भीकरैः साकं गृहीतम् आरक्षकदलोपनिदेशकं सेनायाः निष्कासयितुं केन्द्रसर्वकारस्य अनुमतिः अभ्यर्थिता।

श्रीनगर्- काश्मीरात् भीकरैः साकं गृहीतम् आरक्षकोपनिदेशकं देवीन्दर् सिङ् वर्यम् आरक्षकसेनातः निष्कासयितुम् उद्यमः। एतदर्थं अनुमतिमभ्यर्थ्य गृहमन्त्रालयं प्रति लेखं प्रैषयदिति काश्मीर् आरक्षक दलाध्यक्षः दिल्बाग् सिंह् वर्यः वार्तासम्मेलने न्यगादीत्।

अनुमतिलब्ध्यनन्तरमेव निष्कासनं भवेत्। दिवसद्वयात् पूर्वं देवीन्दर् सिंहं सेनातः उत्सर्जितमासीत्। विविधानाम् अन्वेषणसंघानां प्रश्नसमये देवीन्दर् सिंहेन अनावृतानि कार्याणि बहिरानेतुम् अधुना न शक्यते इति काष्मीर् आरक्षकाध्यक्षः अवदत्।

हिस्बुल् मुजाहिदीन् भीकराभ्यां नवीद् बाव, अल्ताफ् इत्येतेभ्या् साकं गते शनिवासरे देवीन्दर् सींहः गृहीतः आसीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *