Category Archives: News Updates
अन्तिमपादपरीक्षा अवश्यम् आयोजनीया- सर्वोच्चन्यायालयः।
नवदिल्ली- विश्वविद्यालयैः अन्तिमपादस्नातकपरीक्षा ध्रुवम् आयोजनीया इति सर्वोच्चन्यायालयः। परीक्षादिनाङ्कानाम् आयामार्थं राज्यानि विश्वनिद्यालयान् निर्देष्टुं श्क्यन्ते इत्यपि न्यायालयः शुक्रवासरे व्यक्तमकरोत्।
अन्तिमपादपरीक्षाणाम् आयोजनमनुबन्ध्य विश्वविद्यालयनुदानायोगस्य निर्देशान् विरुध्य समर्पिते आवेदने विधिनिर्णयं कुर्वन्नासीत् न्यायालयः।अशोक् भूषण्, सुभाष् रेड्डी, एम् आर् षा इत्येते न्यायाधिपाः सन्निहिताः आसन्।
सेप्तम्बर् 30 दिनाङ्काभ्यन्तरे परीक्षाः आयोजनीयाः इत्यासीत् विश्वविद्यालयानुदानानयोगस्य निर्देशः। एतत् परिवर्तनार्थं राज्यानि विश्वविद्यालयं निर्दिशन्तु इति सर्वोच्चन्यायालयः असूचयत्।
भारतस्य आर्थिकव्यवस्थायां समस्यायाः कारणं सर्वकारेण आयोजितं पूर्णपिधानमिति सर्वोच्चन्यायालयः।
नवद्ल्लीः सम्पूर्णपिधानं कर्शनरूपेण आराष्ट्रम् आयोजितम् इत्यतः भारतस्य आर्थिकव्यवस्थायां समस्याः सञ्जातेति सर्वोच्चन्यायालयेन निरीक्षितम्। कृष्णागार देयमधिकृत्य सत्यप्रस्तावना समर्पणे कालविलम्भं मा भूदिति न्यायालयः केन्द्रसर्वकारं निरदिशत्।
रिसर्व बेंकेन निर्णयः स्वीकृतः इति सर्वकारः। परन्तु न्यायालयः रिसर्वबेङ्कं प्रत्युत्तराय निरदिशत्। तत्र सर्वकारः रिजर्वबेङ्कस्य पश्चात् निलीय तिष्ठति इत्यपि न्यायालयेन सूचितम्। ऋणप्रत्यर्पणसमये वृद्धिस्वीकाररीतिं समाक्षिप्य न्यायालयेन वादः श्रूयते।
केरलविधानसभायाः विशेषाधिवेशनम् समारब्धम्, सर्वकारं विरुध्य अविश्वासाव्याक्षेपं प्रस्तोतुं विपक्षसन्नाहः।
तिरुवनन्तपुरम्- केरलविधानसभायाः विशेषाधिवेशनं समारब्धम्। प्रातः नववादने आर्थिकविधेयकस्य अवतारणं प्रचलति। सुवर्णप्रेषणविवादस्य भूमिकायां सर्वकारं विरुध्य विपक्षदलं सभायाम् अविश्वासाव्याक्षेपं प्रस्तोष्यति। प्रातः दशवादने ्व्याक्षेपमधिकृत्य चर्चा प्रचलिष्यति।
कोण्ग्रेस् दलसदस्यः वि.डि. सतीशन् वर्येण प्रस्तूयमाने अव्याक्षेपे पञ्चहोरापरिमितेन समयेन चर्चां समापयिष्यति। अविश्वासाव्याक्षेपंस्य समर्थनाय ऐक्य-प्रजातन्तरसख्यस्य सर्वान सदस्यान् संघनेता निरदिशत्। परन्तु तत्र केचन अस्य समर्थनं न विधास्यन्ति इति सूचना अस्ति।
कोविड् व्यापनं वर्षद्वयाभ्यन्तरे नियन्त्रणविधेयम भविष्यति इति विश्व-स्वास्थ्य संघटना।
जनीवा- कोविड् रोगव्यापनं वर्षद्वयाभ्यन्तरे नियन्त्रणविधेयं भविष्यतीत्येव प्रतीक्षा इति विश्वस्वास्थ्यसंघटना नेता टेड्रोस् अथानों गेब्रियेसस् वर्यः अवदत्। 1918 तमे वर्षे व्यापितं स्पानिष् फ्लू नामकस्य आमयस्य शमनार्थं वर्षद्वयं यावत् प्रतिपालितम् इत्यपि तेन सूचितम्। परन्तु तदानीन्तनाम् अवस्थामपेक्ष्य अधुना तान्त्रिकविद्यायाः प्रभावेण रोगव्यापनम् अल्पेन कालेन रोद्धव्यमासीत् इत्यपि स अवादीत्।
अधुना जनानां परस्परमेलनस्य साहचर्यम् अधिकं वर्तते इत्यतः विषाणुव्यापनस्य साध्यता अपि अधिका भवति। सममेव एतत् प्रतिरोद्धुं तान्त्रिकतासाध्यता अपि विश्वे वर्तते। राष्ट्रीयैक्यं तथा आगोल-ऐक्यदार्ढ्यस्य प्राधान्यमपि तेन पृथक् सूचितम्।
विद्यालयीयपाठ्यक्रमेषु अस्मिन् वर्षे न्यूनीकरणं न भविष्यति।
तिरुवनन्तपुरम्- २०२०-२१ अध्ययनवर्षे विद्यालयपाठ्यक्रमेषु न किमपि न्यूनीकरणम् आवश्यकमिति सार्वजनीनशिक्षामन्त्री प्रो.सी. रवीन्द्रनाथवर्यस्य आध्यक्ष्ये समुपविष्टस्य पाठ्यचर्या नियन्त्रणसमितेः निर्णयः। अधुना प्रचाल्यमाना अङ्गीयकक्ष्या अधिकफलप्रदरीत्या आयोजयिष्यति।
केन्द्रीय-राज्यसर्वकारयोः निर्णयमनुसृत्य विद्यालयानां पुनःप्रवर्तनसाध्यता परीक्षणीया इत्यपि समितिः निरदिशत्। कोविड्-१९ काले अङ्कीयाध्ययने केरलदेशः विश्वे आदर्शरूपेण वर्तते, अतः राष्ट्रे प्रथमस्थानमावहति इति मन्त्री अवदत्।
जालाधारितकक्ष्यायां कला-कायिकाभ्यासस्यापि स्थानं, भिन्नशेषिछात्राणां तथा गिरिवर्गछात्राणां च पठने विशेषपरिगणनां प्रदास्यति। कोविड् काले अनुस्यूतपठनाय प्रवर्तनपद्धतेः आसूत्रणार्थं द्विसप्ताहाभ्यन्तरे आवेदनं समर्पयितुं एस.सी.इ.आर्.टी. निदेशकं डो.जे. प्रसाद् वर्यं निरदिशत्। एतदर्थं विदग्धसमितिः रूपवत्करोति।
विख्यातः हिन्दुस्थानि संगीतज्ञः जस् राज् वर्यः दिवङ्गतः।
नवदिल्ली- हिन्दुस्तानि संगीते निष्णातः पण्डित् जस् राज वर्यः पञ्चत्वं प्राप। अमेरिक्कायां न्यूजेर्सी स्थले आसीत् तस्य अन्त्यम्। अयं पद्मविभूषणपुरस्कारेण आदृतः आसीत्।
भारते विदेशेष्वपि सहस्रपरिमितेषु संगीतसंवेशनेषु संगीतमालपन् अयं आविश्वम् आराधकानां प्रियङ्करः अभवत्। हिन्दुस्थानि संगीते मेवाति घराना सम्प्रदाये अयं महाप्रतिभ- ासीत्। भारतस्य अन्तः बहिश्च निरवधिकानां संगीतविद्यालयानां स्थापकः अस्त्ययम्। सप्तर्षी चक्रवर्ती, रमेश् नारायण् प्रभृतयः तस्य शिष्यप्रमुखाः सन्ति।
तबलावादकरूपेण अयं संगीतलोकं प्रव्वेश। अनन्तरं गानरंगे चिरप्रतिष्ठितः। हृदयाघातः एव मृत्युकारणम्। तस्य महाशयस्य वियोगे प्रधानमन्त्री नरेन्द्रमोदी अन्वशोचयत्।
जे.इ.इ. नीट् परीक्षयोः परिवर्तनं नास्ति। परिवरितनीयमिति आवेदनं सर्वोच्चन्यायालयेन निरस्तम्।
नवदिल्ली- अखिलभारतीय वैद्यकप्रवेशकपरीक्ष (नीट्) तथा तान्त्रिककलाशालप्रवेशिका जे.इ.इ इति द्वे परीक्षे परिवर्तनीये इत्यावेदनं सर्वोच्चन्यायालयेन निरस्तम्। छात्राणां भाविजीवनम् अपघाते पातयितुं न शक्यते इति निरीक्ष्यमाणः न्यायाधीशस्य अरुण् मिश्रावर्यस्य आध्यक्ष्ये आयोजितस्य संवेशनस्यैव अयम निर्णयः।
सेप्तम्बर् मासे एव नीट् जे.इ.इ. परीक्षां सञ्चालयितुं केन्द्रसर्वकारस्य निर्णय आसीत्। कोविड् रोगस्य भूमिकायां परीक्षापरिवर्तनमाववश्यकमिति आवेदयन्तः एकादशछात्राः एव सर्वोच्चन्यायालयं प्रावन्।
परीक्षा संचालनार्थं सर्वान् प्रयत्नान् जागरूकतया करिष्यति इति सर्वकारस्य प्राड्विवाकः न्यायालयं समवबोधयत्। सुरक्षानिर्देशं परिपाल्य परीक्षासञ्चालनार्थं सन्नद्धाः इत्यपि परीक्षायोगः न्यायालयं प्राबोधयत्।
कोविड् योद्धृृृन् प्रति राष्ट्रं विधेयत्वं समर्पयति- राष्ट्रपतिः।
कोविड् योद्धृृृन् प्रति राष्ट्रं विधेयत्वं समर्पयति- राष्ट्रपतिः।
नवदिल्ली- कोविड् महामारी आविश्वं मानवजीवनं क्लेशकरमकरोदिति राष्ट्रपतिः रामनाथ कोविन्द् वर्यः अवदत्। स्वतन्त्रतादिवसमालक्ष्य सन्देशं ददन् भाषमाण आसीत् राष्ट्रपतिः। कोविड् प्रतिरोधाय बद्धकक्षेभ्यः आरोग्यपिरवर्तकेभ्यः स कृतज्ञतां व्याहरत्।
अस्मिन् वर्षे स्वतन्त्रतादिवसस्याचरणं भिन्नया रीत्या वर्तते। मारकः विषाणुः मानवजीवनाय भीषा जातः। जीवनस्य सर्वेषु मण्डलेषु अन्तरायश्च सञ्जातः। अस्मिन् साहचर्ये एव वयं स्वतन्त्रतादिवसम् आचरामः। रोगस्य तीक्ष्णतां न्यूनीकर्तुं बहून् मृत्योर्वक्त्रात् त्रातुं च वयं शक्ताः अभवाम।
वैविध्ययुक्ते भारते असाधारणेन परिश्रमेणैव वयं रोगप्रतिरोधार्थं शक्ताः जाताः। प्रादेश्कं साहचर्यं ज्ञात्वं तदनुसारं प्रवर्तितुं राज्यसर्वकाराश्च सज्जाः अभवन्। वन्दे भरत दौत्यद्वारा विश्वस्य विभिन्नभागेभ्यः प्रवासिभारतीयाः अत्रानीताः।
कोविड् बाधया जीवसन्धारणं स्थगितानां जनानां कृते प्रधानमन्त्री गरीब् कल्याण् योजनाद्वारा साहाय्यमदात्। स्वतन्त्रता संग्रामे महात्मागान्धिनः अनुचरा वयं भाग्यवन्त एव इत्यपि राष्ट्रपतिः अवोचत्।
इरान् देशात् प्रस्थिताः चतस्रः तैलवाहिकानावः अमेरिकया बलात् गृहीताः।
वाषिङ्टण्- इरानात् प्रस्थिताः चतस्रः लैलवाहिकामहानावः अमेरिकया वलाद्गृहीताः इत्यावेद्यते। वेनस्वलां प्रति गच्छन्त्यः आसीत् एताः महानौकाः। लूणा, पान्डी, बेरिङ्ग् बेल्ला इत्येताः तैलवाहिकाः एव अमेरिक्कया गृहीताः। ट्रम्प् प्रशासनेन अयोजितम् उपरोधमुल्लङ्घ्य तैलव्यापाराय इरानेन उद्यतः इति दोषमारोप्यैव अमेरिक्कासंयिक्तराज्यसंघस्य अयमुद्यमः।
गृहीताः महानौकाः हूस्टण् प्रापयितुं अमेरिक्कया उद्यममारब्धः। लौकाः ग्रहीतुं सैनिकबलं नोपयुक्तमिति अमेरिका अधिकृतानां विशदीकरणम्। महानौकातः तैलेन्धनं ग्रहीतुं अमेरिक्कायाः नियमज्ञाः गते मासे व्यवहारं अवेदितवन्तः आसन्।
कृष्णशिलाखनीनां प्रवर्तनसम्ब्न्धी निर्णयः उच्चन्यायालयेन स्थगितः
कोच्ची- केरलराज्ये क़ृष्णशिलाखनीनां प्रवर्तनसम्बन्धी हरितव्यवहारासनस्य आदेशः उच्चन्यायालयेन स्थगितः। खनिप्रवर्तने जनावासक्षेत्रात् २०० मीट्टर् दूरपरिधिः व्यवहारासनेन कल्पितः आसीत्। एष एव उच्चन्यायालयेन स्थगितः। ५० मीट्टर् दूरपरिधिरेव सर्वकारेण कल्पितः आसीत्।
पालक्काट मण्डलात् आवेदितानां जनानाम् आवश्यं परिगणय्य एव हरितव्यवहारासनं निर्णयमदात्। एतद्विरुध्य कृष्णशिलाखनिस्वामिभिः दत्ते आवेदने एव उच्चन्यायालयस्य विधिनिर्णयः सञ्जातः। केवलं परिष्ठितिविभागस्य वादमङ्गीकृत्यैव हरितव्यवहारासनेन निरणयदित्यासीत् खनिस्वामिनां वादः।
उच्चन्यायालयस्य अऩेन निर्णयेन राज्ये तत्स्थित्यनुसारं खनीनां प्रवर्तनं भविष्यति। एतत् पर्यावरणस्य दोषायैव भवेदिति परिष्ठितिवादिनाम् अभिप्रायः।












