Monthly Archives: March 2026
सभ्यं भवतु भाषणम् (भागः ४३६) 28-03-2026
EPISODE – 436
नूतना समस्या –
“सभ्यं भवतु भाषणम्”
प्रथमस्थानम्
“बन्धश्च बन्धनञ्चैव
भाषणेनैव लभ्यते ।
हित्वा द्विरुक्तिदोषं तत्
सभ्यं भवतु भाषणम्” ॥
Sridevi
“अभिनन्दनानि”
जलमेव जीवनम् । (मार्च् 22 : लोकजलदिनम् )
जलं हि जीवनं प्राहुः
जीविनां प्राणरक्षकम् ।
जीवने पोषणे चैव
जलमेव प्रधानकम् ॥
न केवलं निदाघे तु
सर्वदा जलजीविनाम् ।
जलमवश्यमित्यस्मात्
जलममृतमुच्यते ॥
जलं सकलजन्तूनां
जीवनाय सहायकम् ।
पिपासाशमकं क्षीरं
क्षीणप्रशमकं सदा ॥
हरिद्वारे च गङ्गायां
गोदवर्यां निलातटे ।
नर्मदायां च कावेर्यां
जलं पावनमेव तत्॥
वृक्षाणां चापि सस्यानां
सर्वेषां प्राणिनां तथा ।
जलमेवानिवार्यं हि
सृष्टि स्थिति प्रवर्धने ॥
पञ्चभूतेषु यत् दिव्यं
प्रथमं सर्वतोमुखम् ।
प्रयुज्यते हि सर्वत्र
सलिलं पुण्यकर्मसु ॥
जलमेव परं धर्म :
जलमेव परं धनम् ।
जलं हि सर्वजन्तूनां
सुखाय परिकल्पितम् ॥
अनुस्मार्य तु प्राधान्यं
नीरस्य हि महाजनै:
आयोजितं दिनं कञ्चित्
जलप्राधान्यहेतुकम् ॥
जलं विना न जीवन्ति
नैके भूमिषु जन्तवः ।
किं पुन : लघुसस्यानि
जलाशयसुजीविनः ॥
सर्वभूतहितं चैतत्
सर्वदेहेषु संस्थितम् ।
जलं हि चौषधं प्राहुः
स्वास्थ्यशास्त्रविशारदाः ॥
ग्रीष्मातपे विषण्णानां
शीतं वारि तु भेषजम् ।
पानेन जायते सर्वे
श्रममुक्ताश्च शीतलाः ॥
असाध्यं जीवितं चात्र
सर्वेषां प्रणिनां तथा
तरुवर्गलतादीनां
तस्मात् रक्ष जलं सदा ॥
व्ययीकृतं जलं सर्वं
पुनरायाति भूतलम् ।
वृष्टिहेतोः तथा कूपात्
जलं नाशविहीनकम् ॥
जलादुदयते लोकः
जलेन वृद्धिमेति च ।
अन्ते जलं बुधाः प्राहुः
विश्वस्य नाशकारणम् ॥
आप : वारि जलं प्राहुः
सलिलं कमलं तथा
पयः कीलालममृतं
जीवनंभुवनं वनम् ॥
कबन्धमुदकं पाथः
पुष्करं सर्वतोमुखम् ।
अम्भोर्णस्तोयपानीय
निरक्षिरम्बुशम्बरम् ॥
ग्रन्थे चामरकोशे तु
दत्तानि च पदानि वै ।
जलनामानि नैकानि
साधूनां बोधनाय हि ॥
Vijayan V Pattambi
लक्ष्यं प्राप्नोति मानवः (भागः ४३५) 21-03-2026
EPISODE – 435
नूतना समस्या –
“लक्ष्यं प्राप्नोति मानवः”
प्रथमस्थानम्
“ഗുണവാൻ സ്വാർഥഹീനശ്ച
പരാർഥൈകരതസ്തഥാ
ധൃതിമാൻ സാമ്പ്രതം ലോകേ
ലക്ഷ്യം പ്രാപ്നോതി മാനവഃ“
Bhaskaran N K
“अभिनन्दनानि”
दुःखायैव हि दुर्व्ययः (भागः ४३४) – 14-03-2026
EPISODE – 434
नूतना समस्या –
“दुःखायैव हि दुर्व्ययः”
प्रथमस्थानम्
“ആയവ്യയൗ സമൗ ചേത്തു
സ്വാസ്ഥ്യംസൗഖ്യം ച ജീവിതം
അധികശ്ചേത്വ്യയസ്തത്ര
ദുഃഖായൈവ ഹി ദുർവ്യയ:“
Narayanan N
“अभिनन्दनानि”
अद्यतन वार्ताःl
वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🔹🔹🔹🔹🔹🔹🔹🔹🔹🔹🔹
🌸 इराणदेशः स्वनेतृणां लक्ष्यं कृत्वा नूतनानां प्रहारानाम् अनन्तरं प्रतिकारात्मकाक्रमणानां नवीनीकरणं करोति
🌸पुरुषाणां अपि गौरवः अस्ति : केरल उच्चतमालयः विवाहात् बहिः जातस्य बालस्य जन्मप्रमाणपत्रे पितुः नाम परिवर्तनस्य अनुमतिं ददाति
🌸 पूर्व केन्द्रीयमन्त्री के पी उन्नीकृष्णनस्य ९० वर्षे निधनम्।
🌸निर्वाचनआयोगः पश्चिमबङ्गस्य, तमिलनाडुस्य, असमस्य, केरलस्य, पुडुचेरी-नगरस्य च निर्वाचनदिनानां घोषणां कर्तुं निश्चितः अस्ति
🌸 चीनदेशे विकसितस्य नूतनप्रकारस्य लिथियमबैटरी ईवी-परिधिं दुगुणं कर्तुं शक्नोति
🔹🔹🔹🔹🔹🔹🔹🔹🔹🔹🔹
शुभास्ते सन्तु पन्थानः।
इरिङ्गालक्कुटा – अस्मिन् वर्षे सेवनविरामंं प्राप्तानांं संस्कृताध्यापकानां कृते इरिङ्गालक्कुटा विद्याभ्यासजिल्लायाः संस्कृताक्कादमिककौण्सिल् द्वारा शुभयात्रामङ्गलं समायोजितम्। प्रातः ११ वादने समायोजिते समारोहे जिल्ला विद्याभ्यासाधिकारिणी श्रीमति षैला टि. अध्यक्ष पदमावहत्। श्री महेष्बाबू उद्घाटनमकरोत्। संस्कृताध्यापकाः श्री बिजु के.डि, श्री विवेकः, श्री विक्रमः, श्रीमति पार्वती, श्री रण्जित्, च भाषणमकुर्वन्। सभायां १०० मिताः अध्यापकाः भागभागितामभजन्।
नववाण्याः स्थापकः मुख्यसम्पादकश्च श्री जोस् सि.वि (होलिक्रोस् उच्चविद्यालयः माप्राणम्), श्री मनोज् कुमार् (नायर् समाजं उच्चविद्यालयः वालूर्), श्रीमति राजलक्ष्मी (नाषणल् उच्चतरविद्यालयः इरिङ्गालक्कुटा), श्रीमति बैजु (सर्वाकारीय उच्चतरविद्यालयः करूप्पटन्ना) इति जिल्लायां चत्वारः अध्यापकाः विरामं प्राप्ताः सन्ति ।
जयं प्राप्नोति सज्जनः (भागः ४३३) 07-03-2026
EPISODE – 433
नूतना समस्या –
“जयं प्राप्नोति सज्जनः”
प्रथमस्थानम्
“जेतुं हि यतमाना स्ते
सर्वे स्थानार्थिनः खलु ।
भयं त्यक्त्त्वा विनाशङ्कां
जयं प्राप्नोति सज्जनः” ॥
Vijayan V Pattambi
“अभिनन्दनानि”
वयनाट् मण्डले भूस्खलनेन दुरितमनुभूतानां कृते पुनरधिवासपद्धतिः सफलतां याति
कल्पट्टा – वयनाट् मण्डले मुण्डक्कै-चूरल्मला प्रदेशयोः भूस्खलनेन बहवः जनाः मृताः आसन्। २०२४ जूलै मासस्य ३० तमे दिनाङ्के आसीदियं दुर्घटना। बहूनि गृहाणि वाणिज्यशालाः विद्यालयाश्च अस्यां दुर्घटनायां विनष्टानि अभवन्। तेषु प्राणमात्रावशिष्टानां कृते सर्वकारेण राजनैतिकदलैः सन्नद्धसङ्घटनाभिश्च वहुविधानि साहाय्यानि दत्तानि। मुख्यमन्त्रिणः दुरन्तनिवारणनिधौ सामान्यजनैः साहाय्यानि दत्तानि। प्रायः ७५० कोटि रूप्यकाणि एवं समाहृतानि।
दुरन्तबाधितानां पुनरधिवासाय केरलसर्वकारेण कल्पट्टानगरसमीपं लधुनगरपद्धतिः आयोजिता भवति।
४१० परिवाराणां कृते ४१० भवनानां निर्माणं २०२५ जूलै मासे समारब्धम्। तेषु प्रथमघट्टे १७८ गृहाणां निर्माणं प्रायः सम्पूर्णमभवत्।
अस्याः पद्धतेः भागत्वेन पूर्तीकृतानां भवनानां प्रदानं मार्च् मासस्य प्रखमे दिनाङ्के अस्मिन् लघुनगरे सम्पन्नम्। केरलस्य मुख्यमन्त्री श्री पिणरायि विजयः समारोहस्य उद्घाटनं कृतवान्। राजस्वमन्त्री श्री के राजन् आध्यक्ष्यमावहत्। विधानसभासदस्याः अन्ये मन्त्रिणः तद्देशप्रशासकाः विवधविभागानां सचिवाः मण्डलप्रशासिका राजनैतिकदलनेतारश्च सन्निहिताः आसन्। दशसहस्राधिकं जनाः कार्यक्रमेस्मिन् भागं गृहीताः।
अस्मिन् लघुनगरे गृहाणि विद्यालयः बालवाटिका क्रीडाक्षेत्रम् आतुरालयः व्यायामशाला ग्रन्थालयः वाणिज्यशाला च क्रमीकरिष्यति।
शिष्टानां गृहाणां निर्णाणं झटित्येव पूर्तीकृत्य मासत्रयाभ्यन्तरे वासाय दास्यतीति अधिकारिणः प्रास्तुवन्।













