Category Archives: News Updates

हास्यसम्राट् इन्नसेन्ट् कालयननिकान्तर्गतः।

कोच्ची- कैरलीचलचित्रमण्डले हास्यस्य नूतनं मुखमुद्घाटितवान् इन्नसेन्ट् इति महानटः दिवंगतः। कोच्चीनगरे लेक् षोर् चिकित्सालये रविवासरे रात्रौ १०-३० वादने आसीत् तस्यान्त्यम्। अर्बुदरोगग्रस्तः स दीर्घकालं चिकित्सायामासीत्। अमेरिकापर्यटनानन्तरं न्यूमोणियाबाधया एव वारत्रयात् पूर्वं स चिकित्सालयं नीतः।

चलचित्रनटः, चलचित्रनिर्माता, भूतपूर्वलोकसभासदस्य- श्चासीत् इन्नसेन्ट्। ७०० अधिकेषु चलचित्रेषु स अभिनीतवानयम्। एषु मलयालं, हिन्दी, कन्नट, तमिळ् भाषाचलच्चित्राणि अन्तर्भवन्ति।

सर्वमपि कार्यं हास्यरसपूर्वकम् अवतारयितुं तस्य महत् प्रागद्भ्यमासीत्। स महान् ग्रन्थकारश्चासीत्। कान्सर् वार्डिले चिरि इति स्वकीयम् अर्बुगरोगानुभवपुरस्सरं तेन कृतः ग्रन्थः ७५००० अधिकाः आपणे विक्रीताः।

२०१४ तमे वर्षे वामपक्षीयदलस्य समर्थनेन स चालक्कुटी निर्वाचनक्षेत्रात् लोकसभासदस्यः अभवत्।

विश्व-प्रसन्नता-वृत्तान्तः- फिन्लान्ट् विश्वे सन्तुष्टतमं राष्ट्रम्।

मनिल- विश्वे सन्तुष्टतमं राष्ट्रं फिन्लान्ट् एव। अन्ताराष्ट्र-सन्तोषदिवसे मार्च् २० दिनाङ्के प्रकाशिते विश्वप्रसन्नतावृत्तान्ते अयं विषयः सूचितः। प्रतिशीर्षायः सामाजिकसमर्थनं, आयुर्दैर्घ्यं, स्वातन्त्र्यं, उदारसमुपगमः न्यूनम् अत्याचारम् इत्यादीन् घटकान् परिगणय्य दत्तान् अङ्कान् आधारीकृत्यैव कस्यचन राष्ट्रस्य प्रसन्नतामानं निर्णयति। उन्नताङ्कप्रापकं राष्ट्रम् उन्नतस्थानमलंकरोति। अस्याम् अनुसूचिकायां भारतस्य स्थानं १२६ भवति।

ऐक्यराष्ट्रसभायाः सस्टैनबिल् डेवलप्मेन्ट् सोलूषन् नेट्वर्क् एव प्रतिवर्षं विश्वप्रसन्नतावृत्तान्तं प्रकाशयति। अस्मिन् विषये १५० अधिकेषु राष्ट्रेषु जनेभ्यः अभिप्रायं स्वीकरोति।

नेपाल्, चीना,बङ्ग्लादेश्, श्रीलङ्का इत्यादिराष्ट्राणां पश्चादेव भारतस्य स्थानम्।

ओस्कार् पुरस्कारे भारतस्य श्रेष्ठता।

लोस् आञ्जलिस्- पञ्चनवतितमे ओस्कार् पुरस्कारे भारतस्य ऐतिहासिकः प्रभावः। श्रेष्ठवृत्तचित्रस्य कृते पुरस्काराय द एलिफेन्टे विस्परेस् इति वृत्तचित्रं चिकम्। अस्य निदेशकः कार्तिकी गोल्साल्वोस् भवति। उपेक्षितौ द्वौ गजौ तयोः संरक्षकौ दम्पती च, तेषां परस्परम् अभेद्यबन्ध एवास्मिन् वृत्तचित्रे प्रमेयः।

आर् आर् आर् इति चलचित्रे नाट्टु नाट्टु इति गानं श्रेष्ठगानविभागे पुरस्कृतम्। एं एं कीरवाणी एवास्य गानस्य संगीतनिदेशकः। गानरचयिता चन्द्रबोस् भवति। २००८ वर्षानन्तरं अस्मिन् वर्षे एव श्रेष्ठगानपुरस्कारं भरतमायाति

अमेरिक्कीयगणितशास्त्रज्ञैः संगमग्राममाधवः अङ्गीकृतः।

तृशूर्- चतुर्दशशताब्दौ केरलेषु इरिङ्ङालक्कुटा देशे जिवितः संगमग्राममाधवः इति भारतीयगणितशास्त्रज्ञः अमेरिक्कीयगणितशास्त्रसमाजेन अङ्गीकृतः। अमेरिक्कायां प्रसिद्धे कोर्णल् विश्वविद्यालये प्रवाचकः प्रो- स्टीवन् स्ट्रोगाट्स् वर्येण ट्विट्टर् द्वारा सूचितः अयं विषयः।

ऐसक् न्यूट्टन् वर्यात् शताब्देःप्रागेव त्रिकोणमितेः सैन् धारा केरलीयेन संगमग्राममाधवेनैव अनावृता इति ट्विट्टर् द्वारा सूचितवान् स्टीवन् वर्यः तत्सम्बन्धि वीडियो चित्रमपि तत्रैव स्थापितवान्। अमेरिक्कीयाः गणितशास्त्रज्ञाः अद्भुतेनैतत् अङ्गीकृतवन्तः।

इरिङ्ङालक्कुटा समीपे कल्लेट्टुंकरा देशे इरिङ्ङाटप्पिल्लि गेहे लब्धजन्मा माधवः एव संगमग्राममाधवः इति प्रसिद्धः भारतीयगणितशास्त्रज्ञः। अनन्तश्रेणी इत्याशयः प्रथमतया अनेनैव आविष्कृतः। तद्वारा वृत्तपरिधिनिर्णयः सुकरः अभवत्।

संस्कृताध्याापकपरिशीलनवर्गः समारब्धः।

SCERT संस्थायाः नेतृत्वे नवाध्यापकपरिशीलनवर्गः पालक्काट् जिल्लायां मुण्डूर् ग्रामे IRTC केन्द्रे समारब्धः। षड्दिवसीयेस्मिन् परिशीलनवर्गे पञ्चाशदधिकाः संस्कृताध्यापकाः वर्तन्ते। आवासीयरीत्या आयोजिते∫स्मिन् वर्गे प्रातः षट् वादनादारभ्य रात्रौ दशवादनपर्यन्तं  कार्यक्रमाः विद्यन्ते।

  परिशीलनवर्गस्यास्य औपचारिकोद्घाटनं मुण्डूर् ग्रामपञ्चायत्त् अध्यक्षा श्रीमती सजिता एम्. के. कृतवती। ब्लोक् विकसनकार्याध्यक्षा प्रिया ओ.वि, पालक्काट् विद्याभ्यास उपडयरक्टर् श्री पि.वी. मनोज़कुमार्, अध्यापकप्रशिक्षणकेन्द्रस्य अध्यापिका श्रीमती के.वि. राधा च भाषणं कृतवन्तः।

    SCERT संस्कृतविभागस्य गवेषकः श्री श्रीकण्ठः परिशीलनवर्गस्य समायोजकः भवति। परिशीलनवर्गे विशिष्टव्यक्तीनां नेतृत्वे प्रशिक्षणं, सांस्कृतिककार्यक्रमाः, कायिकक्षमतावर्धनं, पठनयात्रा च समायोजितमस्ति।

पि टि कुरियाक्कोस् स्मारकप्रभाषणम् अद्य सम्पत्स्यते।

तृशूर्- पि टि कुरियाक्कोस् स्मारक राज्यान्तरप्रभाषणम् अद्य केन्द्रिय संस्कृत-विश्वविद्यालयस्य पावरट्टि परिसरे कुरियाक्कोस् स्मृतिभवने सम्पत्स्यते। अद्य प्रातः परिसरनिदेशकः ललितकुमार् साहु वर्यः प्रभाषणस्य उद्घाटनं निर्वक्ष्यति।

संस्कृतप्रणयभाजनम् इति पुन्नश्शेरि नीलकण्ठशर्मवर्येण पुरस्कृतः कुरियाक्कोस् वर्यः १९०९ तमे वर्षे पावरट्टि देशे साहित्यदीपिका संस्कृत विद्यालयं संस्थापितवान्। १९७३ तमे वर्षे विद्यालयोयं अनेन स्वेच्छया सर्वकाराय समर्पितः। ५०वर्षानन्तरं इयं संस्था केन्द्रिय-संस्कृत-विश्वविद्यालयस्य परिसररूपेण विराजते।

चलचित्रमण्डले दादासाहेब् फाल्के पुरस्कारः घोषितः। कैरलीचलचित्रे दुल्खर् सल्मान् पुरस्कृतः।

नवदिल्ली- २०२२ वर्षस्य दादासाहेब् फाल्के पुरस्कारः घोषितः। दक्षिणभारतात् दुल्खर् सल्मान् तथा ऋषब् षेट्टी च पुस्काराय अर्हावभवताम्।

गतवर्षे निर्मिते चुप् इति चलचित्रे निषेधी नायकरूपेण अभिनयस्य कृते एव दुल्खर् सल्मानस्य पुरस्कारः। डानि इति कथापात्रं स्वाभिनयेन महत्तरं कृतवान् दुल्खर् सल्मान्।

गतवर्षे एव निर्मिते कान्तार इति चलचित्रे अभिनयायैव ऋषब् षेट्टी पुरस्कृतः।

शिक्षाविभागस्य घटनां परिवर्तयति। डि-इ-ओ-, ए-इ-ओ- कार्यालयाः न भविष्यन्ति।

तिरुवनन्तपुरम्- केरलराज्ये विद्यालयानाम् एकीकरणविषये खादर् समितेः आवेदनस्य क्रियान्वयनाय यत्नः आरब्धः। अस्य भागत्वेन राज्ये उपशिक्षाधिकारिणः (ए-इ-ओ) मण्डलशिक्षाधिकारिणः (डि-इ-ओ-)च कार्यालयाः न भविष्यन्ति। तत्स्थाने ब्लोक्, महानगरप्रदेशेषु विद्यालयीय शिक्षाधिकारिणां ( एस् इ ओ) कार्यालयाः एव आवेदिताः।

मण्डलस्तरे शिक्षा उपनिदेशकानां (डि डि इ) कार्यालयाः अतिरिक्तनिदेशकानां (जोयिन्ट् डयरक्टर् ) कार्यालयरूपेण परिवर्तयन्ति।

अनेन राज्ये प्राक्-प्राथमिककक्ष्यातः उच्चतरकक्ष्यापर्यन्तं प्रशासनं एकतन्त्वात्मकं भविता। वोक्केशनल् हयर् सेक्कन्टरि विभागाय पृथक् प्राशासनिक व्यवस्था न भविष्यन्ति च।

५९०६ अध्यापकपदवीः स्रक्ष्यते। वित्तविभागस्य अङ्गीकारात् परं नियुक्तिर्भविता।

तिरुवनन्तपुरम्० २०२२-२३ अध्ययनवर्षस्य पदवीनिर्णय‌ः सुसम्पन्नः। २३१३ विद्यालयेषु सृजनीयपदव्याः संख्या ६००५ भवति। ११०६ सर्वकारीणविद्यालयेषु ३०८० पदव्यः १२०७ धनादत्तविद्यालयेषु २९२५ पदव्यश्च सृजनीयाः सन्ति। एषु अध्यापकपदव्यः ५९०६, अनध्यापकपदव्यः ९९ चेति शिक्षा वृत्तिविभागमन्त्री वी शिवन् कुट्टि वर्यः अवदत्।

अधिकपदव्यः अधिकाः मलप्पुरं मण्डले वर्तन्ते। तत्र सर्वकारीणक्षेत्रे ६९४, धनादत्तक्षेत्रे ८८९ च तत्र सृजनीयाः सन्ति। पत्तनंतिट्ट मण्डले एव पदव्यः न्यूनाः भवन्ति।

तुर्की-सिरिया भूकम्पः, २-३ कोटि जनाः दुरितावस्थायाम् , प्रासादावशिष्टेषु जीवस्य स्पन्दनम्।

आन्ताक्य- हिमपातं वृष्टिं च सोढ्वा विद्यालयेषु आराधनालयेषु बस् निस्थानेषु च सहस्रपरिमिताः जनाः अभयं प्रापयन्। हसेतलब्धेषु वस्तुषु अग्निं प्रज्वाल्य शीतं दूरीकुर्वन्ति। स्फोटनात् भीतैः अधिकारिभिः प्रकृतिवातकनाल्यः पिहिताः। गासियेन्टप् परिसरेषु आपणानि पिहितानि सन्ति। तैलेन्धनमपि नोपलभ्यते।

भूकम्पात् रक्षां प्राप्तः इत्याश्वासं विहायः इतःपरं कथं जीविकां नेतुं शक्यते इत्याशङ्कायामस्ति सहीति सुत्कु इति तद्देशीयः। स्वेन सञ्चितं सर्वं विनष्टं। इतरे इव समीपस्थे विमानपत्तने एकेन कम्बलपटेन आवृत्य शेते द्वाभ्याम् अर्बकाभ्यां समेतःसः।

रक्षादौत्ये सञ्जाते कालविलम्बे सर्वे भग्नाशाः सन्ति। प्रासादावशिष्टेभ्यः मया भ्रातरः न लब्धाः। मया पिता न लब्धः, ममपुत्रं न दृश्यते इत्यादि रूपेण विलपन्ति अभयार्थिनः। रक्षाप्रवर्तनानि प्रतीक्ष्य तद्देशीयाः कोलहलमकुर्वन्। रक्षिपुरुषाः आहत्य रंगं शान्तमकुर्वन्।