Category Archives: News Updates

अद्यतन वार्ताः – 19-06-2025

📘📘📘📘📘📘
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य नवदश जून् २०२५ (पंचविशत्यधिक द्विसहस्रम्) गुरुवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
📘📘📘📘📘📘

📖अद्य जून् १९ दिनाङ्कः पठनदिनम् अस्ति।केरळग्रन्थशालासङ्घस्य उपजञाता च प्रचारकश्च पी. एन्. पणिक्करः अस्य दिवसे एव निधनं प्राप्तवान्।

📖पेट्टा-कडकम्पल्लि ग्रामयोः मध्ये स्थितं ९.४०९ एकरपरिमितं भूमिभागं एयर् इण्डिया इञ्जिनीयरिङ् सर्विसेस् लिमिटेड् इत्यस्मै पत्तनेन दातुं मन्त्रिसभायाः निर्णयः जातः।

📖प्रधानमन्त्री नरेन्द्रमोदी क्रोएशियादेशम् अगच्छत्। प्रथमवारमेव भारतीयः प्रधानमन्त्री यूरोपदेशे क्रोएशियाम् अगच्छत्।

📖इस्राएल्-इरान् युद्धस्य परिणामानि तीव्राणि भविष्यन्ति इत्युक्त्वा रूसदेशस्य राष्ट्रपति: व्लादिमीर् पुतिन् चेतावनीं दत्तवान्।

📖केन्द्रपर्यावरणमन्त्रालयेन पर्यावरणानुमतिः लब्धा। कोषिक्कोड्-वयनाड् तुरङ्गमार्गः निर्माणपथे प्रवेशं कृतवान्।

📖मिल्मा इत्यस्य रूपविन्यासम् अनुकरणं कृत्वा एका निजी डायरी एककोटिरूप्यकाणां दण्डेन दण्डिता न्यायालयेन।

📖मुम्बई-अहमदाबाद् बुलेट् रेल् राष्ट्रस्य गौरवाय आगच्छति।

📖भारत-इङ्ग्लण्ड् टेस्ट् श्रृंखलायाः कृते भारतीयदलं इङ्ग्लण्ड् देशे प्राप्तम्।

धन्यवादः
शुभदिनम्

अद्यतन वार्ताः – 13-06-2025

🔸🔸🔸🔸🔸🔸
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य त्रयोदश जून् २०२५ (पंचविशत्यधिक द्विसहस्रम्) शुक्रवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🔸🔸🔸🔸🔸🔸

🔸उहमदाबादे सरदारवल्लभाईपटेल-आन्तरराष्ट्रीयविमानपत्तने समीपस्थिते मेघानिनगरे लण्डनं प्रति यात्रां कुर्वतः एर्-इण्डिया-विमानस्य दुःखदं पतनं जातम्। मृतानां प्रति CAF-संस्थया श्रद्धाञ्जलिः समर्पिता। 🙏💐

🔸वित्तमन्त्रिणी निर्मलासीतारामेण निगदितम्—बैंक्-संस्थायां स्थितं अव्यवहितं धनं यथाशक्ति शीघ्रं स्वामिनां प्रति प्रत्यर्पणीयम्।

🔸आतङ्कवादेन भारतं प्रति प्रवर्त्यते चेत्, तर्हि भारतः पाकिस्तानराष्ट्रे तीव्रं प्रत्याक्रमणं करिष्यति। इति विदेशकार्यमन्त्री एस् जयशङ्करः उद्घोषयत्।

🔸अङ्कमालि-शबरी नामकस्य रेलमार्गस्य निर्माणकार्याणि शीघ्रीकर्तुं राज्यरेलमन्त्री वि. अब्दुर्रहिमानः निर्देशं दत्तवान्।

🔸उच्चशिक्षाक्षेत्रे विद्यमानसमस्या विचिन्तयितुं राज्यपालः राजेन्द्रविश्वनाथः अर्लेकरः कुलपतिभिः सह सभां कर्तुं आहूतवान्।

🔸डॉ. ई. श्रीधरः उक्तवान् यत् केरलराज्ये प्रस्ताविते अतीववेग-रेलयोजनायाः विषये केन्द्रसर्वकारात् कोऽपि सम्पर्कः न प्राप्तः।

🔸विद्यालयेषु समयपरिवर्तनं ,धार्मिकशिक्षां दत्तः छात्राणां कृते क्लेशकारकमिति समस्तसंस्थायाः अध्यक्षेन मुख्यमंत्रीं प्रति निवेदनं कृतम्।

🔸कोच्चीनगरस्य समीपे एल्स्-३ इत्यस्य नौकायाः समुद्रे पतनं जातम्। तस्या स्वामिनः MSC-सम्बद्धनौकां न्यायालयेन स्थगयितुं निर्देशः दत्तः।

🔸यदि विद्यालये दश बालकाः सन्ति चेत्, तर्हि अरबीक्-शिक्षकस्य पदं तत्र स्थायित्वेन स्वीकरणीयमिति राज्यशिक्षाविभागस्य नवादेशः।

🔸राज्येषु मुख्यवन्यप्राणिसंरक्षकैः वन्यमृगवधस्य अनुमतिः केवलं निर्दिष्टनिबन्धनानुसारमेव दातव्या इति केन्द्रसर्वकारेण स्पष्टिकृतम्।

🔸संयुक्तअरबएमिरेट्स् (UAE) राष्ट्रे बीमाव्यवस्थायां स्वदेशीयीकरणं सशक्तं कर्तुं योजनाः क्रियन्ते।

धन्यवादः
शुभदिनम्

अद्यतन वार्ताः – 12-06-2025

🎼🎼🎼🎼🎼🎼
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य द्वादश जून् २०२५ (पंचविशत्यधिक द्विसहस्रम्) गुरुवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🎼🎼🎼🎼🎼🎼

🎼प्रौढेषु अन्यरोगयुक्तेषु च कोविड्‌ रोगः गम्भीरः भवति इति कारणेन विशेषं सावधानता करणीयमिति आरोग्यमन्त्री वीणा जॉर्ज् उक्तवती।

🎼हाय्-स्कूल् विद्यालयेषु कर्मसमयः अर्धतृतीयघण्टया वृद्धः भविष्यति, एषः नियमः आगामिन्याः सप्ताहस्य आरम्भे प्रवर्तिष्यते।

🎼लक्षद्वीपस्य प्रादेशिकभाषाः पाठ्यक्रमात् निष्कास्य, शिक्षानिर्देशकः येन आदेशः प्रदत्तः, तस्य पालनं उच्चन्यायालयेन प्रतिबन्धितम्।

🎼शबरीमलायाः सन्निधाने तीर्थयात्रिकाणां प्रत्यावर्तनाय मरकूटं मार्गे सेतुर्निर्मास्यते।

🎼भारतम् सहितं चतुर्दश राष्ट्राणां नागरिकेभ्यः मल्टिपल्-वीसा पद्धतिः सऊदीअरबदेशेन पुनः स्थापिता। उम्रावीसापि प्रदायिता।

🎼सरकार-कार्मिकेभ्यः प्रदानाय घोषिता ‘अश्वर्ड् पेंशन्’ इत्यस्य कार्यान्वयनाय राज्यसर्वकारः सज्जतां कृतवती।

🎼एयर्-कण्डीशनर् यन्त्राणां नियन्त्रणाय केन्द्रसर्वकारः उपायान् स्वीकर्तुं सज्जः।

🎼भारतस्य जनसंख्या एतेन वर्षे १४६ कोटीन् अतिक्रमति इति संयुक्तराष्ट्रसंस्थायाः विवरणम्।

🎼चन्द्रेभ्यः ३०० किलोग्रामात् अधिकं शिलाः मृत्तिकाः च नासा संस्थायाः अपोलो कार्यक्रमेन पृथिव्यां नीताः सन्ति।

🎼कोंकण् मार्गेण यानानां वर्षाकाल-सारणी जून् १५ दिनाङ्के प्रवर्तिष्यते।

🎼केरले पुनः वर्षाकालः सक्रियः जातः। जून् १२ दिनाङ्कतः केरले वातः प्रबलः भविष्यति इति विवरणम्।

धन्यवादः
शुभदिनम्

अद्यतन वार्ताः – 11-06-2025

🍋‍🟩🍋‍🟩🍋‍🟩🍋‍🟩🍋‍🟩
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य एकादश मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) बुधवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🍋‍🟩🍋‍🟩🍋‍🟩🍋‍🟩🍋‍🟩

🍋‍🟩वन्यजीवनसमस्या — केन्द्रसरकारस्य स्थितिः स्वीकर्तुं न शक्या इति वनमन्त्री ए. के. शशीन्द्रः।

🍋‍🟩 उच्चविद्यालयेषु कार्यसमयः अर्धघण्टया वृद्धः, आगामीसप्ताहात् प्रवर्तनं भविष्यति।

🍋‍🟩 हज्ज् ऋतवः इदानीं वसन्तकाले भविष्यन्ति इति राष्ट्रीयकालावस्थापर्यवेक्षकाः।

🍋‍🟩एषियायाः अफ्रिकायाश्च मध्ये सेतुबन्धेन सम्बन्धः स्थाप्यते इति महती योजना सौदीअरबदेशेन मिश्रदेशेन च।

🍋‍🟩 भारतदेशेन उन्नतभूप्रदेशेषु कृत्रिमबुद्धेः साहाय्येन कार्यक्षमं लघुयन्त्रशस्त्रं सफलतया परीक्षितम् ।

🍋‍🟩सौदीअरबदेशगमनाय पारिवारिकविविधदर्शन विसासंस्था पुनः स्थाप्यते।

🍋‍🟩पैसिफिक् समुद्रे आगामिदिनेषु चक्रवातभीतिः इति केन्द्रकालावस्थाकेन्द्रेण सूचितम्।

धन्यवादः
शुभदिनम्

अद्यतन वार्ताः – 06-06-2025

⭐⭐⭐⭐⭐
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य षट् मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) शुक्रवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
⭐⭐⭐⭐⭐

⭐बलिपेरूनाल् निमित्तं केरलराज्यस्य सर्वे महाविद्यालयाः श्वः अवकाशं प्रख्यापितवन्तः, इति उच्चशिक्षाविभागस्य घोषणा।

⭐स्वशासित-नर्सिङ्ग्-महाविद्यालयानां सम्बन्धनप्रक्रियाः जून्-मासस्य दशमे दिनाङ्के समाप्ताः करणीयाः इति आरोग्यमन्त्री श्रीमती वीणा जोर्ज् उक्तवती।

⭐कुञ्जूस् कार्ड् आरोग्य-योजना च स्त्रीबालविकासविभागस्य मन्त्री श्रीमती वीणा जोर्ज् उद्घाटयत्।

⭐दशाब्दानि यावत् केरलं यत् प्रतीक्षते स्म, तस्य अङ्गमालि-शबरी-रेल्पथस्य निर्माणकार्याणि आरब्धानि।

⭐राज्यस्य रेल्वे-विकासाय रेल्वे-मन्त्रालयेन याः योजनाः प्रस्तूताः, तासां त्रयः-चतस्रः रेखाः अप्रयोज्याः इति मतं रेल्वे-मानदर्शकः ई. श्रीधरन् व्यक्तवान्।

⭐वाराणस्यां प्रसिद्धं दल्माण्डि-प्रदेशे भवनानि ध्वंसयितुं रोद्धुं अलाहाबाद्-उच्चन्यायालयेन स्थगनादेशः दत्तः।

⭐अगस्त्-मासस्य प्रथमदिनाङ्कतः नेशनल्-पेमेन्ट्स्-कार्पोरेशन्-ऑफ्-इण्डिया (NPCI) महान्तं परिवर्तनं कर्तुं सज्जः।

⭐महाराष्ट्रराज्यस्य “स्टेट् कॉमन् एण्ट्रन्स् टेस्ट् सेल्” इत्यस्मात् संस्थायाः भौतिकी, रसायनशास्त्रं, जीवविज्ञानं, गणितशास्त्रं च इत्येतयोः द्वयोः वर्गयोः परीक्षाफलानि २०२५ वर्षस्य जून् १६ दिनाङ्के प्रकाशयितुं अपेक्ष्यन्ते।

⭐अखिलभारतीयस्तरे योजिते युजी तथा पीजी कार्यक्रमेषु कु्साट् संस्थया आयोजिता सार्वजनिकपरीक्षा यः फलं प्रकाशितम्।

⭐अङ्गमालि-एरुमेली-शबरी-रेल्पथ-योजनायाः साक्षात्कारेण शबरीमले तीर्थयात्रिकाणां संख्या वर्धिष्यते इति अपेक्ष्यते।

धन्यवादः
शुभदिनम्

अद्यतन वार्ताः -04-06-2025

🫟🫟🫟🫟🫟
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुuखाः वार्ताः । अद्य चत्वारः मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) गुरुवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🫟🫟🫟🫟🫟

🫟मुख्यमंत्रीः केन्द्रस्य रेल्-मन्त्रिणं अश्विनि वैष्णवं सन्दिदर्शयत्।

🫟दीर्घकालात् प्रतीक्षां कुर्वन्तः केरलराज्यस्य जनाः, अङ्कमालि-शबरीमला रेल्-पथः शीघ्रं वास्तविकतां गमिष्यतीति राज्यस्य रेल्-कायिकमन्त्रिणा वि. अब्दुर्रहीमन् इत्यनेन उक्तम्।

🫟अर्धघण्टापर्यन्तं अध्ययनवृद्ध्यर्थं उच्चविद्यालयकक्षाणां कृते प्रारूप-समयपञ्जी निर्मिता।

🫟विद्यालयसंरचनां एकस्याः छत्रच्छायायाः अन्तर्गतं आनयितुं कार्यप्रवृत्तिः प्रगतिम् अगच्छत् इति मुख्यमंत्री पिणरायि विजयेन उक्तम्।

🫟ऐ एस् आर् ओ -संस्थया विविधविभागेषु ३२० पदानां कृते नियुक्तिप्रक्रिया आरब्धा।

🫟अनुवर्त्यमानेन त्रिमासं यावत् राशनं अप्राप्तवतां ७०४१८ जनान् प्राथमिकवर्गात् निष्कासयितुं सरकारेण निर्णयः कृतः।

🫟पहलगाम् इत्यस्मिन् आतंकवादीआक्रमणानन्तरं भारतदेशेन स्वीकृतेन जलनीतिना पाकिस्तानदेशे जलसंकटः उत्पादितः।

🫟जीवने कदाचित् समस्याः आगच्छेयुः चेत् अपि खिन्नः मा भूः इति मुख्यमंत्री पिणरायि विजयेन उक्तम्।

🫟पी.एस्.सी.-संस्थायां नियुक्तिसंस्तवाः पूर्णतया डिजिटल्-प्रणाल्याः अन्तर्गतं गमिष्यन्ति।

🫟अत्यवेगेन विकसमानायां कृत्रिमबुद्धेः क्षेत्रे असंख्यानि अवसराणि लभ्यन्ते।

🫟मोहालि-प्रदेशे अवस्थितस्य INS​TI संस्थायाः २०२५तमस्य वर्षस्य पीएच्.डी.प्रवेशाय आवेदनानि आमन्त्रितानि।

धन्यवादः
शुभदिनम्
🫟🫟🫟🫟🫟

अद्यतन वार्ताः – 30-05-2025

🔮🔮🔮🔮🔮🔮
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य त्रिंशत् मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) शुक्रवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🔮🔮🔮🔮🔮🔮

🔮 वी. शिवनकुट्टिना उक्तं यत्—”विद्यालयेषु बालकानां सुरक्षां सुनिश्चितव्यम्। अस्य मासस्य त्रिंशत्तमदिनाङ्कपर्यन्तं विद्यालयशौच्यकार्यं पूर्णं करणीयम्। अस्मिन् अध्ययनवर्षे शिक्षणपद्धत्याम् अपि परिवर्तनं कृतमस्ति। अयं वर्षः दाबरहितः शैक्षिकवर्षः भविष्यति।”

🔮 राज्ये प्लसवन् प्रवेशार्थं प्रथमः अलाट्मेण्ट् जूनमासस्य द्वितीय दिने भविष्यति। सायं पञ्चवादने प्रथमः अलाट्मेण्ट् प्रकाश्यते।

🔮अष्टादशवर्षाभ्यन्तरे द्वितीयपादे लाभं प्रदाय बी.एस्.एन्.एल् संस्थया उत्तमं वित्तीयपरिणामं प्राप्तम्।

🔮”केरळराज्यस्य सागरसीमायां एम्.एल्.सी एल्स्–३ इत्यस्य मालवाहिन्याः पलायनकारणम् यन्त्रदोषः इति प्रारम्भिकनिगमनम् अस्ति, इति नौवहनमहानिदेशालयस्य वरिष्ठाः अधिकाऱाः अवदन्।”

🔮”भारतं सहितानि अनेके राष्ट्राणि येन करारोपणेन पीडितानि, तस्य डोनाल्ड् ट्रम्पस्य निर्णयस्य विरुद्धं अमेरिकायाः व्यापारन्यायालयेन प्रतिक्रिया प्रदत्ता।”

🔮”राज्यस्य षडशीतिः मुनिसिपालिटीनां षट् निगमेषु च वार्ड्-विभाजनस्य अन्तिमः विज्ञापनः प्रकाशितः।”

🔮”परीक्षायाम् उत्तमं यशः प्राप्तवन्तः छात्राः ये विमानयात्रायाः आकाङ्क्षां कृतवन्तः, तेषां स्वप्नं पूर्णीकृतवती प्रमुखाध्यापिका। केरलस्य कण्णूर्-जिलायाः पानूर्-प्रदेशे तिरुवाल्-यु.पी. विद्यालयस्य प्रमुखाध्यापिका के.वी. रम्ला एषा।”

🔮बङ्गलादेशात् अनधिकृतः प्रवासजनः प्रत्याहर्तुं प्रयत्नः क्रियते, किन्तु बङ्गलादेशेन सहकार्यं न कृतम्।

🔮खत्तरे उष्णतायाः तीव्रत्वात्, उद्घाटितेषु स्थलेषु कर्म कुर्वतां जनानां कृते मर्यादा घोषिता खत्तरराज्यस्य श्रममन्त्रालयेन।

धन्यवादः
शुभदिनम्

केरलेषु विद्यालयानां प्रवर्तनं जूण् – २ दिनाङ्के समारभते।

 वारद्वयं यावत् समयसारिण्याम् एकघण्टात्मकः समयः गुणप्रकर्षशिक्षायै उपयुज्यते।

तिरुवनन्तपुरम्- निदाघकालविरामानन्तरं केरलेषु विद्यालयाः जूण् – २ दिनाङ्के प्रवर्तनसज्जाः भवितारः। द्वितीयकक्ष्यातः दशमकक्ष्यापर्यन्तं कक्ष्यासु प्रथमवारद्वयं यावत् उन्मादकवस्तूनि विरुध्य अवबोधार्थं तथा नियमबोधनार्थं च पृथक् कक्ष्यान्तरः भविता इति शिक्षामन्त्री प्रास्तौत्। अपि च समग्रहुणप्रकर्षशिक्षायै मार्गनिर्देशम् अन्तर्भावयितुं निरणयत् इति मन्त्री वार्ताहरसम्मेलने उक्तवान्। नियमबोधः, व्यक्तिशुचित्वम्, परिसरशुचित्वम्, उन्मादकवस्तूनां निरासाय अवबोधः इत्यादीनि मार्गनिर्देशे अन्तर्भवन्ति।
प्रतिदिनम् एकहोरात्मकः कालः एतदर्थम् उपयोक्तव्यम्। प्रारम्भसमये छात्राः सङ्कोचं विना पठनप्रवर्तनेषु भागं ग्रहीतुं शक्नुयुः। तगर्थम् आत्मविश्वासः प्रवर्धयेत्। एकैकस्य दिनस्य सन्देशः कः इति विज्ञापितम्। समयः कदा भवेत् इति विद्यालयाधिकारिभिः निर्णेतुं शक्यते।

अद्यतन वार्ताः -23-05-2025

🌷🌷🌷🌷🌷
**क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य त्रयोविंशतिः मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) शुक्रवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🌷🌷🌷🌷🌷

🌷राज्ये उन्नत माध्यमिक-वृत्तिपरमाध्यमिक परीक्षाफलस्य प्रकाशनं सम्पन्नम्।

🌷द्वितीय पिणरायिसरकारस्य चतुर्थवर्षपूर्तेः निमित्तेन कनककुन्न्यां आयोज्यमानस्य “मम केरलम्” इति प्रदर्शनीय विपणिमेलायाः उद्घाटनं मन्त्री वी.शिवनकुट्टिना कृतम्।

🌷केन्द्रस्य नीतिकारणात् आर्थिकस्वातन्त्र्यं विनष्टं सति अपि सर्वेषु क्षेत्रेषु सरकारेण लाभः प्राप्तः इति वित्तमन्त्री के.एन्. बालगोपालः उक्तवान्।

🌷तामरश्शेर्यां मुहम्मद्शहबास् इति छात्रस्य मरणप्रकरणे अपराधिनः छात्राः ये, तेषां एस्.एस्.एल्.सी. परीक्षाफलम् उच्चन्यायालयस्य निर्देशानुसारं प्रकाशितम् इति शिक्षामन्त्री वी. शिवनकुट्टिः अवदत्।

🌷 भारतदेशे महाभयङ्कराक्रमणस्य योजनां पाकचारसंस्थया रचिता आसीत्, तत् भारतीयगूढचारसङ्घेन विफलितम्।

🌷राजस्थानस्य आई पी एल् क्रीडासत्रं निराशाजनकं समाप्तं कृत्वा, तस्य कप्तानः सञ्जु साम्सन् क्रीडाशिबिरं परित्यक्तवान्।

🌷मल्लपुरं प्रदेशे राष्ट्रमार्गनिर्माणे सङ्घटिते ध्वंसघटनायाः सन्दर्भे, के.एन.आर्. कन्स्ट्रक्शन्स् इति कम्पनीं प्रति केन्द्रमार्ग मन्त्रालयेन प्रतिबन्धः आरोपितः।

🌷 भारतीयसेनायाम् प्लस्-टू तन्त्रज्ञानप्रवेशाय विज्ञापनं प्रकाशितम्। नवतिः रिक्तस्थानानि सन्ति। स्थायीअधिकारीपदाय नियुक्तिः भविष्यति। अविवाहितः पुरुषः आवेदनं कर्तुं शक्नोति।

🌷केरळ पब्लिक् सेवाकमिशनेन (PSC) विविधानां पदानां निमित्तम् आवेदनानि आमन्त्रितानि।

धन्यवादः
शुभदिनम्
🌷🌷🌷🌷🌷

अद्यतन वार्ताः – 22-05-2025

🧊🧊🧊🧊🧊
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य द्वाविंशतिः मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) गुरुवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🧊🧊🧊🧊🧊

🧊वेतनवृद्धिं विनियुज्य सचिवालयसमीपे आन्दोलनं कुर्वन्त्याः आशावल्लभानां सह चर्चानास्ति इति मुख्यमन्त्री पिणरायी विजयेन उक्तम्।

🧊राज्यस्य ९४१ ग्रामपञ्चायत्सु वार्डविभाजनं समापितम्।

🧊 राष्ट्रीयमार्गेषु भग्नानि सूक्ष्मतः निरीक्षितानि भविष्यन्ति इति मुख्यमन्त्रिणा निगदितम्।

🧊केरलसर्वकलाशालायां विविधाः अध्ययनविभागेषु चतुर्वर्षीयस्नातकप्रवेशपरीक्षा जूनमासस्य अष्टमे दिने भविष्यति।

🧊२०२५ तमे वर्षस्य NEET-MDS परीक्षाफलम् उद्घोषितम्।

🧊केरलराज्यस्य स्वकीयस्य इन्टरनेट्-सम्पर्कस्य (के-फोन) एकलक्षाधिकं उपभोक्तारः सन्ति।

🧊विधिनियमानुसारं पुनःपरीक्षणं यावत् न सम्पूर्णं भवति तावत् वक़्फ्-भूमितः कोऽपि अपसारितः न भविष्यति इति केन्द्रसरकारः सर्वोच्चन्यायालये निवेदितम्।

🧊 विद्यालयानां समीपे मादकद्रव्यविक्रयिणः व्यापारस्थानानां अनुज्ञापत्रं निरस्तुं मद्यनियन्त्रणविभागः प्रक्रिया आरब्धवान्।

🧊यू.एस्. राष्ट्रपतिना डोनाल्ड् ट्रम्पेन भारतदेशे अप्पिल्-फोनानां निर्माणं न करणीयम् इत्युक्ते अपि, राष्ट्रे अप्पिल्-निवेशाः वृद्धिम् आगताः।

🧊ब्रॉड्बैण्ड्-लैण्ड्लाइन् सम्पर्के विघ्ने कारणीकृते एव बी.एस्.एन्.एल्. संस्थया राजस्वसंग्रहणप्रक्रिया आरब्धा।

🧊 केरलराज्यस्य उच्चशिक्षाविभागस्य अधीनं कार्यरतस्य ASAP-Kerala इत्यस्मिन् जर्मन- ए ऐ कौर्साय ऑनलाइन-आवेदनपद्धतिः उद्घोषिता। आवेदनस्य अन्तिमतिथिः — मेय् मासस्य पञ्चविंशतिः दिने।

🧊रोहित् शर्म-विराट् कोहिली इत्ययोः निवृत्तिसम्बद्धनिर्णयं परित्यज्य पुनः क्रीडायां प्रवृत्तिं स्वीकर्तव्यमिति युक्तम् — इत्युक्तवान् भूतपूर्वभारतीयक्रीडकः युवराज्-सिंहस्य पिता योगराज्-सिंहः।

धन्यवादः
शुभदिनम्