Category Archives: News Updates

केन्द्रीय भक्ष्यविभागमन्त्री रां विलास् पास्वान् वर्यः दिवङ्गतः।

नवदिल्ली- केन्द्रीय भक्ष्यमन्त्री तथा लोक जनशक्ती दलस्य नेता च रां विलास् पास्वान् वर्यः दिवङ्गतः। शारीरिकव्यथया चिकित्सालयं नीतः आसीत्। शनिवासरे हृदयपरिवर्तनशस्त्रक्रियामतीतः आसीत्। स्वपुत्रः चिराग् पास्वान् एव मृत्युसूचनामदात्।

     बिहार् राज्यात् आगतः दलित् राजनैतिकनेता आसीत् पास्वानः। बिहार् विधानसभानिर्वाचनस्य भूमिकायामेव पास्वान् वर्यस्य देहवियोगः। अष्टवारं स लोकसभासदस्यत्वेन चितः आसीत्। संयुक्त समाजवादिदले अङ्गत्वेन स राजनैतिकक्षेत्रं प्रविष्टः। षट्भिः प्रधानमन्त्रिभिः साकं पास्वान् वर्यः मन्त्रिमण्डले सदस्यः आसीत्। 1977 तमे वर्षे स प्रथमतया लोकसभासदस्यः अभवत्।

     पास्वानस्य वियोगे विभिन्नाः नेतारः अन्शोचयन्।

२०२१ तमे वर्षे विश्वे १५ कोटि जनाः दारिद्र्ये पतिष्यति- विश्वबैंक्।

वाषिङ् टण्- कोविड् महामारिद्वारा विश्वे २०२१ वर्षागमे १५ कोटि जनाः कठोरे दारिद्र्ये पतिष्यतीति विश्वबैकस्य जागरूकनिर्देशः।

अतः राष्ट्राणि मूलधन-वृत्ति-नैपुण्यादीनि नूतनसंरम्भकेषु इतरमेखलासु च विनियोक्तुं सज्जानि भवेयुः इति विश्वबैंकेन दत्तां विज्ञप्त्यां सूचितम्।

अस्मिन् वर्षे एव ८.८ तः ११.५ कोटिपरिमिताः जनाः दारिद्र्ये पतिताः। २०२० तमे वर्षे विश्वे दारिद्र्यावस्था ७.५ शतमितत्वेन न्यूना भविष्यतीति यद्यपि प्रतीक्षिता तथापि कोविड् महामारिणा प्रतीक्षा अस्तंगता इति विश्वबैंक् अध्यक्षः डेविड् माल्पास् वर्यः अवदत्।

विद्यालयानां प्रवर्तने मार्गनिर्देशः घोषितः।

नवदिल्ली- ओक्टोबर् १५ दिनाङ्कादूर्ध्वं विद्यालयानां पुनरुद्घाटनविषये निर्णयं स्वीकर्तुं राज्यानामेव अधिकार इति केन्द्रीय गृहमन्त्रालयस्य सूचना आसीत्। विद्यालयानां पुनरुद्घाटनम् अधुना अवश्यं न करोति ओण् लैन् अध्यापनम् अनुवर्तनीयम् इत्यपि सूचनायामासीत्।

तदनन्तरमेव शिक्षामन्त्रालयस्य मार्गनिर्देशः घोषितः। तत्र एते निर्देशाः सन्ति। सर्वेषु विद्यालयेषु शुचित्वं परिपालयितुं कर्मसेना भवितव्या। विद्यालयेषु अणुनशीकरणं कर्तव्यम्। कक्ष्याप्रकोष्ठेषु शुद्धवायोः सान्निध्यमस्तीति निर्णेतव्यम्। छात्राणां विद्यालयागमनसमये विद्यालयात् गृहगमनयमये, कक्ष्यायाम् अध्ययनसमये च सामाजितान्तरम् अवश्यंभावि। कक्ष्यासु सर्वे मुखावरणं धारयेयुः। वैद्यानाम् अनुवैद्यानां च सेवनम् आयोजनीयम्। उपस्थितिविषये कर्शनव्यवस्था न करणीया।

सर्वोपरि रक्षाकर्तृणां अनुमतिपत्रेण साकमेव छात्राः विद्यालयम् आगच्छेयुः इति च मार्गनिर्देशे वर्तते।

नौसेना प्रशिक्षणप्लवकस्य दुर्घटनायां द्वौ नौसेनाकर्मकरौ मृतौ।

कोच्ची-  नौसेनायाः प्रशिक्षणप्लवगस्य दुर्घटनायां द्वौ कर्मकरौ मृतौ। उत्तराखण्ट् देशीयः लेफ्ट्नेन्ट् राजीव झा, विहार् देशीयः पेॆट्टी ोफीसर् सुनिल् कुमार् च मृतौ। एतौ चिकित्सालयप्रवेशात् प्रागेव मृतौ स्तः।

एरणाकुलं तोप्पुंपटी बी.ओ.टी. सेतोः समीपस्थे मार्गे एव प्लवकः प्रभञ्ज्य पतितः। कोच्ची नौसेनास्थानात् एककिलोमीट्टर् दूरे एव अयमपघातः संवृत्तः। प्रभाते प्रशिक्षणवेलायामासीत् अपघातः।

अटल् सुरङ्गा प्रधानमन्त्रिणा उद्घाटिता। अत्युन्नतस्थले विश्वे दीर्घतमा सुरङ्गरथ्या।

मणाली- अटल् सुरङ्गमार्गः  प्रधानमन्त्रिणा राष्ट्राय समर्पितः। कोविड् मानदण्डं परिपाल्य आयोजिते उद्घाटनसमारोहे प्रधानमन्त्रिणा सह सुरक्षामन्त्री राजनाथसिंहः, हिमाचल् प्रदेश मुख्यमन्त्री जय् रां ताक्कूर् प्रभृतयः भागमभजन्त। समुद्रतलात् अत्युन्नते संस्थितः सुरङ्गमार्गः भवति अटल् सुरङ्गा। हिमाचलप्रदेशस्य मणाली-ले राजमार्गे 9.02 कि.मी. दीर्घयुक्ता सुरङ्गा समुद्रतलात् 3000 मीट्टर् उन्नते स्थीयते।

     सुरक्षामन्त्रालयस्याधीनस्थस्य प्रान्तीय रथ्या संघस्य आसीत्  निर्माणधुरा। 3086 कोटि रूप्यकाणि एव पद्धतेः व्ययः। सुरङ्रमार्गस्य उद्धाटनेन मणाली – ले यात्रायां 46 किलोमीट्टर् दूरस्य न्यूनता अस्ति, यात्रासमये अपि पञ्चहोरा न्यूना स्यात्।

     पूर्वं तुहिनकाले षण्मासावधिकं रोह्तङ् गिरिमार्गः पिहितः आसीत्। तदानीं यात्रानिरोधेन जनैः बहुकष्टमनुभूतम्। परं नूतनमार्गस्याविर्भावेन तुहिनकाले अपि यात्रां कर्तुं शक्यते। अस्य सुरङ्गमार्गस्य निर्माणे के.पी. पुरुषोत्तमन् इति केरलीयः अभियान्त्रिकः नेतृत्वमावहत्।

बाबर् ई मस्जिद् भञ्जनव्यवहारे सर्वान् अभिशस्तृृन् अपराधमुक्तान् अकरोत्।

लख्नौ- बाबर् इ मस्जिद् भञ्जनव्यवहारे गूढपर्यालोचनायै निदर्शनं नास्तीति सी.बी.ऐ. विशेषन्यायालयः। सर्वान् अभिशस्तृृन् न्यायालयः अपराधमुक्तान् अकरोत्। 28 वर्षानन्तरमेव व्यवहारे विधिप्रस्तावः  अभवत्।

लख्नौ स्थे विशेषन्यायालये  न्यायाधीशः सुरेन्द्रकुमार् यादव् वर्यः एव विधिं प्रास्तौत्। 32 अभिशस्तृषु 26 ऩ्यायालये उपस्थिताः आसन्। एल्.के. अड्वानी,  मुरलीमनोहर् जोषी च वयोधिकाः इत्यतः न्यायालये अनुपस्थितौ। कोविड् बाधया उमा भारती अपि न आगता। कल्याण् सिंह्, नृत्यगोपाल् सिंह्, सतीष् प्रधान्, इत्येते वीडियो सम्मेलनद्वारा उपस्थिताः।

1992 डिसम्बर् मासे षष्ठे दिनाङ्के एव कर्सेवकाः बाबर् इ मस्जिदं अभञ्जयन्। एतदनन्तरम् अनुवर्तिते संघर्षे द्विसहस्राधिकं जनाः मारिताः। तस्मिन्नेव वर्षे डिसम्बर् षोडशे दिने मस्जिद् भञ्जनमधिकृत्य अन्वेषणाय लिबर्हान् आयोगः न्ययुङ्क्त। 1993 ओक्टोवर् मासे उन्नतान् भा.ज.पा. नेतृृन् विरुध्य गूढसमालोचनापराधानुसारं सी.बी.ऐ. व्यवहारं स्वीचकार।

शबरिमला- भक्तानां प्रवेशाय सज्जीकरणं भविष्यति।

तिरुवनन्तपुरम्- मण्डलव्रतकाले शबरिमलमन्दिरे भक्तानां प्रवेश‌ः आराधना च अवश्यं स्यादित्येव देवस्वसमितेः अभिप्रायः इति समित्यध्यक्षः एन् वासु वर्यः अवदत्। भक्तानां संख्यानियन्त्रणं जालाधिष्ठितपङ्क्तिद्वारा प्रवेशः इत्यादिष्वपि निर्णयो जातः। भक्तानां दर्शनसमये अनुवर्तनीयान् मार्गनिर्देशान् समर्पयितुं मुख्यसचिवस्य नेतृत्वे विशेषसमितिः रूपवत्कृता, समितेः आवेदनम् एकसप्ताहाभ्यन्तरे प्राप्स्यतीत्यपि अध्यक्षः अवदत्। अवलोकनाधिवेशनानन्तरं वार्ताहरैः सह भाषमाण आसीत् सः।

तीर्थाटकानां मन्दिरप्रवेशात् प्रागेव ते कोविड्ग्रस्ताः न भवन्तीति निर्णेतुं सुविधा आयोजिता। घृताभिषेकः विशेषरीत्या प्रचाल्यते। सन्निधाने शयनार्थं सुविधा न भविता। अन्नदानं परिमितया रीत्या आयोज्यते।

गतसप्तमासेन कोविड् मानदण्डपरिपालनकारणात् मन्दिरे भक्ताः न प्रवेशिताः। तदर्थं निर्णयस्वीकारायैव मुख्यमन्त्रिणः आध्यक्ष्ये अधिवेशनम् आयोजितमासीत्।

नववाण्याः समस्या: १५० सप्ताहा : पश्चात्कृताः ।

इरिङ्ङालक्कुटा – नववाणी संस्थायाः समस्यापूरणस्पर्धा संस्कृतप्रश्नोत्तरस्पर्धा च अतीव हृद्या विज्ञानप्रदा च भवति । प्रतिसप्ताहं एकं समस्यापूरणं,  दशप्रश्नात्मिका प्रश्नोत्तरस्पर्धा इति क्रमेण १५० सप्ताहाश्च अतीताः।

    गुरुमहिमा ‘देश स्नेहः कालिकघटना: हास्यकणिका: लोकनीति:’ इत्यादिषु विषयेषु त्रिसहस्राधिकाः  श्लोकाः प्रकाशिताः। दशमिताः पण्डिताः अनस्यूततया तत्र भागं भजन्ते । प्रतिसप्ताहं चत्वारिंशत् मिताः श्लोकाः नववाण्या  प्रकाश्यन्ते । सहस्रशो भाषाप्रणयिनः आस्वादकाश्च समास्यामधु स्वदन्ते च । समस्या पूरणे श्री नारायणन् एन्, श्री भास्करन्, श्री विजयन् वि. पट्टाम्बि प्रभृतयः प्रातःस्मरणीयाः ।

     समस्याः तु समासार्था इति अमरकोशस्य प्रस्तावेन संक्षिप्य कथनमिति अर्थ: सङ्गतो वर्तते। प्रदत्ते पादे निर्दिष्टमाशयं संक्षेपेण विशदीकरोति तत्पूरणम्। प्रश्नोत्तरं, विचारसत्रं, आनुकालिककवीनां कथा:, कविताः, लेखनानि, छात्राणामुपकारकान् पाढ्यांशविस्तारांश्च यथाकालं प्रकाशयन्ती नववाणी संस्कृत प्रचारणे अग्रिमं स्थानमापद्यते।

     इरिङ्ङालकुटा संस्कृताध्यापकै : २०१० वर्षे समारब्धा इयम् अन्तर्जालीयदीपशिखा संस्कृतक्षेत्रे प्रभां प्रसारयन्ती विराजते।  अतीव विस्तृते गभीरे च संस्कृतसागरे यथाशक्ति स्वपोतमुपयुज्य तत्रत्यानि मुक्ताफलानि उत्क्षिप्य प्रकाशयन्ती इयं संस्था उत्तरोतरं वर्धताम्।

Samasyapooranam

सम्पादकः – विजयन् वि. पट्टाम्बि।

केलरेषु सेप्तम्बर् मासे कोविड् रोगिणां संख्या एकलक्षं जाता।

तिरुवनन्तपुरम्- केरलराज्ये कोविड् रोगिणां संख्यासु अतिशयकरा वर्धना। 27 दिनाभ्यन्तरे एकलक्षं रोगिणः आवेदिताः। एतेन राज्ये स्थितिः आशङ्काजनका जाता। अपि च  परीक्षणानुपातिकत्वेन रोगिणां वर्धने केरलराज्यं तृतीयस्थाने वर्तते। अस्य भूमिकायां परिशोधनावर्धनाया स्वास्थ्यविदग्दैः सूचना दत्ता।

     केरलेषु एतावत् पर्यन्तं 175384 जना कोविड्बाधिताः सञ्जाताः। एषु एकलक्षपरिमितं जनाः अस्मिन् मासे एव रोगिणः संजाताः। परिशोधनायां 13.87 प्रतिशतं जनेषु रोगबाधा स्थिरीक्रियते। महाराष्ट्रराज्ये कर्णाटके च  इतोप्यधिकम् आवेदयति।

     रोगमुक्तावपि तादृशवर्धना अत्र नास्ति। राष्ट्रे आहत्य 82 प्रतिशतं रोगमुक्तिः वर्तते। परं केरलेषु केवलं 67 प्रतिशतमेव रोगमुक्तिः। रोगवर्धनभूमिकायां राज्यस्य स्वास्थ्यमन्त्री जागरूकतानिर्देशमदात्। कोविड् रोगस्य द्वितीयतरंगमेवात्र प्रचलति। अतः सर्वैः जागरूकैः भाव्यम् इति स्वास्थ्यमन्त्री सूचनामदात्।

गायकः एस्.पि. बालसुब्रह्मण्यम् दिवंगतः।

चेन्नै- विख्यातः गायकः एस्.पि. बालसुब्रह्मण्यं वर्यः दिवमगात्। स ७४ वयस्कः आसीत्। चेन्नै एं.जि.एम्. चिकित्सालये चिकित्सायां तिष्ठन् अद्य मध्याह्ने आसीत् अस्य अन्त्यम्। कोविड् बाधया आगस्त् पञ्चमे दिनाङ्के चिकित्सालयं नीतः आसीत् सः। आगस्त् १३ दिनाङ्कं यावत् अस्य स्वास्थ्यावस्था तृप्ता आसीत्।

सेप्तम्बर् मासे कोविड् वैराणुविमुक्तोपि महाशयस्यास्य श्वसनव्यवस्था स्थगिता इत्यतः स तीव्रपरिचरणविभागे एवासीत्।

गायकः संगीतनिदेशकः नटः इत्यादिषु रंगेषु लोकप्रशस्तः बहुमुखप्रतिभः बालसुब्रह्मण्यं वर्यः १६ भारतीयभाषासु ४०००० अधिकानि गीतानि अगायत्। षड् राष्ट्रीयपुरस्काराः तथा आन्ध्रा, कर्णाटकप्रभृतीनां सर्वकाराणां पुरस्काराश्च अनेन आप्ताः। पद्मश्री पद्मभूषण् पुरस्काराः अपि अनेन प्राप्ताः।