Category Archives: News Updates
सेप्तम्बर् 21 तः विद्यालयानां पुनरुद्घाटनाय केन्द्रसर्वकारस्य निर्णयः. स्वास्थ्यमन्त्रालयस्य नूतना मार्गरेखा।
नवदिल्ली- राष्ट्रे विद्यालयानां प्रवर्तनं सप्तम्बर् 21 तः पुनरारब्धुं केन्द्रसर्वकारः निरणयत्। केन्द्रीय स्वास्थ्य-परिवारक्षेममन्त्रालयः एतत्सम्बन्धिनीं मार्गरेखां प्रादर्शयत्। पुनरुद्घाटनस्य चतुर्थसोपाने एव विद्यालयानां प्रवर्तनाय अनुमतिः।
नियन्त्रितमेखलायाः बहिः प्रदेशस्थाेषु विद्यालयेषु नवमतः दावादशपर्यन्तं वर्गाः एव प्रवर्तनम् आरभन्ते। मुखावरणस्य उपयोगः, छात्राणां मिथः षट्पादपरिमितम् अन्तरः, अणुनाशकद्रावकाणामुपयोगः, आरोग्यसेतुः इति मोबैल् आप् इत्यादिकं अवश्यंभावि। सार्वजनीनस्थलेषु निष्ठीवनं निषिद्धं कल्पितम्।
अस्मिन्नन्तरे कोविड् महामारिमभिलक्ष्य समारब्धाः अधिजालिकशिक्षाः अनुवर्तन्ते, सर्वे एतदर्थं प्रोत्साहनं दद्युः इत्यपि मार्गरेखायामस्ति।
अन्ताराष्ट्रविपणिमनुसृत्य तैलेन्धनमूल्ये परिवर्तनमावश्यकमिति सर्वोच्चन्यायालये आवेदनम्।
नवदिल्ली- पेट्रोल् डीजल् प्रभृतीनां तैलेन्धनानां मूल्यनियन्त्रणात् सर्वकाराणां प्रतिनिवर्तनं पुनःशोधनीयम् इति सूचयन् सर्वोच्चन्यायालये सार्वजनीनहितावेदनं समर्पितम्।अन्ताराष्ट्रविपण्याम् असंस्कृततैलस्य मूल्ये अपचये अत्र उपभोक्तृभ्यः तस्यानुकूल्यं न दीयते। तेभ्योपि आनुकूल्यम् आवश्यकमिति सूचयन् तृशूर् देशीयः षाजी. के. कोडङ्कत् वर्यः एव सर्वोच्चन्यायालयम् अभ्युपगतः। न्यायाधीशः आर्. एफ् नरिमान् वर्यस्य आध्यक्ष्ये आयोजितं संवेशनं कुजवासरे अस्मिन् व्यवहारे वादं श्रोष्यति।
तैलेन्धनानां करनिश्चयः असंस्कृततैलानां मूल्यमनुसृत्य न भवेत्। करनिर्णये सर्वकार एव अधिकारी। पेट्रोल् डाजल् इत्यादीनां मूल्यवर्धितकरः (वाट्) न्यूनीकरणीयः इत्यपि निषे राजन् इत्यभिभाषकद्वारा समर्पिते आवेदने सूचयति। अधुना मूल्यस्य 25 प्रतिशतमेव तैलेन्धनानां मूल्यवर्धितकरः।
सर्वकारस्वामिता अधिकतयास्थिताः तैलसंघाः प्रतिदिनं तेलमूल्यं वर्धापयन्ति। अन्ताराष्ट्रविपण्याम् असंस्कृततैलस्य मूल्यं सार्वकालिकापचये तिष्ठति। तथापि अत्र इन्धनमूल्ये वर्धनमस्ति।
राष्ट्रपुनर्निर्माणे शिक्षकाणां योगदानं महत्तरम्-प्रधानमन्त्री।
दिल्ली- राष्ट्रपुनर्निर्माणे शिक्षकाणां योगदानं महत्तरमेवेति प्रधानमन्त्री नरेन्द्रमोदीवर्यः न्यगादीत्। अध्यापकदिनमालक्ष्य दत्ते सन्देशे एव प्रधानमन्त्रिणः एष परामर्शः। अस्मिन् सन्दर्भे डो. सर्वप्पल्ली राधाकृष्णवर्यं कृतज्ञतया स्मरति इत्यपि प्रधानमनत्री ट्विट्टर् मध्ये सूचितवान्।
मानसं रूपवत्कर्तुं तथा राष्ट्रं पुनर्निर्मातुं च कठिनप्रयत्नानाम् अध्यापकानां योगदानाय वयं कृतज्ञाः सन्ति। शिक्षकदिवसे शिक्षकाणां परिश्रमेभ्यः कृतज्ञताम् अर्पयामीति मोदीवर्यः ट्वीट् कृतवान्।
उपनिर्वाचनाानि नवम्बर् मासे पूर्तीकरिष्यन्ति इति निर्वाचनायोगः।
दिल्ली- उपनिर्वाचनानि नवम्बर् मासे पूर्णतां यास्यन्तीति केन्द्रिय निर्वाचनायोगः असूचयत्। दिनाङ्कः अनन्तरम् उद्घोषयिष्यति। केरलेषु चवरा, कुट्टनाट् इति द्वे क्षेत्रे अनुसूचिकायामस्ति। विहार् विधानसभा निर्वाचनेन साकम् उपनिर्वाचनानि अपि भविष्यन्तीति निरवाचनायुक्तस्य सूचना।
कोविड् व्यापनस्य साहचर्यमस्ति चेदपि उपनिर्वाचनानि न हातव्यानि इति निर्वाचनायुक्तस्य अभिप्रायः। कोविड्, अतितीव्रवृष्टिः इत्यादीनां भूमिकायाम् उपनिर्वाचनानि परिवर्तनीयानि इति कानिचन राज्यानि निर्वाचनायुक्त अभ्यर्थयन्। अद्य आयोजितम् अधिवेशनम् एतदधिकृत्य चर्चां कृत्वा परिवर्तनीयस्य आवश्यकता नास्तीति निरणयत्।
2020वर्षस्य श्रेष्ठचिन्तकेषु केरलीयस्वास्थ्यमन्त्रिणी प्रथमस्थाने।
तिरुवनन्तपुरम्- केरलीय स्वास्स्थ्यमन्त्रिणी के.के. शैलजावर्या 2020 श्रेष्ठचिन्तकेषु प्रथमस्थाने चिता। ब्रिट्टने प्रोस्पेक्ट् नामिकया मासपत्रिकया आयोजिते छन्दाकलने एव श्रीमती शैलजावर्या प्रथमस्थानमाप्तवती। कोविड् प्रतिरोधप्रवर्तनानि अभिलक्ष्यैव अस्याः अयमङ्गीकारः। चिन्तकानाम् अनुसूचिकीसु द्वितीयस्थाने न्यूसिलान्ट् राष्ट्रस्य प्रथानमन्त्री जसीन्ता आर्डन् वर्या तिष्ठति।
विंशतिसहस्रं जनाः मतानि दत्वा एव विश्वे प्रसिद्दानां 50 चिन्तकानाम् अनुसूची सज्जीकृतवन्तः। भारते प्रथमं कोविड् रोगस्य आवेदनं केरलराज्ये एव संजातम्। अत्र रोगव्यापनस्य नियन्त्रणे मरणन्यूनीकरणे च मन्त्रिण्याः प्रवर्तनेन साध्यमभवदिति प्रोस्पेक्ट् मासिकी वदति।
चीनीदेशे यदा प्रथमं कोविड् आवेदितमं तदा एव अस्य प्राधान्यं ज्ञात्वा प्रवर्तितुं मन्त्रिणी शक्ता अभवत्। विश्वस्वास्थ्यसंस्थानस्य मार्गनिर्देशान् परिपाल्य प्रतिरोधप्रवर्तनेषु नेतृत्वं विधातुमपि सा शशाक। 2018 तमे वर्षे निपा विषाणोः प्रतिरोधाय कृतं प्रवर्तनमपि मासिकी असूचयत्।
2020 डिसम्बर् मासावधिकेन सर्वाः रेल्यानसेवाः पुनस्स्थाप्यन्ते।
देहली- राष्ट्रे डिसम्बर् मासावधिकेन सम्पूर्णरूपतया रेलयानसेवां पुनरारब्धुं रेल्वे मन्त्रालयः सन्नद्धः। अस्य भागत्वेन 100 रेल्यानासेवा अपि अचिरेण पुनस्स्थापयिष्यति। नूतनोयं निर्देशः गृहमन्त्रालयस्य अङ्गीकारार्थं समर्पितः।
कोविड् कालेपि सुरक्षितया रीत्या सेवां क्रमीकर्तुं शक्यते इति रेल्वे मन्त्रालयस्य सन्नाहः। साममाजिक अन्तरं तथा अन्याः न्बन्धनाश्च परिपाल्य एव सेवा पुनस्स्थाप्यते। एतदर्थं आगामी मार्च् मासपर्यन्तं विशेषशुल्कं स्वीकृत्य सेवांम् आर्भते।
पुनरुद्घाटनस्य चतुर्थसोपाने अचिरेण 100 रेल्यानसेवा तथा पञ्चमे सोपाने प्रथमं 250 रेल्यानसेवा च पुनस्स्थाप्यते। केन्द्रीय गृहमन्त्रालयाय एतत्सम्बन्धी निर्देशः ह्यस्तने दत्तः।
राष्ट्रपतिचरः प्रणव् मुखर्जीवर्यः ऐहिकं देहं तत्याज।
दिल्ली- भूतपूर्वराष्ट्रपतिः प्रणव् मुखर्जीवर्यः निर्यातः। स 84 वयस्कः आसीत्। देहल्यां सैनिकचिकित्सालये चिकित्सायामासीत्। तस्मिन् कोविड् रोगः स्थिरीकृतः आसीत्। मस्तिष्के रक्तस्रावेन द्रुतशस्त्रक्रियार्थं नीतः तदनन्तरं कृतकजीवसन्धारणे आसीत्। दिनानि यावत् गुरुतराम् अवस्था सन्तीर्य अद्य मृत्यवे वशंवदो जातः।
अर्धशतकं यावत् भरतस्य राजनैतिकक्षेत्रे अतुलं योगदानम् अनेन दत्तम्। तस्मिन् शासनचातुर्यं प्रायोदिकराजनैतिकतां च समञ्जसेन मेलितमासीत्। केन्द्रीय मन्त्रिमण्डले बहुवारं स अङगमासीत्। अतः प्राय सर्वेष्वपि विभागेषु स स्वकीयं शासनसामर्थ्यं प्राकटयत्।
2012 तमे वर्षे स भारतस्य राष्ट्रपतिपदे नियुक्तः। पञ्चवर्षाणि यावत् राष्ट्रपतिपदे स शुशुभे। तथापि कोविड् महामारिणा स कालकबलीभूतो अभवत्।
अद्य श्रावणोत्सवः, अस्माकं देशीयोत्सवः।
पुनरुद्घाटनं चतुर्थसोपानम् प्रख्यापितम्- मेट्रो रेल्यानसेवा अनुमिता। परिमित्या अधिवेशनस्य अनुमतिः।
नवदिल्ली- कोविड्प्रतिरोधाय पिहिते राष्ट्रसौविध्ये पुनरुद्घाटनस्य चतुर्थसोपानार्थं मार्गरेखा केन्द्र गृहमन्त्रालयेन उद्घोषिता। सोप्तम्बर् प्रथमतः त्रिंशत् दिनाङ्कपर्यन्तमेव पुनरुद्घाटनं चतुर्थसोपानम्। विद्यालयाः दृश्यशालाःव्यायामशालाश्च पिहिताः एव स्थास्यन्ति। नवमतः द्वादशपर्यन्तं वर्गेषु पठनं कुर्वन्तः छात्राः विद्यालयं प्राप्य शिक्षकैः साकं संशयनिवृत्तिः तथा उपदेशस्वीकारं च कर्तुं पारयन्ति। एतदर्थं रक्षाकर्तृृणामनुमतिः लिखितरूपेण दातव्यम्। नियन्त्रितमेखलायाम् अस्यानुमतिः न भविता। जालाधारितकक्ष्या प्रभृतीनां सेवानां कृते विद्यालयेषु सेप्तम्बर् 21 प्रभृति 50 प्रतिशतं शिक्षकेभ्यः आगन्तुम् अनुमतिः प्रदत्ता।
सेप्तम्बर् सप्तमतिथेरारभ्य मेट्रो रेल्सेवा भविता। 21 तः आरभ्य सार्वजनीनाधिवेशनाय सोपाधिकी अनुमतिः प्रदत्ता। राजनैतिक- विनोद- कायिक- धर्मपर- सामाजिक-सास्कृतिककार्यक्रमान आयोजयितुं शक्यते। अत्र अङ्गानां संख्या एकशते परिमिता। कोविड् मानदण्डानुसारमेव कार्यक्रमाः आयोजनीयाः। सेप्तम्बर् 30 पर्यन्तं नियन्त्रितमेखलासु नियन्त्रणानि अनुवर्तेरन्।
पोपुलर् फिनान्स् इति आर्थिकनिर्वादव्यवहारे संस्थास्वामिनौ गृहीतौ।
तिरुवनन्तपुरम्- कोन्नी स्थले प्रवर्तमाने पोपुलर् फिनान्स् इति संस्थाने प्रवृत्तम् आर्थिकनिर्वादमभिलक्ष्य संस्थायाः स्वामिनौ गृहीतौ। प्रबन्धकनिदेशकः तोमस् डानियेल् तस्य पत्नी तथा प्रबन्धकसहयोगी च प्रभा डानियेल् इत्येतौ चङ्ङनाश्शेरि स्थले आरक्षिभिः गृहीतौ इति मुख्यमन्त्री वार्ताहरसम्मेलने असूचयत्।
इमं व्यवहापमन्वेष्टुं पत्तनंतिट्टामण्डलस्य आरक्षिदलाधिकारिणः के.जी. सैमण् वर्यस्य नेतृत्वे २५ अङग अन्वेषणसंघः रूपीकृतः इत्यपि मुख्यमन्त्री अवदत्। दक्षिणमेखला आरक्षिदलनेत्री श्रीमती हर्षिता अट्टल्लूरी वर्या अन्वेषणप्रगतिम् अवलोकयिष्यति। अस्य आर्थिकनिर्वादस्य प्रभावः विदेशेष्वपि वर्तते इत्यतः इन्टर् पोल् इत्यन्वेषणसंधस्य साहाय्यमपि मार्गयतीत्यपि मुख्यमन्त्री अवदत्।
कोन्नी वाकयार् आस्थानत्वेन प्रवृत्तमानायाम् अस्यां संस्थायां २००० कोटि रूप्यकाणां आर्थिकनिर्वादमस्तीति आरक्षिदलेन सूचितम्।













