Category Archives: News Updates
केरलेषु व्यापिका वृष्टिः, दक्षिणमण्डलेषु शक्ता, इटुक्कीमण्डले मृत्पातश्च।
तिरुवनन्तपुरम्- राज्ये अरुणदक्षताघोषितेषु इटुक्की पत्तनंतिट्टा कोट्टयं मण्डलेषु शक्ता वृष्टिः अनुवर्तते।। इटुक्की स्थले बहुषु प्रान्तेषु मृत्पातः समभवत्। वागमण्-तीक्कोयी मार्गे यातायातः स्थगितः। कोट्टयं ईराट्टुपेट्टायां शक्तया वृष्ट्या मृत्पातः सञ्जातः। पम्पानद्यां जलोपप्लवो जातः शबरिमलायामपि महती वृष्टिरनुभूयते। अतः रात्रियात्रा परित्याज्या इति अधिकारिभिरावेदितम्।
बहुषु मण्डलेषु ह्यस्तने पीतदक्षता प्रख्यापिता। सा अद्यापि अनुवर्तेत। शनिवासरे एरणाकुलं मण्डले पीतरक्तदक्षता सूचिता।
कुल्भूषण् जादवाय विहितः मृत्युदण्डः अन्ताराष्ट्रन्यायालयेन स्थगितः।
नवदिल्ली- कुल्भूषण् जादवाय पाकिस्तानसैनिकन्यायालयेन विहितः मृत्युदण्डः अन्ताराष्ट्रन्यायालयेन स्थगितः। जादवाय मृत्युदण्डविधायकः पाक् सैनिकन्यायालयस्य निर्णयः पुनरालोनीयः तदर्थं कुल्भूषणाय नयतन्त्रसाहाय्यं दातव्यमित्यपि अन्ताराष्ट्रन्यायालयेन विहितः। भारतस्य आवेदनं परिगणय्यैव एष निर्णयः।
भारतसमयानुसारं 6.30 वादने एव विधिप्रस्तावो जातः। हेग् स्थले पीस् पालस् आख्ये मञ्जे न्यायाधीशः अब्दुल् खवि अहम्मद् वर्य विधिप्रस्तावः अपठत्। 16 न्यायाधीशानां मञ्जः भारतस्यावेदनम् कट्वालोचितः। तेषु 15 न्यायाधीशाः भारतस्यावेदनम् अङ्गीचक्रुः।
चारप्रवृत्तिमारोप्यैव कुल्भूषणजादवं पाकिस्तानसैन्यः अग्रहीत्। 2017 एप्रिल् मासे मृत्युदण्डः घोषितश्च। एतद्विरुध्य भारतेन अन्ताराष्ट्रन्यायालये आवेदनं दत्तम्।
‘बालविभूषण सम्मान 2019’ (संस्कृत बालसाहित्य परिषद्, पुद्दुचेरी )
प्रियमित्राणि,
पुद्दुचेरीस्थितस्य श्रीअरविन्द-भारतीय-संस्कृति-केन्द्रस्य(SAFIC) पक्षतः संस्कृतबालसाहित्यस्य संरक्षण-सर्वेक्षण-प्रकाशन-संवर्धनार्थं संस्कृतबालसाहित्यपरिषत् 2014 ईशवीयसंवत्सरस्य अगष्टमासे पञ्चदशदिनाङ्के संघटिता। इदानीं यावत् परिषत्पक्षतः 5 राष्ट्रियसंगोष्ट्यः, 5 वार्षिकोपवेशनानि, 6 शिशुकवितापाठोत्सवाः, बालगोष्ठी, क्रीडागोष्ठी, दशाधिकसंस्कृतप्रकाशनानि च अभवन्। तदा तदा उत्तमकवितालेखकानां प्रोत्साहनार्थं पुरस्काराः प्रदत्ताः। परन्तु संस्कृतबालसाहित्यनिर्मातॄणां प्रोत्साहनाय इतोऽपि कार्यक्रमाः आयोजनीयाः।
बालसाहित्यनिर्माणे सामग्रिकमवदानं विचार्य अस्मात् वर्षात् एकस्मै उत्तमसंस्कृतबालसाहित्यसर्जकाय परिषत्पक्षतः सम्मानना करिष्यते। अतः जुलै-अन्तिमदिनं यावत् प्राप्तानि आवेदनानि विचार्य पुरस्कारः ऋषिवरस्य श्रीअरविन्दस्य जन्मदिवसे (अगस्त-पञ्चदशदिनाङ्के) प्रतिवर्षम् उद्धोष्यते।
ये बालसाहित्यसर्जकाः ‘बालविभूषण’-सम्मानार्थम् आवेदयितुम् इच्छन्ति, ते स्वकीयम् आवक्षचित्रसहितं जीवनवृत्तम्, बालसाहित्यस्य प्रतिद्वयं च संप्रेष्य निम्नसङ्केतेन जुलैमासस्य एकत्रिंशदिनाङ्कं यावत् प्रेषयेयुः।
(Address to send the details: Director, SAFIC, Sri Aurobindo Society, 11, Saint Martin Street, Puducherry – 605001, Email- safic@aurosociety.org)
साभारम् – Samskrita Baalasahitya Parishad
चन्द्रयान् – २ विक्षेपणतिथिः परिवर्तिता। परिवर्तिततिथिः पश्चात् उद्घुष्यते।
हरिक्कोट्टा- भारतस्य द्वितीयः चान्द्रदौत्योपग्रहः चन्द्रयान् – २ इत्याख्यः विक्षेपणाय सज्जः अस्ति। अद्य प्रातः विक्षेपणीय आसीदयम्। परन्तु साङ्केतिकन्यूनतया विक्षेपणं पश्चादेव भविष्यति इति भारतीय शून्याकाश गवेषणसंस्थया सूचितम्। विक्षेपणाय ५६ निमेषासु २४ कलासु च अवशिष्टे एव परिवर्तनाय निर्णयः जातः। सोमवासरे प्रातः २.१५ वादने श्रीहरिक्कोट्टायाः सतीष् धवान् शून्याकाशनिलयादेव विक्षेपो निर्णीतः आसीत्। राष्ट्रपतिः रामनाथ कोविन्दप्रभृतयो महान्तः विक्षेपणं साक्षाद्द्रष्टुम् अत्रागताः आसीत्। तदन्तरे जी.एस्.एल्.वी. पेटके साङ्केतिकन्यूनता दृष्टा। अतः तिथिपरिवर्तन् जातम्।
वागेव सत्यम् – संस्कृतलघुचलचित्रम्।
नटवरम्प – तृशूर् जनपदस्य नटवरम्प सर्वकारीयोच्चविद्यालयस्य संस्कृतसभा वागेव सत्यम् इति नाम्ना संस्कृतलघुचलचित्रं निर्माति। एषा सत्यनिष्ठस्य भाग्यचिटिकापणिकस्य कथा भवति। कथां, पटकथां, सम्भाषणञ्च अस्य विद्यालयस्य संस्कृताध्यापकः श्री सुरेष् बाबू निरवहत्। श्री षाजू पोट्टकक्ल् मुख्यनिर्देशकः भवति। छायाग्रहणं श्री दिलीप् हरिपुरं निर्वहति। चित्रस्यास्य चित्रीकरणं इरिङ्गालक्कुटायां प्रचलति।
*मातृकम्- 2019* पालक्काट् नगरे सुसम्पन्नम्।
पालक्काट् – केरलासंस्कृताध्यापक फेडरेषन् संस्थायाः मातृकं 2019 राज्यस्तरीयः वनितासंगमकार्यक्रमः पालक्काट् कर्णकयम्मन् उच्चतरविद्यालये 2019 जूलै 13 दिनाङ्के प्राचलत् ।पालक्काट् जिल्लापञ्चायत्त् सदस्या संस्कृतशिक्षिका श्रीमती श्रीजा महाभागा अध्यक्षपदं अलञ्चकार । पालक्काट् जिल्लापञ्चायत्त् अध्यक्षा Adv (न्यायवदी) के शान्तकुमारी उद्घाटनमकरोत् ।भूतपूर्वः विद्याभारती-देशीयाद्ध्यक्षः पण्डितरत्नं डो पि के माधवन् महोदयः अनुग्रहभाषणमकरोत्। यूत्ओलिंपिक्स् प्रतिभा कुमारि जे विष्णुप्रिय़ा कार्यक्रमे अनुमोदिता ।
“स्त्रीशाक्तीकरणं संस्कृतं च”इतिविषये पालक्काट् भारतीय विद्यानिकेतन् शिक्षाशास्त्री कलालयस्य प्राचार्या डो पि सि वि रेणुका प्रबन्धं प्रास्तौत्। मध्याह्नसांस्कृतिकसदसि संस्कृतशिक्षिका श्रीमती नीना वारियर् वर्यया अष्टपदी प्रस्तुतीकृता ।समापनसत्रे सि पि सनल् चन्द्रस्य अध्यक्षतायां श्री रमेश् नम्पीशन् महोदयः संघटनासन्देशं दत्तवान् ।
पि.जि. अजित् प्रसाद् , डो सिपि षैलजा , यु कैलास् मणि , वि.के. राजेष् , के के राजेष् ,सुजाता , राधामणि, प्रसन्ना , प्रभृतयः स्वीयानभिमतान् प्रकटितवन्तः ।प्राथमिकस्तरे संस्कृतशिक्षणं कार्यक्षमं कर्तुं , छात्राणां गणनानुसारं शिक्षकनियुक्तिं प्रस्तुतीकृत्य “पठेत् संस्कृतं शिक्षकं दद्यात्” इति मुद्रागीतं उन्नमय्य प्रवृत्ते मेलने 300 अधिकाः संस्कृतशिक्षिका शिक्षकाः भागभाजः अभवन् ।
उच्चतरमाध्यमिकस्तरीयेभ्यः कृपाङ्कदानम्- आवेदनपत्रसमर्पणाय एस्.सी.इ.आर्.टी. संस्थां न्ययुङ्क्त।
तिरुवनन्तपुरम्- उच्चतरमाध्यमिकछात्रेभ्यः कृपाङ्कदानमनुबन्ध्य सर्वकारीयनिर्णयः चतुर्मासाभ्यन्तरे प्रकाशनीयः इति उच्चन्यायालयस्य आदेशानुसारं तेभ्यो कृपाङ्कदानरीतेः परिष्करणसम्बन्धि आवेदनपत्रं समर्पयितुं सर्वकारः राज्य-शैक्षिकानुसन्धानप्रशिक्षणपरिषदं न्ययुङ्क्त। पाठ्येतरप्रवर्तनाय कृपाङ्कः आवश्यक इति सर्वकारस्य मतिः। अतः एतत्सम्बन्धि आवेदनं त्वरितं दातव्यमिति सर्वकारः संस्थामसूचयत्।
इतरराज्येभ्यः इतरसंस्थाभ्यश्च केरलस्य उत्कर्ष एव शिक्षामण्डले विलसति। पाठ्येतरः सामाजिकश्च व्यवहारः शिक्षाक्षेत्रे अवश्यंभावी। एतेषां निर्वहणार्थं छात्राणाम् अधिकः समयः आवश्यकः। एतस्य समीकरणायैव कृपाङ्कः आयोजितः। इतरेषु राज्येषु कृपाङ्कः पृथक् दीयते। अतः राष्ट्रियतले क्रमनिर्णयाय एष न परिगण्यते। केरलेषु कृपाङ्कः परीक्षाङ्कैः संयोज्य दीयते इत्यतः मत्सरेषु केरलीयछात्राणाम् अधिकं प्रामुख्यं सम्भवतीति बह्यः संस्थाः अभिप्रयन्ति स्म। अत एव तस्याः रीतेः संशोधनधुरां राज्यशैक्षिकानुसन्धानप्रशिक्षणपरिषधि निधाय सर्वकारः आदेशमदात्।
संस्कृतदिनसमारोहस्य भागत्वेन अध्यापकानां कृते साहित्यरचनामत्सरः।
तिरुवनन्तपुरम्- केरल-सार्वजनीनशिक्षाविभागः प्रतिवर्षं संस्कृतसप्ताहमभिलक्ष्य अध्यापकानां कृते संस्कृतसाहित्यरचनाप्रतियोगिताः आयोजयति। कथा, कविता उपन्यासः, समस्यापूरणम् इत्येतेषां रचनामत्सरः एतावत्पर्यन्तं समायोजितः आसीत्। अस्मिन् वर्षे एतैः मत्सरैः सह पटकथारचनामत्सरः अपि समायोजितो वर्तते। गतवर्षादारभ्य ह्रस्वचलच्चित्रमत्सरः अपि आयोजितः। एतत् अध्यापकैः छात्रैः वा निर्मितं ह्रस्वचलच्चित्रं भवितुमर्हति। अस्मिन् वर्षे एतेषां विषयः इदानीमुद्घोषितः।
विषयाः एवम्-
उपन्यासः – नवकेरलम् नवजीवनम्।
कथा – इच्छाशक्तिः।
कविता – जालकदृश्यम्।
समस्या – जनो जलं पातुमहो प्रगच्छति।
पटकथारचना, ह्रस्वचलच्चित्रम् इत्येतयोः विषयनिबन्धना नास्ति। स्वतन्त्राविष्काराय अवकाशः अस्ति। ह्रस्वचलच्चित्रस्य दैर्घ्यं दशनिमेषतः पञ्चदशनिमेषपर्यन्तं भवितुमर्हति।
एताः प्रतियोगिताः विद्याभ्यासमण्डलानुसारं समायोज्य प्रथम-द्वितीय-तृतीयस्थानं प्राप्ताः रचनाः एव राज्यस्तरीयप्रतियोगितार्थं प्रेषणीयाः। एताः रचनाः शिक्षामण्डलाधिकारिणः साक्ष्यपत्रेणसाकं पत्रालयद्वारा प्रेषणीयाः। सङ्केतः एवम्-
डो. टी.डी. सुनीतीदेवी,
विशिष्टाधिकारिणी (संस्कृतम्),
सार्वजनीन-शिक्षानिदेशकस्य कार्यालयम्,
जगती, तिरुवनन्तपुरम्।
2019 आगस्त् मासस्य दशमदिनाङ्कः एव रचनास्वीकारस्य अन्तिमतिथिः। एतदनन्तरं प्राप्यमानाः रचनाः प्रतियोगितायै न परिगण्यन्ते। एतत् सार्वजनीनशिक्षाविभागस्य पी.एल्.2/18303/2019/डी.जी.इ. परिपत्रानुसारं विज्ञापितं भवति।
केरले प्राथमिकशिक्षायाः घटनापरिवर्तनाय उच्चन्यायालयस्य आदेशः।
तिरुवनन्तपुरम्- केरले प्रापम्भिकशिक्षायाः घटना केन्द्रीय-शिक्षाधिकारनियमानुसारेण पर्वर्तनीयमिति उच्चन्यायालयस्य आदेशः। धनादत्तनिजीयविद्यालयप्रबन्धकसमितेः आवेदनम् अभिलक्ष्यैव न्यायालयविधिः।
अधुना केरल शिक्षा नियमानुसारमेव विद्यालयानां घटना वर्तते। तदनुसारं प्रथमकक्ष्यातः चतुर्थकक्ष्यापर्यन्तं प्रारम्भशिक्षा, पञ्चतः सप्तमपर्यन्तं माध्यमिकशिक्षा, अष्टमतः दशमपर्यन्तं उच्चविद्यालयश्च।
केन्द्रिय-शिक्षाधिकारनियमानुसारं प्रथमतः पञचमकक्ष्यापर्यन्तं प्रारम्भघट्टः षष्ठतः अष्टमपर्यन्तं माध्यमिकघट्टश्च भवति। एतदेव उच्चन्यायालयेन आदिष्टम्।
केन्द्रसर्वकारेण परिगृहीतेषु पञ्चसु ग्रामेषु त्रिशूर् मण्डलस्थः अटाट् ग्रामःअपि वर्तते।
तृशूर्- केन्द्रीय मानवशेषीसंसाधनमन्त्रालयस्य निर्देशानुसारं राष्ट्रिय-संस्कृत-संस्थानेन पञ्च ग्रामाः परिगृहीताः। तेषु तृशूर् मण्डलस्थः अटाट् ग्रामोप्यस्ति। अनेन राष्ट्रियतले अटाट् ग्रामस्य प्रशस्तिः भृशं वर्धते।
राष्ट्रिय-संस्कृत-संस्थानम् एका कल्पितसर्वकलाशाला भवति। संस्कृस्य प्रचारमभिलक्ष्यैव एषः परिग्रहः।
संस्थानस्यास्य प्रान्तीयपरिसरः अटाट् समीपस्थे पुरनाट्टुकरा ग्रामे प्रवर्तमानः वर्तते। पी.टी. कुर्याक्कोस् नामकेन संस्कृतपण्डितैन पावरट्टी ग्रामे संस्थापितः संस्कृतविद्यालय एव अधुना पल्लवितः कुसुमितश्च सन् पुरनाट्टिकरायां विलसति
जातिधर्मभेदं विना सर्वेषां संस्कृताध्ययनं लक्ष्यीकृत्य १९०९ तमे वर्षे स्वस्य गृहे साहित्यदीपिका संस्कृतविद्यालयः पुनः पावरट्टीमध्ये प्रवर्तनं व्यापयन् स्थितः अभवत्। पुनः सर्वकारेण अङ्गीकृतः अयं केन्द्रिय-संस्कृतविद्यालयनाम्ना प्रथितः। पुनः राष्ट्रिय-संस्कृत-संस्थानस्य प्रान्तीयपरिसरत्वेन अधुना प्रवर्तते।
अनेन परिग्रहेण संस्कृतग्रामः इति पदव्याम् अटाट् ग्रामः विख्यातो भविता।












