Category Archives: News Updates

एकोपि कोरोणा विषाणुना बाधितः, इतोप्यधिकं द्रष्टुं साध्यता इति स्वास्थ्यमन्त्री।

तिरुवनन्तपुरम्- वुहानात् प्रतिनिवृत्तस्य एकस्य छात्रस्यापि कोरोणा विषाणुबाधा। कासरगोड् मण्डलीयस्य छात्रस्य कोरोणबाधा स्थिरीकृतेति स्वास्थ्यमन्त्री के.के. शैलजावर्या अवदत्। काञ्ञङ्ङाट् जिल्ला चिकित्सालये प्रवेशितस्य तस्य स्वास्थ्यव्यवस्था तृप्तिकरेति आवेदयति। अधुना चिकित्सालयं प्रविष्टेषु कस्यचिदपि स्वास्थ्यविषये आश्ङ्का नास्तीति मन्त्री अवदत्। विधानसभायां स्वास्थ्यमन्त्री पृथक् प्रस्तावनायां न्यगादीत्।

रविवासरपर्यन्तं १०४ रक्तमातृकां परीक्षितेषु तृशूर् आलप्पुषा मण्डलस्थयोः द्वयोः एव विषाणुबाधा स्थिरीकृता। एतावत्पर्यन्तं केरलराज्ये त्रयाणामेव विषाणुबाधा स्थिरीकृता।

रेगबाधितानां संख्या इतोप्यधिकतरं भवितुं साध्यता अस्ति। विमानपत्तनेषु नौनिस्थानेषु च सूक्ष्मता परिशोधना च शक्ततया विहिता। सर्वैः एतद्विषये जागरूकैः भाव्यम् इति स्वास्थ्यमन्त्री अवदत्।

प्रथमं मातृभूमि-बुक्क् आफ् द इयर् पुरस्कारं विनोद् कुमार् शुक्लाय समार्पयत्।

तिरुवनन्तपुरम्- भारते प्रादेशिकभाषालेखकाय मातृभूमेः प्रथमं बुक्क् आफ् द इयर् पुरस्कारं ददाति इत्येतेन मातृभूमिरिति संस्थायाः प्रकाशकत्वम् अङ्गीकृतमिति मातृभूमेः सहकारिप्रबन्धननिदेशकः एं वी श्रेयांस् कुमार् वर्यः अवोचत्। मातृभूमेः पुरस्कारदानवेदिकायाम् आध्यक्ष्यं निर्वहन् भाषमाण आसीदयम्।

भारतीये साहित्ये उत्कृष्टरचनायाः आदरणस्य भागत्वेनैव मातृभूमि अक्षरपुरस्कारस्य अस्मात् तृतीयसत्रादारभ्य अयं पुरस्कारः आयोजितः। भारतीयसाहित्यमण्डलस्थानाम् आगोलप्रकाशकानाम् आकर्षणमपि अनेन पुरस्कारेण उद्दिश्यते। अक्षरोत्सवे जनानां सान्निध्यम् अतीव सन्तोषास्पदं भवति।

बुक्कर् पुरस्कारस्य निर्णायकसमित्यध्यक्षा मारगरट् बस्बी वर्या पुरस्कारं समार्पयत्। विनोद् कुमार् शक्लावर्यस्य ब्लू ईस् ब्लू इति ह्रस्वकथासमाहारस्य आङ्गलपरिभाषा एव पुरस्काराय अर्हा अभवत्। पञ्च लक्षं रूप्यकाणि शिल्पं च पुरस्कारे अन्तर्भवति।

विरोधे सत्यपि राज्यपालः सर्वकारस्य नयरेखां पूर्णतया विधानसभायां प्रास्तौत्।

तिरुवनन्तपुरम्- वियोजनं संसूच्यैव नागरिकत्व-संशोधन-अधिनियमसम्बन्धी परामर्शः राज्यपालः आरिफ् मुहम्मद् खान् वर्यः विधानसभायामपठत्। पूर्वं विरोधं प्रकटयन् नयरेखायाः संशोधनं राज्यपालेन अनुदिष्टम्। परन्तु मुख्यमन्त्रिणः अभ्यर्थनां परिगणय्य नयरेखां पूर्णतया अपठत्।

नागरिक-संशोधनाधिनियमः यूरोपीय सभा अद्य चर्चते। श्वः मतदानम्।

लण्टन्- भारतस्य नागरिकत्व संशोधनाधिनियमसम्बन्धिनी चर्चा यूरोप संविधानसभायां अद्य श्वश्च भविष्यति। संयुक्ततया एव तत्र प्रमेयचर्चा प्रचलिष्यति। तत्रत्येषु ७५१ सदस्येषु ५६० सदस्याः चर्चायै आगताः। अयमधिनियमः विवेचनपरः भिन्नतादनकश्चेति प्रमेयेन सूच्यते। गुरुवासरे मध्याह्रावधि प्रमेयविषये मतदानं भविष्यति।

यूरोपीय सभायां पञ्च विभागाः गते सप्ताहे एव प्रमेयः आनीतवन्तः। नागरिकत्वाधिनियमः आन्ताराष्ट्रियां समयां लङ्घयति इति तेषामभिप्रायः। अतः अस्य अधिनियमस्य सन्त्यागार्थं प्रधानमन्त्रिणं मोदीवर्यं अनेन प्रमेयेन प्रार्थयन्ति।

अकिञ्चनानां बालकानां पठनाय विद्यालयं स्थापितवते फलव्यापारिणे पद्मश्री पुरस्कारः।

नारङ्गकविक्रयणात् लभ्यमानेन धनेन अकिञ्चनानां बालकानां पठनाय विद्यालयं स्थापितवान् हरकेल हज्जब्बा महाशयः २०२० तमं पद्मश्री पुरस्कारमवाप। कर्णाटकराज्यस्थः अयं विंशतिवर्षान् यावत् अकिञ्चनानां बालकानां मनस्सु शिक्षायाः प्रकाशं प्रापयति। ६४ वयस्कस्य हजब्बावर्यस्य अक्षरसान्टो इति नामान्तरमप्यस्ति। दक्षिणकन्नटे मंगलूरुसपीपस्थः न्यूपडुप्प ग्राम एवास्य देशः। गृहे नदीजलैराप्लाविते एव स मंगलूरु नगरे नारङ्गकं विक्रेतुमारभत।

शिक्षाराहित्यस्य दोशान् बहु अनुभूतवानसौ इतः परं तामवस्थां कस्यचिदपि मा भूत् इति विचिन्त्यैव ग्रामेषु विद्यालयं संस्थापितवान्।

स्वकीयेन अश्रान्तपरिश्रमेण २००४ नवम्बर् १४ दिनाङ्के न्यूपडुपा ग्रामे दक्षिणकन्नट जिलापञ्चायत्त् हयर् प्रैमरि विद्यालयं स्थापितवान्। तदानीं १२५ छात्राः चत्वारः अध्यापकश्चासीत्। अद्य तु स विद्यालयः बहूनां छात्राणां पठनपरिसरः अभवत्। अधुना इमं विद्यालयं प्री यूणिवेसिट्टी विद्यालयरूपेण परिवर्तयितुं हजबा परिश्रममारभत।

विद्यालयेषु अनुमतिं विना धर्मशिक्षणं मा भूत् -उच्चन्यायालयः।

कोच्ची- अङ्गीकृतनिजीयविद्यालयेषु सर्वकारीणानुमतिं विना धर्मशिक्षणवर्गः नायोजनीयः इति निर्देशः सार्वजनीनशिक्षासचिवेन दातव्यः इति केरलस्य उच्चन्यायालयः निदेशमदात्। शिक्षासचिवस्य आदेशः यदि लङ्घ्यते तर्हि तादृशः विद्यालयः पिधातव्यः। शिक्षाधिकारनियमानुसारम् अङ्गीकारयुक्तः विद्यालयः यत्कमपि धर्ममाधारीकृत्य शिक्षावर्गम् आयोजयितुं न पारयति इति न्यायाधीशः ए मुहम्मद् मुष्ताख् अवदत्। स्वकीयं विद्यालयं पिधातुं दत्तम् आदेशं विरुध्य तिरुवनन्तपुरं मणक्काट् हिदाय शिक्षा तथाआतिथ्यनिधिः इति संस्थया दत्तस्य आवेदनस्य निर्णये एवायमादेशः।

     सर्वकारस्य सी.बी.एस्.ई. संस्थायाश्च अनुमतिं विना 200 परिमितान् इस्लामीयमात्रान् छात्रान् प्रावेश्य  धर्मशिक्षणम् अदात् इति कारणेन तिरुवनन्तपुरं विद्याभ्यास उपनिदेशकः विद्यालयं पिधातुम् आदिष्टवान् आसीत्।

     2017 मेय् 31 दिनाङ्के  दत्तम् एनमादेशं विरुध्यैव  आवेदनं दत्तम्। एतादृशी प्रवृत्तिः शिक्षाधिकारनियमस्य अन्तस्सत्तां विरुध्यति इति न्यायालयेन निर्णीतम्। प्राथमिकशिक्षार्थं सर्वकारस्य प्रतिबद्धता  एव निजीयविद्यालया अपि निर्वहन्ति। अत्ः तत्रस्थं शिक्षणं संविधानानुसारि भवितव्यम्। न्युनपक्षाधिकारानुसारं प्रवर्तमानेषु विद्यालयेषु विभागीयपरं प्रवर्तनं मा भूत्। पाठ्यक्रमः मूल्यनिर्णयश्च सर्वकारीणनयानुसारमेव स्यात् इत्येव शिक्षाधिकारनियमः अस्मान बोधयतीति न्यायालयः अस्मारयत्।

कोरोणा विषाणुः सिङ्गप्पूरे अपि स्थिरीकृता। चीना पञ्च नगराणि अप्यदधात्।

वुहान्- अतितीव्रेण प्रसार्यमाणं कोरोणा विषाणुं प्रतिरोधयितुं चीनराष्ट्रेण पञ्च नगराणां पिधानं कृतम्।

विषाणुं प्रथमं सूचितं वुहान् नगरं ततः पश्चात् हुबै प्रविश्यास्थं हुवाङ्गाङ् नगरं, इजो, षिजियाङ्, कियान् जियाङ् इत्येतानि नगराण्येव अनिश्चितकालम् अप्यदधात्। वुहान् नगरात् तद्देशवासिनां बहिर्गमनं, तथा अन्येषां नगरं प्रतिगमनं च निरुद्धम्।

एतेषु नगरेषु गतागतसुविधामवसितुमपि निर्णीतमस्ति।

नेपाले मृताः अष्ट सञ्चारिणः केरलीयाः।

काठ्मण्डू- नेपाले वसतिगृहप्रकोष्ठे अष्टौ केरलीयाः विनोदसञ्चारिणः मृताः। दमन् आख्ये स्थले विनोदवसतिगृहे ते मृतरूपेण दृष्टा इति ए.एन.एे वार्तासंघः आवेदयति।

दमने एवरस्ट् पनोपमा इत्याख्ये विनोदगृहे एव ते वसन्ति स्म। एते उदग्रयानद्वारा चिकित्सालयं प्रवेशिताः। तदनन्तरमेव तेषां मृत्युः सञ्जाता। मृतेषु चत्वारः शिशवः एव।
शैत्यमपनेतुं ते प्रकोष्ठस्थं वातकोष्णकम् उपयुञ्जति स्म। अनेन श्वासोच्छ्वासस्य प्रतिबन्धेन मृताः स्युः इत्यनुमीयते। एते तिरुवनन्तपुरं चेङ्कोट्टुकोणं देशस्थाः तथा कोषिक्कोट् कुन्दमंगलं देशस्थाश्च सन्ति।

गुजरात् राज्ये सूरत् देशस्थे वस्त्रव्यापारकेन्द्रे महती अग्निबाधा।

अहम्मदाबाद् – गुजराते सूरत् नगरस्थे वस्त्रव्यापारकेन्द्रे महती अग्निबाधा। सरोली प्रदेशस्थे रघुवीर् आपणे एव वस्त्रव्यापारकेन्द्रमस्ति। तत्रैवाग्निबाधा जाता।

     कुजवासरे प्रातः एव अग्निबाधा सञ्जाता ४०अधिकानि अग्निशमनसेना एककानि आगत्य अग्निं नियन्त्रयितुं यतन्ते।

             अग्निबाधायाः कारणम् एतावत्पर्यन्तं न ज्ञातम् । मानवानाम् अपायः न जातः इति प्राथमिकं निगमनम्।

        केभ्यश्चिद्दिनेभ्य‌ः पूर्वम् आपणस्य चतुर्थे अट्टे अग्निबाधा जाता आसीत्।

नववाणी संस्कृत-ह्रस्वचलचित्रोत्सवः।

इरिङ्ङालक्कुटा- इरिङ्ङालक्कुट विद्याभ्यासमण्डलस्य संस्कृतम् अक्कादमिकसमितेः आभिमुख्ये संस्कृतं ह्रस्वचलचित्राणां मेलनं समायोजयति। प्रथम-द्वितीय-तृतीयस्थानमाप्तानां चलचित्राणां धनराश्पुरस्कारं शिल्पञ्च सम्मानयति। अपि च निदेशनं पटकथा, नटः, नटी इत्येतेभ्यः अपि पुरस्काराः दीयन्ते।
२०२० फेब्रुवरी ११ दिनाङ्के इरिङ्ङालक्कुट नगरसभा गृहे आयोज्यमाने चलचित्रोत्सवे प्रमुखानां पुरतः चलचित्राणि प्रदर्शयिष्यति। तस्यां वेदिकायामेव पुरस्काराः अपि दीयन्ते।

  • अर्धहोरायाः न्यूनदैर्घ्याणां चलचित्राणामेव मत्सराधिकारः।
  • चलचित्रस्य भाषा संस्कृतं भवेत्।
  • ३० निमेषादधिकं दैर्घ्यं न स्यात्।
  • आङ्गले मलयाळे वा सम्भाषणपरिभाषा देया।
  • धर्म-जाति-सङ्घटनानाम् अवहेलनपरं स्तुतिपरं वा न स्युः।
  • अनाचारः नारीविरुद्धता, मादकवस्तूनि इत्यादीनां प्रोत्साहनपराणि न स्य़ुः।
  • धर्मनिरपेक्षता, संविधानं, बालाधिकारः, मानवाधिकारः इत्यादीनां हानिकराणि न स्युः
  • मूल्यनिर्णेतृणां निर्णयः अन्तिमः स्यात्।

फिब्रुवरी ५ दिनाङ्कः एव अन्तिमतिथिः।  डी.वी.डी. तालिकायां मुद्रितानि चित्राणि पत्रालयद्वारा प्रेषणीयानि।