Daily Archives: July 10, 2024

डा-हरिप्रसाद् कटम्बूर् वर्याय साहित्यप्रतिभापुरस्कारः।

कण्णुर्- संस्कृताध्यापकः तथा ज्योतिषवाचस्पतिश्चासीत् कोय्यं के-वि- कुञ्ञिरामन् मास्टर् वर्यः। स्वर्गीयस्य तस्य नाम्नि पारिवारिकाः स्मारकसमितिश्च सम्भूय समायोजितः साहित्यप्रतिभापुरस्कारः डा- हरिप्रसाद् कटम्बूर् वर्याय दीयते। संस्कृतपण्डितः साहित्यकारः तथा तिरुवङ्ङाट् सर्वकारीय उच्चतरविद्यालये संस्कृताध्यापकश्च भवति डा वि टि हरिप्रसाद् वर्यः।

५००१ रूप्यकाणि प्रशस्तिपत्रं च पुरस्कारे अन्तर्भवति। कुञ्ञिरामन् मास्टर् वर्यस्य मृतिवार्षिकदिनाङ्के जूलै १२ दिने मय्यिल् देशे तस्य स्मारकमन्दिरे समायोज्यमाने समारोहे मण्डल वैद्यकीय अधिकारी डा पीयूष् एं नम्पूतिरिः पुरस्कारं समर्पयिष्यति। ततः अनुस्मरणसम्मेलनम् कवियरङ्ङ्, अक्षरश्लोकसभा च प्रचलिष्यति।