives: News Updates

पुल्वामायां चतुरः तीव्रवादिनः जघान, त्रयः सुरक्षाभटाः रुग्णाः जाता।

श्रीनगर् – जम्मु-काश्मीरे पुल्वामायां तीव्रवादिभिः सह संघट्टने चत्वारः तीव्रवादिनः हताः, सममेव त्रयः सुरक्षाभटाः निहताश्च। लष्कर् ई तोय्बे इत्याख्यस्य संघस्य प्रवर्तकाः एव मारिताः। पुल्वामायां तीव्रवादिभिः सह संघट्टनम् अनुवर्तते इत्यावेदनम्।

     रहस्य सूचनानुसारं सुरक्षाभटाः पुल्वामायां लास्सिप्पोरा स्थले मार्गणं कुर्वन्तः आसन्। तदन्तरे भीकराः गोलिकाप्रहारमकुर्वन्। तदनन्तरं सञ्जाते संघट्टने एव चतुर्णां भीकराणाम् अन्त्यमभवन्।

कुजग्रहे जीवसन्धारणं स्थापयितुं निदानेन सह नासायाः परीक्षणम्।

न्यूयोर्क- कुजग्रहे जीवसन्धारणं शक्यमिति अनुमानेन सह नासा संस्था आयाति। राष्ट्रान्तरीय बहिराकाशनिलये कृतात् परीक्षणात् जीवसन्धारणं शक्यमिति सूचना लब्धा।

     कुजपर्यवेक्षणात् लब्धां सूचनामाधारीकृत्य कुजमण्डलसमानं साहचर्यं कृतकरूपेण संसृष्ट्य सूक्ष्मजीवीन् सस्यजालानि च निलयं संप्रेष्य एव परीक्षणं जातम्। बयोमेट्स् इत्यासीत् परीक्षणस्य नाम। ५३३ दिनानि यावत् तानि सस्यानि सूक्ष्मजीविनश्च बहिराकाशनिलये जीवान् धारयन्ति अत्यन्तं दुष्करं साहचर्यं सन्तारयामासुः।

     कुजग्रहे जीवसन्धारणस्य निदानमेवेदमिति शास्त्रज्ञानाम् अभिप्रायः। सौरयूथे भूमिमतिरिच्य जीवस्य साध्यता कुजग्रहे एवास्तीत्यतः इदं परीक्षणं शास्त्रलोकं कौतुकेन पश्यति।

सुप्रसिद्धा कैरलीलेखिका अषिता दिवमगात्।

तृशूर्- कैरलीसाहित्ये विख्याता लेखिका अषिता अन्तरिता। तृशिवपुरस्थे निजीयचिकित्सालये कुजवासरे रात्रौ १२.५५ वादने सा ऐहिकं दौत्यं समापूरयत्। अर्बुदरोगग्रस्ता सा चिकित्सायामासीत्।
तृशूर् मण्डलस्थे पषयन्नूर् देशे १९५६ एप्रिल् पञ्चमे दिवे आसीत् तस्याः जननम्। केरलसर्वकलाशालायाम् जेर्णलिसं विभागे अध्यपकः डो. के.वी. रामन्कुट्टी अस्याः पतिः भवति।
अस्याः प्राथमिकी शिक्षा दिल्ल्यां मुम्बैय्यां च सम्पन्ना। एरनाकुलं महाराजकलालयात् आङ्गलसाहित्ये स्नातकोत्तरबिरुदं सम्पादितवती। स्त्रीजीवितस्य विह्वलतां व्याकुलतां च तस्याः कथासु प्रतिफलति। बालसाहित्ये कथासाहित्ये आत्मीयग्रन्थरचनायां च सा निष्णाता आसीत्।

केरलस्य उत्सङ्गसङ्गणकपद्धतिः -मुख्यमन्त्री मुद्राम् उदघाटयत्।

तिरुवनन्तपुरम्- केरलस्य स्वीयम् उत्सङ्गसङ्गणक-ग्राहकवितारकं कोक्कोणिक्स् नामकम् अचिरेण प्रवृत्तिपथमायाति। अस्याःपद्धतेः मुद्रा मुख्यमन्त्रिणा पिणरायि विजयन् वर्येण प्रकाशिता। उद्योगमन्त्री ई.पी. जयराजन् वर्यः कोक्कोणिक्स् संस्थया निर्मितम् उत्सङ्गसङ्गणकम् मुख्यमन्त्रिणे समार्पयत्।

     केक्कोणिक्स् संस्थायाः प्राथमिकपङ्क्तिसंगणकानि फेब्रुवरी11 दिनाङ्के दिल्ल्यां सम्पत्स्यमानायाम् अङ्कीयवैद्युतक -निर्माणोच्चकोट्यां(Electronics Manufacturing Summit) अवतारयिष्यति। केल्ट्रोण् आख्या सार्वजनीनसंस्था य़ु.एस्.टी. ग्लोबल् इति अङ्कीयवैद्युतकनिर्माणरंगस्थया आगोलसंस्थया सह मिलित्वा एवकेरले एव गुणयुतम् उत्सङ्गसङ्गणकं निर्मातुं प्रयतते।

     इन्टेल् इति इलट्रोणिक्स् निर्माणसंस्थायाः मार्गनिर्देशान् अङ्कीयज्ञानं च अवाप्य कोक्कोणिक्स् इति सार्वजनीन-निजीयसंरम्भस्य रूपकल्पना जाता।

न्यायाधीशः पी.सी.घोष् वर्यः भारतस्य प्रथमः लोकपालः – शपथमग्रहीत्।

नवदिल्ली- सर्वोच्चन्यायालयस्य भूतपूर्वः न्यायाधीशः पी.सी.घोष् वर्यः भारतस्य प्रथमः लोकपालत्वेन शपथं गृहीतवान्। दिल्ल्यां राष्ट्रपतिभवने आयोजिते अधिवेशने राष्ट्रपतिः रामनाथ कोविन्द् वर्यः शपथं ग्राहयति स्म। उपराष्ट्रपतिः वेङ्कय्या नाय्टू वर्यः, प्रधानमन्त्री नरेन्द्रमोदीवर्यः मुख्यन्यायाधीशः रञ्जन् गोगोय् प्रभृतयः समारोहे भागमभजन्।
२०१७ मेय् मासे सर्वोच्चन्यायालयात् वृत्तिविरतः घोष् वर्यः जूण् मासे राष्ट्रिय-मानवाधिकार-आयोगे अङ्गत्वेन प्रवर्तितवान्।
सर्वोच्चन्यायालयस्य आदेशानुसारमेव अधुना लोकपालस्य नियुक्तिः जाता।

प्रलयानन्तरकेरलं नवोत्थानमूल्यानि च पाठ्यपुस्तकेषु अन्तर्भावयति।

तृशूर्- राज्यस्तेषु पाठ्यपुस्तकेषु नवोत्थानमूल्यानि प्रलयानन्तरकेरलं च अन्तर्भावयति। 2021 तमे वर्षे पाठ्यपुस्तकानां परिवर्तनं भविता। तदानीं एतान् विषयान् पठितुं छात्राः अवसरं लभेयुः। पाठ्यपद्धतिपरिष्करणमनुबन्ध्य सञ्चालितेषु  विचारसत्रेषु एष एव विषयः उन्नीतः।

     विचारसत्रेषु समाकलितान् विषयान् पाठ्यपद्धतिपरिष्करणसमितेः नयरेखायां अन्तर्भावयति। 2020 तमे वर्षे आगस्त् मासावधि पाठ्यपद्धतिपरिष्करणस्य सर्वाणि प्रवर्तनानि सम्पूर्य पाठपुस्तकानि मुद्रणार्थं देयानि इति सर्वकारस्य आशयः 2021 वर्षे एतानि पुस्तकानि छात्रेभ्यो दातुं शक्यते।

     फेब्रुवरी प्रथमवारे गतसप्ताहे च विचारगोष्ठ्यः समभवन्। पञ्चवर्षगवधिकमेव पाठ्यपद्धतिपरिष्करणस्य समयः।

कण्णूर् परियारं वैद्यकीयकलालयः सर्वकारेण स्वायत्तीकृतः।

तिरुवनन्तपुरम्- परियारं वैद्यकीयकलालयम् अनुबन्धस्थापनानि च स्वायत्तीकृत्य सर्वकारेण आदेशो दत्तः। एतदर्थं नैयामिकान् अन्तरायान् दूरीकर्तुं पूर्वमेव विधानसभायाम् अन्वादेशः प्रस्तुतःआसीत् सर्वकारेण।

     परियारं सहकारि चिकित्सालयः तथा प्रागतिक-वैद्यकीयसेवा, एवम्  तदनुबन्धसंस्थाः वैद्यकीय-दन्तीयकलालयौ, अनुवैद्यकलालयः इत्यादयः राजकीयवैद्यशास्त्रपठनविभागस्य प्रत्यक्षनियन्त्रणे आनीयन्ते। अधिकारविनिमयः यावत् पूर्णं भविष्यति तावत् अस्य नियन्त्रणं कण्णूर् मण्डलाधिकारिणे निक्षिप्तं भविता।

     अनेन एं.बी.बी.एस्. पठनस्यकृते 100 जनाः बी.डी.एस्. पठनस्य कृते 60 जनाश्च प्रवेशार्हाः भविस्यन्ति, येषां  सर्वकारीणे शुल्के पठनं कर्तुं शक्यते।

गोवा राज्ये प्रमोद् सावन्त् वर्यः मुख्यमन्त्रिपदमारूढः। शपथग्रहणं प्रातः १.५० वादने।

पणजी- मनोहर् परीखर् वर्यस्य वियोगानन्तरं गोवाराज्ये प्रमोद् सावन्त् वर्यः मुख्यमन्त्रिपदे शपथं गृहीतवान्। मनोहर परीखर् वर्यस्य वियोगानन्तरम् असाधारणाः गतिवगतयः तत्र सञ्जाताः। नूतनमन्त्रिमण्डलस्य रूपवत्करणं अवश्यं सञ्जातम्। अतः सख्यदलानि मूल्यचोदनामारभन्त। अनन्तरं सर्वेषां तृप्त्यै अधुना मन्त्रिमण्डलम् अधिकारमग्रहीत्।

अतिविपुलायाः चर्चाया‌ अनन्तरं मुख्यमन्त्रिपदे सभाध्यक्षं प्रमोद् सावन्त् वर्यं न्ययोजयत्। गोवा फोर्वेट् पार्टी नेता विजय् सर्देशाय् , महाराष्ट्रवादी गोमन्तक् पार्टी सदस्य सुदिन् धावालिकर् च उपमुख्यमन्त्रिपदे शपथं गृहीतवन्तौ।

४० सदस्य विधानसभायां अधुना ३५ सदस्या एव सन्ति। १४ सदस्यैः कोण्ग्रेस् दलं बृहत्तमं संघं भवति। तथापि १२ सदस्ययुक्तं भा.ज.पा. दलं अधिकारमस्थापयत्। एं.जी.पी. दलस्य त्रयः सदस्याः जी.एफ्.पी. दलस्य त्रयः सदस्याश्च भा.ज.पा. दलेन सह सख्ये भवतः।

संस्कृत भाषाध्ययनस्य नूतनविधयः इत्यस्मिन् विषये प्रभाषण परंपरा।

कोषिकोट् सर्वकारीय प्रशिक्षणकलालयस्य संस्कृत विभागेन श्री शङ्कराचार्या संस्कृतविश्वविद्यालयस्य व्याकरणविभागेन च संभूय 20-3-2019 दिनाङ्के प्रातः दशवादने प्रशिक्षणकलालयस्य सभागारे संस्कृत भाषाध्ययनस्य नूतनविधयः इत्यस्मिन् विषये एका प्रभाषण परंपरा संघाटयति |संस्कृताध्यापकाः, छात्राध्यापकाः च कार्यक्रमेस्मिन् भागं गृह्णातु इति संप्रार्थये
कार्यक्रमः
प्रार्थना।                  – विभागीय छात्राः
स्वागतं.                  – डो.हरिनारायणन्.के.आर्.      (संस्कृतविभागाध्यक्षः),
अध्यक्षभाषणं           – डो.अब्दुल् कादर् परम्पाट्ट्,(प्रांशुपालः),
उत्धाटनभाषणं        – टी के सन्तोष् कुमार् , (विशवविद्यालयस्य तामरश्शेरिस्थ मातृका विद्यालयस्य संस्कृताद्यापकः),
प्रबन्धावतरणं           – डो.गिरिधर् रावु (सहप्राध्यापकः,शिक्षाविभागं राष्ट्रियसंस्कृतसंस्थानं,गुरुवायूर् परिसरं)
धन्यवाद समर्पणं       – डो.एं.वि.नटेशन् .संचालकः|

एस्.एस्.एल्.सी. मूल्यनिर्णयशिबिरं एप्रिल् पञ्चमे तिथौ आरभ्यते।

तिरुवनन्तपुरम्- एस्.एस्. एल्.सी. उत्तरपत्रिकाणां केन्द्रीकृतं मूल्यनिर्णयं एप्रिल् ५ दिनाङ्के आरभ्यते। मेय् २ दिनाङ्के अवसीयमानरूपेण घट्टद्वयेन शिबिरं प्रचलिष्यति। शिबिरे दूरवाणी निषिद्धा स्यात्।

प्रथमघट्टः एप्रिल् ५ तः १३ पर्यन्तं, द्वितीयघट्टः एप्रिल् २५ तः मेय् २ पर्यन्तं च आहत्य १४ दिनानि यावत् मूल्यनिर्णयं भविता। प्रतिदिनं प्रातः ९.३०तः सायं ४.३० पर्यन्तं शिबिरं प्रचलिष्यति प्रतिसत्रं सार्धद्वयहोरा मूल्यनिर्णयम् अर्धहोरासमं अङ्कसमाकलनं च भवेत्।

सार्धैकघण्टावधिकायाः परीक्षायाः ३६ उत्तरपत्राणि प्रतिदिनंएकेन मूल्यनिर्णयं करणीयानि सार्धद्वयावधिकायाः २४ उत्तरपत्राणि चेत् प्रतिदिनं २४ पत्राणि मूल्यनिर्णयं कुर्यात्।