Category Archives: News Updates
अरविन्द् केजरिवाल् दिल्लीमुख्यमन्त्रिपदमगृह्णात्।
नवदिल्ली- दिल्याः मुख्यमन्त्रिपदे अरविन्द् केजरिवाल् वर्यः सत्यशपथं गृहीत्वा अधिकारमगृह्णात्। तृतीयवारमेवायं मुख्यमन्त्रिधुरां वहति। रामलीला स्थले आयोजिते अधिवेशने उपराज्यपालः अनिल् बैजल् वर्यः सत्यशपथमग्राहयत्। मनीष् सिसोदिया, सत्येन्द्र जयिन्, गोपाल् राय्, कैलाष् गह्लोत्, इम्रान् हुजैन्, राजेन्द्र गौतम् इत्येते मन्त्रित्वेनापि सत्यशपथमगृह्णन्। एते गते मन्त्रिमण्डले अपि सदस्याः आसन्।
सत्यशपथसमारोहे प्रधानमन्त्रिणम् आमन्त्रितवान् केजरिवाल् वर्यः तथापि प्रधानमन्त्री भागं न जग्राह। स वाराणस्यां सन्दर्शने अस्ति।
अध्यापकाः जय् भीं पद्धत्याः गुणभोक्तारः छात्राः ग्रामीणचिकित्सालयस्थाः भिषजः अन्ये निर्माणरंगस्थाः कर्मकराश्च केजरिवालेन सह वेदिकायाम् उपस्थिताः आसन्।
वाव सुरेष् तीव्रावस्थां नातिक्रान्तवान्, स्वास्थ्यावस्थायाम् ईषत् पुरोगतिः।
तिरुवनन्तपुरम्- सर्पदंशनेन तिरुवनन्तपुरं वैद्यकीयकलाशालाचिकित्सालयं प्रवेशितस्य सुप्रसिद्धव्यालग्राहिणः वावा सुरेष् वर्यस्य स्वास्थ्यावस्थायाम् ईषत् पुरोगतिरस्तीति चिकित्सालयाधिकृताः असूचयन्। परन्तु अपघातावस्था अतिक्रान्ता इति वक्तुं न शक्यते। चिकित्सालये तीव्रपरिचरणविभागे प्रवेशितस्य तस्य स्वास्थ्यमधिकृत्य ७२ होरानन्तरमेव किमपि वक्तुं शक्यते इत्यधिकारिणः अवदन्।
गते गुरुवासरे एव व्यालग्रहणसमये व्यालेन दष्टं तं चिकित्सालयं प्रावेशयत्। पत्तनापुरे कस्मिंश्चित् गृहे सर्पः दृष्टः इति दूरवाणीसन्देशानुसारं तत्र गत आसीत् वाव सुरेष्।
विधिनिर्णयस्य कार्यान्वयनं नो चेत् न्यायालयानां पिधानमेव वरम्- न्यायाधिपः अरुण् मिश्रा।
नवदेहली- दूरवाणीप्रतिष्ठानेभ्यः १.४७ लक्षं कोटिरूप्यकाणि ऋणशेषत्वेन स्वीकरणं प्रतिबद्धस्य सर्वकारीणकर्मकराय सर्वोच्चन्यायालयस्य रूक्षविमर्शः न्यायालयनिर्णयं प्रतिरोद्धुं कस्यचन कर्मकरस्य कः अधिकार इति ज.अरुण् मिश्रा, ज. एं.आर्. षा च अन्तर्भूतं संवेशनम् अपृच्छत्। कर्मकरस्यास्य प्रवृत्तिः चकितास्पदा इत्यपि न्यायालयेन निर्णीतम्।
यदि न्यायालयादेशाने कर्मकराः न प्रावर्तिकं कुर्वन्ति तर्हि न्यायालयानां पिधानमेव वरमिति ज. अरुण् मिश्रा अवदत्। अत्याचारान् उन्मूलयितुमारब्धं प्रवर्तनं कर्मकराणाम् औदासीन्याद् निष्फलतां याति। नीतिव्यवस्थां प्रति बहुमानहीनाः अस्मिन् लोके जीवनं नार्हन्ति इत्यपि न्याय़ाधिपः अवदत्।
आग्रा लख्नै अतिवेगरथ्यायां बस् यानं भारवाहियानस्य पृष्टे विघट्य १६ जनाः मृताः।
आग्र- आग्र-लख्नौ अतिवेगरथ्यायां भारवाहियानस्य पृष्टभागे बस् यानं विघट्य १६ जनाः मृताः, २० जनाः आहताः। बुधवासरे रात्रावेव अपघातः संवृत्तः। देहलीतः बीहार् राज्यं प्रति ४० परिमितैः यात्रिकैः साकं गच्छत् बस् यानमेव अपघाते पतितः।
फिरोसाबाद् मण्डलस्थे नग्ला खान् पुलीस् थाना परिधौ एवापघातः। अतिवेगरथ्यायां भग्नस्य चक्रस्य परिवर्तनार्थं संस्थापितस्य भारवाहियानस्य पश्चात् बस् यानस्य विघट्टनं संजातम्।
होरात्रयपरिमितेन रक्षापिरवर्तनेनैव आहतान् तथा मृतानां शरीराणि च बहिरानीतानि। आहतान् उत्तरप्रदेशस्थं आर्.ऐ.एं.एस्. चिकित्सालयं प्रावेशयत्।
नववाण्याः दशवार्षिकसमारोहः सुसम्पन्नः।
इरिङ्ङालक्कुटा- इरिङ्ङालक्कुट विद्याभ्यासमण्डलस्य संस्कृतम् अक्कादमिकसमित्या समायोजितः नववाण्याः दशवार्षिकसमारोहः तथा संस्कृत-ह्रस्वचलच्चित्रोत्सवश्च इरिङ्ङालक्कुटा एं सी पी समारोहसौधे पृथक् आयोजितायां वेदिकायां सुसम्पन्नः अभवत्। केरलविधानसभायाः भूतपूर्वसदस्यः तोमस् उण्णियाटन् वर्यः समारोहं समुदघाटयत्। शिक्षा उपनिदेशिका श्रीमती गीता आध्यक्ष्यं निरवहत्। मण्डलशिक्षाधिकारिणी जयश्रीवर्या स्वागतभाषणं व्यदधात्।
डो. पी. नारायणन् नम्पूतिरी, डो. टी.डी. सुनीतीदेवी एन्. के. रामचन्द्रन्, विजयन् वी. पट्टाम्बी, एन् भास्करन्, सी.वी. जोस् इत्येते विद्वांसः सदसि समादृताः। ए.इ.ओ. अब्दुल् रसाख्, श्रीमति प्रणित प्रसाद् च आशंसामर्पयामासतुः।
उद्घाटनानन्तरं ह्रस्वचलचित्राणां प्रदर्शनमभवत्। षट् चलच्चित्राणि प्रादर्शयत्।
मध्याह्नादूर्ध्वं द्विवादने पुरस्कारसमर्पणसमारोहः आसीत्। उत्कृष्टानि त्रीणि चलच्चित्राणि, उत्कृष्टः निदेशकः, पटकथाकारः, प्रकृष्टः नटः, नटी, पृथक् जूरीपुरस्काराः वितीर्णाः।
पुरस्कारदानवेदिका चलच्चित्रप्रवर्तकैः नटैः सांस्कृतिकव्यक्तिभिश्च समाकलिता आसीत्।
विश्वे प्रप्रथममेव संस्कृते ह्रस्वचलच्चित्रोत्सवः एवं समायेजिताः।
नववाण्याः दशवार्षिकसमारोहः संस्कृतह्रस्वचलच्चित्रोत्सवश्च।
इरिङ्ङालक्कुट- संस्कृतभाषामण्डले प्रमुखः जालसेवामाध्यमः भवति नववाणी। वार्ताः संस्कृतभाषासम्बन्धीनि सर्वाणि कार्याणि, जालसेवाद्वारा पठनविभवानां वितरणं, भाषापोषणार्थं प्रतिसप्ताहं समस्यापूरणमत्सरः, प्रश्नोत्तरम् इत्यादीनि प्रवर्तनानि आयोजयति। अष्टलक्षम् अनुवाचकाः इतः पर्यन्तं नववाणीमन्वाश्रयन्। नववाण्याः प्रवर्तनानि दशवर्षाणि अतीतानि।
नववाण्याः दशवार्षिकस्य अनुबन्धतया इरिङ्ङालक्कुट संस्कृत-अक्कादमिकसमितिः २०२० फेब्रुवरी ११ दिनाङ्के इरिङ्ङालक्कुट एं सी.पी. आन्ताराष्ट्रिय-समारोहमन्दिरे संस्कृत-ह्रस्वचलच्चित्रोत्सवम् आयेजयति। चलचित्र-सांस्कृतिकमण्डलस्थाः प्रमुखाः विद्वांसः अस्मिन्नुत्सवे भागं भजन्ते। सत्रत्रयरूपेणैव उत्सवस्य आयोजनम्।
प्रथमम् उद्घाटनसत्रम्। मण्डलशिक्षाधिकारिणी एम् आर् जयश्रीवर्या स्वागतभाषणं विधास्यति। नगरसभायाः अध्यक्षा निम्या षिजू वर्या आध्यक्ष्यं निर्वक्ष्यति। तृशूर् जिला पञ्चायत् अध्यक्षा मेरी तोमस् वर्या उद्घाटनं विधास्यति। विधानसभायाः भूतपूर्वसदस्य तोमस् उण्णियाटन् वर्यः अतिथिः भविता। शिक्षा विभागे तृशूर् उपनिदेशिका श्रीमति गीता वर्या मुख्यभाषणं करिष्यति
समारोहे अस्मिन् डो. पी. नारायणन् नम्पूतिरिः, डो. टी.डी. सुनीतीदेविः, एन्. के. रामचन्द्रन्, एन्, भस्करन्, एन्. नारयणन् इत्येतान् समादरिष्यते। एस्. सी. इ. आर्.टी संस्कृतम् अधिकारी वी,श्रीकण्ठन्, डो. एं.वी. नटेशन्, सनल् चन्द्रन्, अब्दुल् रसाख्, सुरेष् बाबू एन् एस् प्रभृतयः आशंसां प्रकाशयिष्यति।
द्वितीयं सत्रं संस्कृतह्रस्वचलचित्राणां प्रदर्शनमेव। षट् चलचित्राणि एतदर्थं चितानि।
तृतीयं सत्रं पुरस्कारप्रख्यापनं वितरणं च। नववाण्याः मुख्यसम्पादकः सी.वी. जोस् वर्यः स्वागतं व्याहरिष्यति। केरलकलामण्डलं मुक्तविश्वविद्यालयस्य कुलपतिः डो. टी.के. नारायणन् वर्यः मुख्यातिथिः भविता। इटवेल बाबू, सुनिल् सुगत, नन्दकिषोर्, मेजर् प्रमोद् राघवन्, पी.के. भरतन्, श्रीमती सोणिया गिरिः, कुमारी आतिरा पट्टेल्, श्री गोकुल् मङ्गलत् प्रभृतीनां विशिष्टं सान्निध्यमपि भविष्यति।
प्रो. वी. माधवन् पिल्ला, डो. सुनिल् कुमार् कोरोत्, सी.सी. सुरेष्, डो. एस्.एन् महेष् बाबू, षाजू पोट्टक्कल् प्रभृतयः आशंसा व्याहरिष्यति। श्री सुरेष् बाबू सी.सी. कृतज्ञतां च प्रकाशयिष्यति।
संस्कृतक्षेत्रे अयमुत्सवः नूतनः पदविन्यास एव। आधुनिककालेन सह संस्कृतस्य समायोजनमेव अनेन लक्ष्यते। केरलमासमन्तात् अध्यापकानां छात्राणां च सान्निध्यमत्र प्रतीक्षे।
पी. परमेश्वरन् वर्यः दिवमगात्।
ओट्टप्पालम्- केरलेषु संघपरिवारप्रस्थानानाम् पूर्वकालसंघाटकः तात्त्विकाचार्यश्च श्रीमान् पी.परमेश्वरवर्यः दिवंगतः। स ९३ वयस्कः आसीत्।रविवासरे प्रातः ओट्टप्पालसमीपे मायन्नूर् देशे निजीयायुर्वेदचिकित्सालये आसीदस्यान्त्यम्। १९८२ आरभ्य भारतीयविचारकेन्द्रस्य निदेशकः अस्ति। तथा कन्याकुमारी विवेकानन्दकेन्द्रस्य अध्यक्ष भवत्ययम्। हैन्दवतत्त्वचिन्तायाः सात्विकतेजः अयं संघप्रवर्तकानां मध्यो परमेश्वर्जी इति विख्यातो भवति।
२००४ तमे वर्षो पद्मश्री तथा २०१८ तमे वर्षे पद्मविभूषण् इति पुरस्काराभ्यां राष्ट्रमेनम् आदद्रे। अपि च जन्माष्टमिप्रभृतयः नैके पुरस्काराः तेन अवाप्ताः।
आध्यात्मिकतायाम् अधिष्ठितेन जीवनेनैव समाजस्य उन्नतिः स्यात् इति तत्त्वमेव अयमुद्धधार। अध्ययनाय गवेषणाय च स स्वकीये जीवने प्राधान्यं पर्यकल्पयत्। श्रीनारायणगुरुदेवन् नवोत्थानत्तिन्टे सारथिः, दिशाबोधत्तिन्टे दर्शनम्, मार्क्सुं स्वामिविवेकानन्दनुम् इत्यादयः विंशतिपरिमिताः ग्रन्थाः तेन विरचिताः।
१९२७ तमे वर्षे आलप्पुषमण्डले चेर्तलदेशे अयं भूजातः अभवत्। अस्य भौतिकसंस्कारः रविवासरे सायं मुहम्मा देशे भविष्यति।
प्रमुखः संस्कृतपण्डितः विवर्तकश्च चन्द्रशेखरवारियर् वर्यः दिवंगतः।
अष्टमिच्चिर- प्रसिद्धः संस्कृतविद्वान् तथा अनुवादकश्च श्रीमान् चन्द्रशेखरवारियर् वर्यः कालकबलीभूतः। स १०१ वयस्कः आसीत्। वार्धक्यसहजया अवशतया स अष्टमिच्चिरस्थे गृहे विश्रामजीवने आसीत्। अद्य प्रातः षड्वादनावधौ आसीदस्य अन्त्यम्।
बह्यः संस्कृतकृतयः तेन मलयालभाषायाम् अनूदिताः। अपि च कलोत्सववेदिकायाम् अस्य़ सान्निध्यं स्थिरमासीत्। बहवः पुरस्काराः अपि अनेन आप्ताः। अस्य भौतिकदेहसंस्कारः श्वः भविष्यति।
अक्षरोत्सवस्य शुभसमाप्तिः।
तिरुवनन्तपुरम्- साहित्यस्य संवादस्य सर्गात्मकतायाश्च नूतनम् आकाशम् अनन्तपुुर्यै समर्पयन् मातृभूमि-अन्ताराष्ट्रपुस्तकोत्सवस्य तृतीयसोपानं समाप्नोत्। कनकक्कुन्न् प्रासादे आयोजितं समापनसमारोहं राज्यपालः आरिफ् मुहम्मद्खान् वर्यः उदघाटयत्।
स्वकीयान् आशयान् विचारान् च प्रकटयितुम् अधिकारः अस्तीति विश्वासम् आतन्वानः बहवो जनाः अभिप्रायस्वातन्त्र्यं नाङ्गीकुर्वन्ति। एतत् कापट्यं द्वैमुख्यं चास्ति इति राज्यपालः अवदत्।
अस्माकं दिनानि अन्धकारे न पतिष्यतीति सन्देशमेव अक्षरोत्सवद्वारा लभते इति समारोहे आध्यक्ष्यं निर्वहन् मन्त्री कटकंपल्लि सुरेन्द्रन् वर्यः अवदत्। अपि च प्रतिरोधं शक्तीकर्तुम् अक्षरोत्सवः प्रभवति , वर्गीयवादिनां प्रक्युत्तरमेव एतादृश उत्सव इत्यपि सोवदत्।
अक्षरोत्सवस्य तृतीयसोपानम् अधिकम् आत्मविश्वासं प्रददाति इति समापोहे भाषमाणः मातृभूमि प्रबन्धकनिदेशकः एं.वी. श्रेयांस् कुमार् वर्यः न्यगादीत्।
केरलेषु लव् जिहाद् इति समस्या नावेदिता इति केन्द्रिय-गृहमन्त्रालयः।
नवदेहली- राष्ट्रतले राष्ट्रिय-नागरिकता-पञ्जिकाम् विधातुं न निरणयत् इति केन्द्रिय गृहमन्त्रालयः। लोक्सभायां केन्द्र गृहमन्त्रालयस्य सहमन्त्री नित्यानन्द् राय् वर्यः कार्यमिदम् आवेदितवान्। अपि च केरलेषु लव् जिहाद् इत्याख्यः धर्मसमस्या नावेदिता। एतत्सम्बन्धिनौ द्वौ व्यवहारौ एन्.ऐ.ए दलेन अन्विष्येते इत्यपि बेन्नी बहन्नान् इति सदस्यम् स अबोधयत्।
नागरिक संशोधनाधिनियमं, नागरिकत्व पञ्जिकां च विरुध्य आराष्ट्रं प्रतिषेधाः प्रचलन्ति। तदानीमेव एतदर्थं सर्वकारनिर्णयो नास्तीति केन्द्रसर्वकारः आधिकारिकं प्रतिवचनं लोक्सभायाम् अदात्।
सममेव केरलेषु लव् जिहाद् एतावत्पर्यन्तं नावेदितमित्यपि मन्त्री आधिकारिकतया सभायां प्रास्तौत्। जिहाद् इत्यस्य नियमे निर्वचनानि नास्तीत्यपि स सभायामवोचत्।













