Category Archives: News Updates

उष्णेन द्रवते केरलम्, परं वृष्टेः रूपं परिवर्तयेत।

कोच्ची- निदाघकालोष्णेन केरलं द्रवते। सूर्याघातस्य वार्ताः बहुभ्यः प्रदेशेभ्यः आयाति। आगच्छत्सु दिनेष्वपि तापमानं वर्धमानमेव तिष्ठेत् इति वातावरण निरीक्षणसंघस्य सूचना। साधारणतः त्रिचतुरः डिग्री सेल्ष्यस् तापवर्धनं संघः प्रवक्ति। अनेन जनैः जाग्रद्भिः भाव्यम् इत्यपि निर्देशः अस्ति।

ग्रीष्मकालवृष्टेः समय एवायम्। परन्तु इतस्ततः ईषद्वृष्टिरेव इतःपर्यन्तं लब्धः। अतः एव जूण् मासे आर्भ्यमाणां वृष्टिमधिकृत्यापि आशङ्का वर्तते। एल्निनो इति अन्तरिक्षप्रतिभासमनुसृत्यैव वृष्टिप्रवचनं साध्यमिति पर्यावरणविभागस्य निगमनम्। एल्निने प्रतिभासेन आगोलतले पर्यावरणव्यतियानं संभावयति।

डो. डी. बाबू पोल् दिवंगतः।

तिरुवनन्तपुरम्-  भूतपुर्वः अतिरिक्तमुख्यसचिवः इदानीन्तनः किफ्बी भरणसमित्यंगं च डो. डी. बाबू पोल् वर्यः ऐहिकात् बन्धात् मुक्तः अभवत्। हृदयाघातेन आसीदन्त्यम्। स ७८ वयस्कः आसीत्। इदानीं नवकेरलनिर्माणपद्धतेः उपदेशरूपेणापि प्रवर्तमानः आसीत्।

     १९४१ तमे वर्षे एरणाकुलं मण्डले कुरुप्पंपटी स्थले आसीदस्य जन्म। कुरुप्पंपटी एं.जी.एं उच्चतरविद्यालयात् प्राथमिकशिक्षां समाप्य स आलुवा यूणियन् क्रिस्त्यन् कलाशाला. अनन्तपुरी तान्त्रिककलाशाला, मद्रास् विश्वविद्यालयः इत्यादिॆभ्यः उन्नतबिरुदं सम्पादयामास। पुनः भारतीय-प्राशासनिक-सेवा परीक्षामुत्तीर्य मण्डलाधिपरूपेण वृत्तिमकरोत्। इटुक्की जिल्लायाः रूपवत्करणादारभ्य वर्षत्रयं तत्र मण्डलपालः आसीत्।

     केरलस्य सांस्कृतिकमण्डले लब्धप्रतिष्ठः स नैकान् ग्रन्थानपि रचयामास।

सी.बी.एस्.इ. पाठ्यपद्धतौ कलाविषयान् अवश्यं कारयति।

नवदिल्ली- शिक्षा पाठ्यपुस्तकात् बहिरप्यानेतव्या इति लक्ष्येण प्रथमतः द्वादशकक्ष्यावधि पाठ्येतरकलाविॆषयान् अवश्यं कारयति सी.बी.एस्.ई. संस्था। एषु पाठ्यक्रमेषु आगामिनः वर्षादारभ्य कलासंयेजितपठनम् अवश्यं भविष्यति।

     नूतननिर्देशानुसारं संगीतं, नृत्तं, दृश्यकला, नाटकम् इत्यादीनि सर्वेषु वर्गेषु पाठ्यविषयं भविष्यति। तदुपरि षष्टतः अष्टमपर्यन्तं कक्ष्यासु पाचककला अपि पाठ्यविषयं भविता। प्रतिवारम् अवरतः अन्तरद्वयं एषां विषयाणां पाठनाय भवेत्। एतान् विषयान् परीक्षार्थं मूल्यनिर्णयार्थं वा न परिगणयति। परं प्रायोगिकपरीक्षा तथा परियोजनाप्रवर्तनं च भविता।

जालियन् वालाबाग् वृन्दहत्यायां ब्रिट्टन् राष्ट्रेण खेदं प्राकटयत्।

लण्टन्- १९१९ तमे वर्षे जालियन् वालाबाग् स्थले सञ्जातायां वृन्दहत्यायां ब्रिट्टन् राष्ट्रेण खेदः प्रकटितः। ब्रिट्टन् प्रधानमन्त्री तेरेसा मेय् वर्या ब्रिट्टीष् संसदि एवं खेदं प्राकटयत्। भारतस्य इतिहासे अतीव रक्तरूषितेेयं घटना १९१९ एप्रिल् १९ दिनाङ्के सञ्जाता। अस्याः घटनायाः शततमं वार्षिकम् आचरितुं भारतं सन्नह्यते। एतस्मिन्नन्तरे एव ब्रिट्टन् राष्ट्रस्य खेदप्रकचनम्।
जालियन् वालाबाग् क्रीडाङ्गणे शान्तिमार्गेण अधिवेशनम् आयोजयतः सहस्रसंख्यकान् जनान् प्रति जनरल् डयरस्य आज्ञानुसारं ब्रिट्टीष् रक्षिदलं गोलिकां प्राहरत्।
प्राकारेण परिवृतमासीत् क्रीडास्थलम्। तस्य कवाटवातायनादीनि पिहितानि आसन्। एतस्मिन्नवस्थायां तान् जनान् प्रति गोलिकाप्रहारार्थं जनरल् डयर् अनुज्ञामदात्। स्त्रियः शिशवश्च सम्भू. सहस्रपरिमिताः जनाः अस्यां घटनायां कालकबलीभूताः आसन्।

केरल काण्ग्रेस् अध्यक्षः तथा विधानसभा सामाजिकः भूतपूर्वमन्त्री के.एम्. माणी वर्यः दिवंगतः।

कोच्ची- केरलराज्यनैतिकरंगे चाणक्यसदृशः केरलकाण्ग्रेस् अध्यक्षः, भूतपूर्वमन्त्री, सामाजिकश्च के.एम्. माणीवर्यः कालकबलीभूतः। सः ८६ वयस्कः आसीत्। एरणाकुलस्थे निजीयचिकित्सालये आसीदन्त्यम्। श्वासकोशसम्बन्धेन आमयेन पीडितः तीव्रपरिचरणविभागे निरीक्षणे आसीत्। आमयस्थितेः गौरवेण सायं पञ्चवादने स मृतिमुपगतः। पालामण्डलस्य सामाजिकः अस्ति।
गते रविवासरे स चिकित्सालयं प्रवेशितः। अद्य प्रातः ईषद्रोगशान्तिः आवेदिता आसीत्। परं सायं त्रिवादनात् आमयावस्था मूर्च्छिता।
केरले बहुकालपर्यन्तं वित्तमन्त्रिपदमलंकृतः सः एकस्मादेव मण्डलात् बहुकालं सामाजिकत्वेन चितः। स अभिभाषकोप्यासीत्।

आराधनालयानां नियन्त्रणं किमर्थं सर्वकारीयकर्मकरैः क्रियते इति सर्वोच्चन्यायालयः।

नवदिल्ली- धर्मस्थापनानि मन्दिराणि च सर्वकारीयकर्मकराणां नियन्त्रणे कीमर्थं स्थापनीयानि इति सर्वोच्चन्यायालयः संशयं प्राकटयत्। पुरी जगन्नाथमन्दिरे भक्तैः अनुभूयमानान् क्लेशान् मन्दिरकर्मकराणां चूषणानि च संसूच्य समर्पितम् आवेदनं परिगणयन्तौ न्यायाधीशौै एस्,ए. बाब्डे, एस्.ए. नसीर् च एवमुक्तवन्तै।

     सर्वकारनियन्त्रणस्था‌ संघाः राज्यस्थानि निरवधिकानि मन्दिराणि नियन्त्रयन्ति। कस्मिंश्चन धर्मनिरपेक्षे राष्ट्रे मन्दिराणां नियन्त्रणं कथं सर्वकारे निक्षेप्तुं शक्यते इति न्यायाधीशौ अपृच्छताम्।

      जगन्नाथमन्दिरसंबन्धः व्यवहारः आगामिनि मासे परीगणयितुं न्यायालयः निरचिनोत्।

राज्ये सूर्याघातजाग्रतानिर्देशः अनुवर्तते। जनाः जाग्रतानिर्देशं स्वीकुर्युः इति वातावरणनिरीक्षणकेन्द्रम्।

तिरुवनन्तपुरम्- राज्ये सूर्याघात-सूर्यातप-जाग्रतानिर्देशः अनुवर्तितः। वयनाड् मण्डलादृते सर्वेषु मण्डलेषु आगामिनि दिवसे तापमानम् ऊर्ध्वं गच्छेत् इति वातावरणनिरीक्षणकेन्द्रस्य सूचना।

     जनैः जाग्रद्भिः भाव्यम् इति वातावरणनिरीक्षणकेन्द्रं निर्देशं ददाति। द्वे डिग्रीतः त्रीणिडिग्री पर्यन्तं तापमानवर्धनं भविता।

     तापमानवर्धनेन सूर्याघातस्य सूर्यातपस्य च साध्यता अस्तीति वातावरणनिरीक्षणकेन्द्रं सूचनां दददस्ति।

जानपद सेवा परीक्षा – अनुसूचितजनजातिविभागात् श्रीधन्यायाः ऐतिहासिकविजयः।

नवदिल्ली- जानपदसेवापरीक्षायाः फलं प्रकाशितम्। कनिषाक् कटारिया नामकः प्रथमश्रेणीं प्राप्तवान्। केरले वयनाट् देशीया श्रीधन्या ४१० तमां श्रेणीम् अवाप। कुरिच्य इत्याख्यात् अनुसूचितजनजातिविभागात् जानपदसेवापरीक्षाम्  उत्तीर्णा प्रथमा भवति श्रीधन्या।
श्रेणीपट्टिकायां श्रीधन्यायाः ऋते श्रीलक्ष्मी (२९), रञ्जिना मेरी वर्गीस्( ४९), अर्जुन् मोहन्( ६६) इत्येते केरलीया अपि सन्ति।
प्रथम २५ जेतृषु १५ पुरुषाः १० स्त्रियश्च भवन्ति।

अध्यापकानां विरामकालप्रशिक्षणस्य स्थाने इतः परं प्रशिक्षणशिल्पशाला।

चेरुवत्तूर्- अध्यापकानां विरामकालप्रशिक्षणं समग्रतया परिवर्तयति। प्रशिक्षणस्य स्थाने शिल्पशालैव अस्मिन् वर्षे समायोज्यते। दिनचतुष्टयं अक्कादमिकप्रशिक्षणं तथा दिनचतुष्टयं सूचनातान्त्रिकविद्यां च परिचाययति।राज्यस्तरीय प्रशिक्षकसंघानां शिल्पशाला राज्ये विविधेषु केन्द्रेषु समारब्धा। अक्कादमिकप्रवर्तनानां प्रगतिः अनुस्यूतता इति विषये एव शिल्पशाला आयोजिता।

मलयालत्तिलक्कं, हलो इंग्लीष्, गणितविजयं, पठनोतंसवः, जैववैविद्योद्यानम् इत्येतानि गतवर्षे कथं पठनप्रवर्तनस्य सहायकानि आसन् तेषां अनुवर्तनं कथं भवेत् इत्यादीनि चर्चाविषयाणि भविष्यन्ति।प्राथमिकस्तरे मेय् तृतीयदिनाङ्कात् सप्तमदिनाङ्कं यावत् तथा अष्टमदिनाङ्कात् एकादशदिनाङ्कं यावत् घट्टद्वयेन शिल्पशाला भविता। एप्रिल् २५ तः २९ पर्यन्तं जिल्लास्तरीयप्रशिक्षकाणां शिल्पशाला भविता।

उच्चतरस्थले मेय् १३तः १६ पर्यन्तं तथा १७तः २१पर्यन्तं घट्टद्वयेन शिल्पशाला आयोजयिष्यति। कैट् संस्थायाः नेतृत्वे चतुर्दिवसीयं तान्त्रिकविद्या प्रशिक्षणं पृथक् भविता।

केरलराज्ये जूण् मासपर्यन्तम् उष्णकालमनुवर्तिष्यते।

तिरुवनन्तपुरम्- जूण् मासावधि अत्युष्णात् केरलराज्यं तप्येत। समयेस्मिन् केरलस्य तापमानं दीर्घकालसामान्यादधिकं भविता इति वातावरणविभागस्य निगमनम्।

     आराष्ट्रं एप्रिल् तः जूण् परंयन्तं सामान्योष्णस्य वर्धनामधिकृत्य वातावरणविभागेन दीर्घकालनिगमनं प्रकाशितम्। एतदनुसृत्य केरलेषु अस्मिन् काले आपाततः अर्धं डिग्रीतः एकं डिग्रीपर्यन्तं तापवर्धनं भविता।

     आगामिनि काले केरलेषु प्रातःकाले अनुभूयमानः तापः सामान्यतो अर्धं डिग्री अधिकः स्यात्। राष्ट्रे उष्णतरङगमेघलासु अधिकतापः अनुभूयमानो भवेत् इत्यपि वातावरणविभागस्य सूचना।