Monthly Archives: June 2024

कोषिक्कोट् नगरं राष्ट्रे प्रथमं साहित्यनगरम्।

कोषिक्कोट्- युनेस्को संस्थया साहित्यनगरम् इति प्रख्यापितं कोषिक्कोट् नगरं तस्यां पदव्यां प्रविष्टम्। रविवासरे सायं तलि मुहम्मद् अब्दुरहिमान् स्मारकवेदिकायां समायोजिते समारोहे तद्देशप्रशासनविभागस्य मन्त्री एं बी राजेष् वर्यः एतत्संबन्धिनम् औद्योगिकं प्रख्यापनमकरोत्। अनेन साहित्यनगरम् इति पदव्यां प्रविष्टं भारतस्य प्रथमं नगरमभवत् कोषिक्कोट्।

२०२३ ओक्टोबर् ३१ तमे दिनाङ्के एव कोषिक्कोट् नगरं साहित्यनगरत्वेन युनस्को संस्थया अङ्गीकृतम्।एतदनुबन्धितया चतुर्वर्षीयान् कार्यक्रमान् आयोजयिष्यति।

कष्टं नष्टं तु यौवनम् (भागः ३४५) 29-06-2024

EPISODE – 345

नूतना समस्या –

“कष्टं नष्टं तु यौवनम्”

പ്രഥമസ്ഥാനം

“നേത്രം ശ്രോത്രം തഥാ ഗാത്രം
വിചിത്രം സ്ഥവിരസ്യ ഹാ!
ഗതിസ്മൃതിശ്ച തദ്വച്ച
കഷ്ടം നഷ്ടം ഹി യൗവനം”

Aparna

“അഭിനന്ദനങ്ങൾ”

 

वाचनेनैव वर्धते (भागः ३४४) 22-06-20224

EPISODE – 344

नूतना समस्या –

“वाचनेनैव वर्धते”

प्रथमस्थानम्

“जिज्ञासा लोकविज्ञानं
भाषाभाषणदक्षता ।
कार्याकार्यविवेकश्च
वाचनेनैव वर्धते ॥”

Sridevi

“अभिनन्दनानि”

 

डा के जि पौलोस् वर्यः केन्द्र साहित्य अक्कादमीसंस्थया भाषासम्मान् पुरस्कारेण समादृतः।

नवदिल्ली- केन्द्रीय साहित्य अक्कादमी संस्थायाः अस्य वर्षस्य भाषासम्मान् पुरस्काराय सुप्रसिद्धः संस्कृतपण्डितः तथा वाग्मी डा के जि पौलोस् वर्यः अर्हः अभवत्। केरलेषु संस्कृतभाषाप्रचारणाय प्रवर्तमानानां मध्ये प्रथमगणनीयो भवत्ययम्। संस्कृतकलालयेषु संस्कृकविश्वविद्यालये च प्राध्यापकत्वेन कार्यं कृतवानयम्।

योगः सर्वजनप्रियः (भागः ३४३) 15-06-2024

EPISODE – 343

नूतना समस्या –

“योगः सर्वजनप्रियः”

प्रथमस्थानम्

“भीतिं करोति लोकेषु
भोगस्तु रोगकारकः ।
कुर्वाणो शाश्वतं सौख्यं
योगः सर्वजनप्रियः ॥”

Narayanan Namboothiri

“अभिनन्दनानि”

 

वृक्षमेकं हि रोपयेत् (भागः ३४२) 08-06-2024

EPISODE – 342

नूतना समस्या –

“वृक्षमेकं हि रोपयेत्”

प्रथमस्थानम्

“वायुं भोज्यं च छायाञ्च
यो ददन्नस्ति सर्वदा ।
लोकोपकारकं शीघ्रं
वृक्षमेकं हि रोपयेत् “॥

Ramachandran

“अभिनन्दनानि”

 

प्रार्थये सुमङ्गलम् ।

मित्रका : ! मित्रकाः ! पाठशालां गच्छत
वर्णवस्त्रभूषिताः नव्यस्यूतसंयुताः ।

छत्रमेकं टोपिकाञ्च सञ्चयन्तु सत्वरम्
वर्षकालमस्ति मित्राः ! वर्षणं भविष्यति ।

सावधानं गच्छत यानमार्गमाश्रिताः
प्राप्य लक्ष्यं चावतरन्तु चोत्तमाश्च निर्भयम् ।

गुरुवरान् प्रणम्य भोः वर्गमेत्य सत्वरम्
आश्रयन्तु स्वस्यस्थानमाचरन्तु प्रार्थनाम् ।

संस्कृतं पठन्तु मित्राः संस्कृतं महत्तमम्
सर्वलोकवन्दितं सज्जनैः प्रवर्धितम् ।

संस्कृतेन सन्ततं भाषणं च मित्रकै :
संस्कृतेन सर्वमस्तु संस्कृतेन रक्ष्यते ।

व्यवहरन्तु साधु रीत्या सर्वकालं मित्रका :
उत्तमोत्तमाश्च सन्तु प्रार्थये सुमङ्गलम् ॥

विजयन् वि पट्टाम्पि ।