Category Archives: News Updates

राष्ट्रिय-संस्कृत-संगोष्ठीं समायोजयत्।

तिरुवल्ला- सर्वासां भाषणां जननीभूतस्य संस्कृतस्य बले एव भारतस्य संस्कृतिः पारम्पर्यं च पुष्टमभवदिति लोक्सभासदस्यः आन्टो आन्टणिवर्यः अवदत्। सार्वजनीनशिक्षाविभागस्य संस्कृतम् अक्कादमिकसमित्या आयोदितायाः राष्ट्रिय-संस्कृत-संगोष्ठ्याः औपचारिरम् उद्घाटनं विधास्यन् भाषमाणः आसीदयम्।

विधानसभासदस्यः मात्यू टी तोमस् अध्यक्षः आसीत्। चलचित्रनिदेशकः ब्लसी वर्यः, राज्यशैक्षिका -नुसन्धानप्रशिक्षणसमितेः निदेशकः डो. जे. प्रसाद् वर्यः, प्रोफ. कटम्मनिट्ट वासुदेवन् पिल्ला, नगरसभाध्यक्षः चेरियान् पोलच्चिरक्कल् प्रभृतयः भषणमकुर्वन्।

द्राविडभाषासु संस्कृतस्य प्रभावः इति विषये आसीत् संगोष्ठी। राष्ट्रिय-संस्कृत-संस्थानम् मुक्तविश्विद्यालयस्य शृङ्गेरी परिसरे साहित्यविभागाध्यक्षः डो. राघवेन्द्रभट्, पुरनाट्टुकरा परिसरे सहयोगिप्राध्यापकः डो. विश्वनाथन् च प्रबन्धौ प्रास्तौताम्। प्रोफ. वी माधवन् पिल्ला वर्यः चर्चामाध्यस्थः आसीत्। पटयणि इति कलारूपं वेदिकायां प्रस्तुतमासीत्।

निर्भया व्यवहारे अभीशस्तृणां २२ दिनाङ्के मृत्युदण्डविधानाय उपस्तम्भः।

नवदिल्ली- निर्भया बलात्संगव्यवहारे अभिशस्तृणां मृत्यूदण्डः अस्मिन् मासे २२ दिनाङ्के न भविष्यति। अभिशस्तृषु एकेन दिल्ली तीस् हसारी न्यायालये समर्पिते आवेदने न्यायालयेन तद्दिनस्य विधानम् उपालम्भितम्। अनेनैव न्यायालयेन पूर्व एतेषां मृत्युदण्डाय अनुमतिः दत्ता आसीत्।

अभिशस्तृणां मृत्युदण्डविधानाय दत्तः आदेशः न पुनरवलोकयति। परन्तु दया आवेदनं न्यायालयस्य पुरतः अस्तीत्यतः २२ दिनाङ्के मृत्युदण्डं विधातुं दत्तः आदेशस्य एव उपालम्भः। एतदर्थं तिहार् कारागारस्य अधिकारिणे आदेशो दत्तः।

मृत्युदण्डः प्राप्तेषु चतुर्षु अभिशस्तृषु एकः मुकेष् सिंह् एव दयावेदनं समार्पयत्।

भीकरैः साकं गृहीतम् आरक्षकदलोपनिदेशकं सेनायाः निष्कासयितुं केन्द्रसर्वकारस्य अनुमतिः अभ्यर्थिता।

श्रीनगर्- काश्मीरात् भीकरैः साकं गृहीतम् आरक्षकोपनिदेशकं देवीन्दर् सिङ् वर्यम् आरक्षकसेनातः निष्कासयितुम् उद्यमः। एतदर्थं अनुमतिमभ्यर्थ्य गृहमन्त्रालयं प्रति लेखं प्रैषयदिति काश्मीर् आरक्षक दलाध्यक्षः दिल्बाग् सिंह् वर्यः वार्तासम्मेलने न्यगादीत्।

अनुमतिलब्ध्यनन्तरमेव निष्कासनं भवेत्। दिवसद्वयात् पूर्वं देवीन्दर् सिंहं सेनातः उत्सर्जितमासीत्। विविधानाम् अन्वेषणसंघानां प्रश्नसमये देवीन्दर् सिंहेन अनावृतानि कार्याणि बहिरानेतुम् अधुना न शक्यते इति काष्मीर् आरक्षकाध्यक्षः अवदत्।

हिस्बुल् मुजाहिदीन् भीकराभ्यां नवीद् बाव, अल्ताफ् इत्येतेभ्या् साकं गते शनिवासरे देवीन्दर् सींहः गृहीतः आसीत्।

करन्यूनीकरणाय निक्षेपपरिधिः २.५ लक्षं कारयेत्।

नवदिल्ली- वेतनायविभागानां कर्मकराणाम् आगामिनि अर्थसङ्कल्पे आश्वासाय अवकाशः वर्तते। करन्यूनीकरणाय निक्षेपपरिधिः १.५ लक्षात् २.५ लक्षत्वेन वर्धापयेत्।

८० सी. इति आयकरविभागस्य पङ्क्तौ विभागान्तरम् अन्तर्भावयितुं साध्यता अस्तीति एतत्सम्बन्धि वृत्तम् असूचयत्। राष्ट्रिय-बचत-प्रमाणपत्रे ५०००० रूप्यकाणि पर्यन्तं करन्यूनतां दातुमेव सन्नाहः अस्ति।

सार्वजनिक दीर्घदर्शन निधेः(पी.पी.एफ. ) निक्षेपपरिधिः १.५ लक्षात् २.५ लक्षं कारयितुं साध्यता अस्ति।

परिवाराणां निक्षेपनिधौ बृहती न्यूनता सञ्जाता इत्येतदेव करन्यूनतानिक्षेपपरिधिं वर्घापयितुं सर्वकारं प्रैरयत्।

मरट् देशे प्रासादसमुच्चयं पूर्णतया उन्मूलितम्।

कोच्ची- मरट् देशे नियमलङ्घनेन निर्मितेषु प्रासादसमुच्चयेषु अन्तिमं गोल्डन् कायलोरम् इति समुच्चयमपि वज्रचूर्णमभवत्। अनेन केरलान् आकाङ्क्षया स्थापयन् दिवसद्वयात्मकस्य उन्मूलनदौत्यस्य अन्त्यमभवत्। राज्यस्यास्य इतिहासे चत्वार् समुच्चयानि एवं भग्नानि अभवन्। समुच्चयस्य समीपवर्ति अङ्गण्वाटी मन्दिरं सुरक्षितं तिष्ठति। तस्य मन्दिरस्य प्राकारम् ईषद्भग्नं जातम्।

द्वितीये दिने रविवासरे सायं २.३० वादने एव प्रासादमभञ्जयत्। एतद् अर्धहोरावधिकं विलम्बेन जातम्। स्फोटनाय १.३० वादनमेव निश्चितमासीत्। परं काहलं वादयितुं विलम्बो जातः।

राष्ट्रे दुर्घटावस्था, प्रथमं शान्तिः आवश्यकी – सर्वोच्चन्यायालयः।

नवदिल्ली- नागरिकनियमसंशोधनावेदने सर्वोच्चन्यायालयस्य रूक्षं विमर्शनम्। नागरिकसंशोधननियमः संविधानानुसारी इति प्रख्यापयन् द्रुतमेव प्रावर्तिकं करणीयमिति आवश्यकेन समर्पितम् आवेदनं विमृश्य सर्वोच्चन्यायालयेन निगदितं यत् प्रथमं राष्ट्रे शान्तिः संस्थापनीया इति।

राष्ट्रं दुर्घटावस्थाायामेव पुरेगच्छति। अस्मिन्नवसरे शान्तिं पुनस्स्थापयितुमुपाय एव प्रथममावश्यकम्। तदर्थम् एतादृशम् आवेदनं सहायकं न भवेत् इति मुख्यन्यायाधीशस्य एस्. ए. बोब्डे वर्यस्य आध्यक्ष्ये बी.आर्. गवाय, सूर्यकान्त् इत्यङ्गद्वययुक्तं संवेशनम् असूचयत्। मुम्बै देशीयायाः आवेदने एव न्यायालयेन एवं परामृष्टम्।

इराने 180 यात्रिकैः साकं युक्रैन् विमानं भङ्क्त्वा पतितम्।

तेह्रान्- इराने युक्रैन् विमानं भङ्क्त्वा पतितम्। यात्रिकाः कर्मकराश्च आहत्य 180 जनाः यात्रिकाः आसन्। तेह्राने इमां खोमेनि विमानपत्तनस्य समीपमेव अपघातः समापन्नः।

     इमां खोमेनी विमानपत्तनात् उड्डयितं  बोयिंङ् 737 जेट्ट् विमानमेव तेह्रानस्य प्रान्तप्रदेशे परान्ते पतितम्। तेह्रानात् युक्रैन् प्रति प्रस्थितमासीत् विमानम्।

     अपघातस्य कारणं अभियान्त्रिकन्यूनतेति प्राथमिकं निगमनम्।

२०१९ वर्षस्य प्रलयः, केरलराज्यस्य केन्द्रसाहाय्य नास्ति। सप्तभ्यः राज्येभ्यः ५९०८.५६ कोटिरूप्यकाणि विहितानि।

नवदिल्ली – २०१९ वर्षस्य प्रलयमनुबन्ध्य केरलराज्यस्य केन्द्रसाहाय्यं नानुमितम्। केरलादृते सप्तभ्यः राज्येभ्यः राष्ट्रीयदुरन्दनिवारणनिधेः ५९०८.५६ कोटि रूप्यकाणि प्रदातुं गृहमन्त्रिणः अमित् षा वर्यस्य आध्यक्षे आयोजितम् उन्नततलाधिवेशनं निरणयत्। असं, हिमाचलप्रदेशः, कर्णाटका, मध्यप्रदेशः, महाराष्ट्र, त्रिपुर, उत्तरप्रदेशः इत्येतेभ्यः राज्येभ्यः एव केन्द्रसाहाय्यं प्रदत्तम्।

     प्रलयः, मृत्पातः, मेघविस्फोटनम् इत्येते आपतितं दुरितं प्रतिरोद्धुमेव सप्तभ्यः राज्येभ्यः केन्द्रसाहाय्यमदात्। २०१९ प्रलयस्य विशदांशान् सूचयन् २१०१ कोटि रूप्यकाणि आवश्यकानि इति गते सेप्तम्बर् सप्तमेदिनाङ्के केरलराज्यं केन्द्रसर्वकाराय पत्रं प्रैषयदासीत्। ततः आगतः केन्द्रसंघः पत्रमिदं परिगणनाविषयं नाकरोदिति मन्यते।

इरानस्य प्रत्याक्रमणम्, बाग्दादस्थस्य अमेरिकास्थानपतिकार्यालयस्य समीपं क्षेपण्याक्रमणम्।

बाग्दाद्- पश्चिमेष्याप्रान्ते आशङ्कां प्रवर्धयन् इराख् राजधानीभूते बाग्दादे पुनरपि क्षेपण्याक्रमणम्। बाग्दादे अमेरिक्कास्थानपतिकार्यालयस्य समीपमेव शनिवासरे क्षेपण्याक्रमणमभूत्। अस्यां घटनायां मानवमृत्युः नावेदित इति सैन्यं व्यजिज्ञपत्।

बलाद् वायुसेनाशिबिरमपि स्थानपतिकार्यालयस्य समीपमेव। अपि च अतीव सुरक्षितमेखलायामेव क्षेपणी पतिता इति सूचना। अमेरिक्कासैनिकानां शिबिरं वर्तते बलाद् स्थले।

बहवः सर्वकारीणकार्यालयाः अस्मिन् प्रदेशे सन्ति। क्षेपण्याक्रमणानन्तरम् अमेरिकासैन्यम् अस्यां मेखलायां व्योमनिरीक्षणं शक्तमकरोत्।

आस्ट्रेलिय राष्ट्रे अग्निबाधा मासचतुष्टयमतीता। ५० कोटि जीवजालानि भस्मीभूतानि।

सिड्नी- २०१९ सेप्तम्बर् मासे आस्ट्रेलिय राष्ट्रे व्यापृता अग्निबाधा एतावता नियन्त्रणविधेया न जाता। अग्निस्तु सर्वसंहारी भूत्वा पुरो गच्छति।

इतः पर्यन्तं १७ जनाः मृताः। अपि च नैके जनाः तिरोभूताः सन्ति। अत एव मृतानां संख्या इतोप्यधिकतरा जायेत इत्यावेदनम्।

अग्निबाधायां व्यापादितानां मृगाणां संख्या अतिशयास्पदा। इतःपर्यन्तं ५० कोटि परिमिताः जन्तवः मृताः इत्यावेदयति।