Category Archives: News Updates

अज्ञातप्रभवः कोविड् रोगः अधिकतया सूच्यते, अनन्तपुर्याम् आशङ्का वर्धते।

तिरुवनन्तपुरम्- अज्ञातप्रभवाणां कोविड्रोगिणां संख्यायां वर्धने जाते तिरुवनन्तपुरे  आशङ्का वर्धिता। नगरे नियन्त्रणानि कठिनीकृतानि। रोगावेदितेषु स्थलेषु महानगरसभायाः नेतृत्वे अणुनशीकरणप्रवर्तनानि अनुवर्तन्ते।  वञ्चियूर्, कुन्नुपुरं प्रदेशौ नियन्त्रितदेशौ करिष्यते।

    प्रभवमज्ञात्वा चतुर्णां जनानां रोगः ह्यस्तने स्थिरीकृतः आसीत्। अनेनैव आशङ्का वर्धिता। महानगरान्तर्भागे जननिबिडः साफल्यम् इति आपणसमुच्चये असं देशीयः कश्चन कर्मकरः ह्यस्तने रोगबाधितः आसीत्।

     पालयम् आपणे वीथीव्यापारः नानुमीयते। प्रथमद्वारेणैव तत्र जनान् प्रावेशयिष्यतीति अधिकृतैः सूच्यते।

तमिल् नाटु लिग्नैट् निलये स्फोटनम्, षट् मरणानि, १७ जनाः आहताः।

नेय्वेली- तमिल् नाटुराज्ये नेय्वेली लिग्नैट् निलये सञ्जाते स्फोटने षट् जनाः मृताः। १७ जनाः आहताः। निलयस्थः कटाहः स्फोटयित्वा एव अपघातः समजायत। स्थले रक्षा प्रवर्तनानि अनुवर्तन्ते।

     तापोर्जनिलये पञ्चमे एकके एव स्फोटनं सञ्जातम्। अद्य प्रातः कर्मकराः आगत्य निलयस्य प्रवर्तनं यदा आरभन्त तदा एव कटाहः स्फोटनेन भग्नः। बहवः जनाः अधुनापि तत्र अग्निमध्यस्थाः सन्तीति सूचना अस्ति। अग्निशमनसेनाङ्गानि रक्षिणश्च समागताः।

चीनायाम् अन्यो नूतनः विषाणुः दृष्टः। एष कोरोणा विषाणोरपि मारकः इति शास्त्रज्ञाः।

बीजिङ्-  अविश्वं मृत्युताण्डवं विधास्यन् कोरोणाविषाणुः व्याप्यमानः अस्ति। अस्य पश्चात् भीतिदः अन्यः विषाणुः चीनातः आविर्भूत इति श्रूयते। मानवेषु अत्यधिकम् आपत्करः भवति अयम्। एतावत्पर्यन्तम् अनुपलब्धः सूकरज्वरहेतुकश्च भवत्ययं विषाणुः इति चीनीयगवेषकाः वदन्ति। 2009 वर्षे विश्वे व्याप्तस्य सूकरज्वरस्य समानः आमयः  अनेन सञ्जायते। मानवेष्वपि एनं विषाणुं समपश्यदिति गवेषकाः वदन्ति।

     अथुना उपलभ्यमानं किमपि निवारकौषधम्  अस्य कृते प्रतिरोधकं न भवति। जागरूकता नास्ति चेत् अयं विषाणुः आविश्वं व्याप्यते इति गवेषकाणां सूचना अस्ति।

केरलेषु एस्.एस्.एल्.सी. परीक्षापरिणामः श्वः घोषयिष्यति।

तिरुवनन्तपुरम्- अस्मिन् वर्षे एस्यएस्एल्.सी. परीक्षापरिणामः 30-05-2020  मध्याह्ने द्विवादने घोषयिष्यति। कैट् संस्थायाः जालपुटमभिव्याप्य बहुषु जालपुटेषु परीक्षापरिणामः उपलभ्यते। www.result.kite.kerala.gov.in इति जालपुटद्वारा तथा सफलं 2020 इति मोबैल् आप् द्वारा च परीक्षापरिणामं ज्ञातुं कैट् संस्था सौविध्यं समायोजयत्। परीक्षापरिणामः वैयक्तिकतया, विद्यालयाधिष्ठितया, शिक्षामण्डलाधिष्ठितया, च उपलभ्यते। तद्वत्  परीक्षापरिणामविशकलनं विषयाधिष्ठितमपि जालपुटेषु उपलभ्यते।

कोविड् भीत्या स्थगिता परीक्षा  मेय् मासे पुनरारब्धा। मूल्यनिर्णयश्च समयानुसारं समाप्तः। जूलै मासे एव एकादशकक्ष्यायाः कृते तथा बिरुदकक्ष्यायाः कृते च प्रवेशकार्यक्रमः आरभ्यते।

विश्वेस्मिन् कोविड् रोगिणां संख्या एककोटिपरिमिता जाता।

वाषिङ्टण्- विश्वेस्मिन् कोरोणा विषाणुजन्या महामारी एककोटिपरिमितान् जनान् रोगिणः अकरोत्। पञ्चलक्षाधिकानां जनानां जीवहानिरपि रोगेणानेन जाता। विश्वे कोविड् व्याधिना ग्रस्ते १८४ दिने अतीते एव रोगबाधितानां संख्या एककोटिपरा जाता। एतावत्पर्यन्तं विषाणुव्यापनस्य वृद्धिरेव जायते न तु क्षयः इति विश्व-स्वास्थ्य-संस्थायाः सूचना।

चीनादेशस्य वुहान् मत्स्य-मांसापणात् उद्भूय आविश्वं जनान् परिभ्रान्तान् कुर्वन् अयं विषाणुः १८५ राष्ट्राणि अभिव्याप्य तिष्ठति।

अमेरिकायामेव रोगबाधितानां तथा मृतानां च संख्या अधिका दृश्यते। तत्र पञ्चविंशति लक्षं जनाः रोगबाधिताः १.२८ लक्षं जनाः मृताश्च सन्ति। द्वितीयस्थाने ब्रसील् राष्ट्रं तिष्ठति। तत्र १३.१५ लक्षं रोगिणः तेषु ५७१०३ जनाः मृताश्च।

रोगिणां संख्यासु तृतीयस्थाने रष्या चतुर्थस्थाने भारतं चास्ति। भारते ५.२ लक्षं जनेषु कोविड् स्थिरीकृता। १५००० जनाः मृताश्च सन्ति। दैनंदिनरोगिणां संख्यासु भारतं रष्याम् अतिक्रामति।

केरलराज्ये षट्सु मण्डलेषु अतीवजागरूकतानि्देशः, नियनत्रणानाम् अतिलङ्घनं दण्डाय कल्पयति।

तिरुवनन्तपुरम्-  कोविड्प्रभवमज्ञातवन्तः रोगिणः केषुचिन्मण्डलेषु अधिकाः सन्ति। तिरुवनन्तपुरम्, तृशूर्, पालक्काट्, कण्णूर्, मलप्पुरम्, इत्येतानि सन्ति तानि मण्डलानि। तत्र नियन्त्रणानि कठिनानि क्रियन्ते। आपणेषु नियन्त्रितस्थानेषु च कठिना जागरूकता निर्दिष्टा।

     नियन्त्रितस्थानमभिव्याप्य तृशूर् नगरं भागिकतया पिहितं वर्तते। नियन्त्रणानि कठिनीकृतेषु स्थलेषु सेवार्थम् आरक्षिणः अथिकतया नियुक्ताः। नगरप्रदेशेषु जनसञ्चयस्थलेषु च आरक्षिणः अधिकाः विन्यस्ताः। इतः परं उपदेशः न भविष्यति, दण्डं कर्शनं कर्तुमपि आरक्षिदलाय निर्देशो दत्तः।

     आुणानि केन्द्रीकृत्य संयुक्तपरिशोधनां कर्तुं स्वास्थ्यविभागः सन्नह्यति। सामाजिकान्तरपालनं, मुखावरणधारणं  इत्यादिषु कार्कश्यं पालयिष्यति। विमानपत्तनेषु प्रतिरोधकपरीक्षां विधातुमपि निर्णयः अस्ति यत्र प्रवासिनः विना कोविड्परिशोधनमागच्छन्ति।

कोरोणा विषाणोः आक्रमणम् अनुवर्तिष्यते इति विश्व स्वास्थ्य संस्थायाः पूर्वसूचना।

न्यूयोर्क्-  कोरोणा विषाणोः आक्रमणम् इतः परमपि अनुवर्तिष्यते इति विश्व स्वास्थ्य संस्थायाः जागरूकतानुर्देशः। पूर्णपिधाने  प्रत्यादत्ते विषाणोः व्यापनं रूक्षं स्यादिति संस्था पूर्वसूचनां ददाति। अस्मिन्नन्तरे कोविड् रोगं राजनैतिकविषयकं कर्तुं परिश्रमः अपलपनीय एवेति विश्व स्वास्थ्य संस्था सामान्यनिदेशकः डोः टेड्रोस् अदानें अवदत्।

     स्वास्थ्यमण्डले अनुभूयमाना प्रतिसन्धिः इत्यतो अधिकं सामाजिकंम् आर्थिकं राजनैतिकं च प्रतिसन्धिं प्रत्येव कोरोणा अस्मान् नयति। अस्य परिणितफलं दशाब्धानि यावत् अस्माभिः अभिमुखीकर्तव्यम् इत्यपि डो. टेड्रोस् न्यगादीत्।

     एषा विपत् लोकाः सम्भूय अभिमुखीकर्तव्या। अतः अस्ममाभिः जागरूकैः भाव्यम्। विषाणुः यावत्कालम् अत्र स्थास्यति, एतस्य उन्मूलनं साध्यं वा इत्यादिकं एतावत्पर्यन्तं नापावृतम् वर्तते।

अद्य अन्ताराष्ट्र-योगदिवसः, विश्वस्य मूर्ध्नि योगः।

तिरुवनन्तपुरम्- सूर्यः स्वकीयं तेजः पूर्णतया प्रकाशयन् दक्षिणध्रुवं प्रति प्रयाणमारभमाणः दिवसः भवति जूण्-२१। उत्तरध्रुवे दिनस्य अधिकं दैर्घ्यमस्ति अस्मिन् दिवसे। २०१५ वर्षादारभ्य अयं दिवसः अन्ताराष्ट्र योगदिवसत्वेन आचर्यते। भारतेन विश्वाय दत्तं महत् योगदानमस्ति येगशास्त्रम्। अस्य कृते आगोलसमाजस्य अङ्गीकाररूपेण परिकल्पयितुं शक्यते ऐक्यराष्ट्रसभायाः सामान्याधिवेशने स्वीकृतः निर्णयः।

२०१४ सेप्तम्बर् २७ दिनाङ्के प्रधानमन्त्रिणा नरेन्द्रमोदिना ऐक्यराष्ट्रसभायाः सामान्याधिवेशने समर्पितः निर्देशः २०१४ डिसम्बर् ११ दिनाङ्के आयोजिते अधिवेशने अङ्गीकृतो/भवत्। १९३ अङ्गयुक्तायां सभायां १७५ अङ्गानाम् अनुमतिः अस्मै निर्णयाय अभवदिति सर्वदा अङ्कनीयं कार्यमस्ति।

व्यक्तीनाम् आत्मीयप्रगतिरेव योगस्य परमलक्ष्यम्। तथापि शारिरिकेभ्य मानसिकेभ्यश्च क्लेशेभ्य मुक्तिरपि योगद्वारा अवाप्तुं शक्यते इति पतञ्जलिमहर्षिणा प्रतिपादितम्। श्रेष्ठा आरोग्यप्रदानशैलिरूपेणैव एेक्यराष्ट्रसभा योगशास्त्रं समुपगच्छति।

2020 वर्षस्य प्रथमं व्योमदृश्यम्, श्वः सूर्यग्रहणम्।

तिरुवनन्तपुरम्- 2020 वर्षस्य प्रथमं सूर्यग्रहणं श्वः द्रष्टुं शक्यते। प्रातः 9.15 तः सायं 3.04 पर्यन्तमेव ग्रहणं भविष्यति। विविधरीत्या आभारतं ग्रहणं दृश्यं भविष्यति।

     केरलम् अभिव्याप्य भागिकं ग्रहणमेव सम्भवति। राजस्थानं पञ्चाब्, हरियाणा, झारखण्ट् प्रभृतिषु राज्येषु केषुचित् भागेषु वलयग्रहणमेव स्यात्। गतवर्षे डिसम्बर् 26 दिनाङ्के आसीत् बृहत् सूर्यग्रहणम्।

     श्वः केरलेषु तिरुवनन्तपुरे प्रातः 10.15 वादने एव ग्रहणस्यारम्भः 11.40 वादने पारम्यावस्था तथा 1.15 वादने अवसानश्च। एवं कासरगोड् पर्यन्तं विभिन्नरीत्या ग्रहणं दृश्यं स्यात्।

 

मधुवाणी प्रकाशिता।

तिरुवनन्तपुरम्- केरलीय़-सार्वजनीनशिक्षामण्डलं पूर्णतया अतितान्त्रिकरीतिमास्थिते साहचर्ये संस्कृतशिक्षणस्य श्रेष्ठतां लक्ष्यीकृत्य राज्य-शैक्षिकानुसन्धानप्रशिक्षण परिषद् सी-डिट्ट् इति संस्थायाः साहाय्येन सम्पादिता संवादपरा अङ्कीयतालिका मधुवाणीनामिका शिक्षामन्त्रिणा सी. रवीन्द्रनाथवर्येण प्रकाशिता।

प्राथमिकस्तरादारभ्य संस्कृतं पठतां छात्राणां संस्कृतपिपठिषूणाम् इतरेषां च अत्यन्तोपकारिका भवतीयम् अङ्कीयतालिका। संस्कृतशिक्षणं सरलं सरसं च कर्तुम् उद्दिश्य इयं प्रवृत्तिः।

अक्षरमालायाः आरभ्य विभक्तिपर्यन्तं संस्कृतबालपाठाः अनिमेशन् साहाय्येन संवादपरत्वेन पठितुं इयमुपकरोति।

एस्.सी.इ.आर्.टी. वेदिरायां सम्पन्ने समारोहे सार्वजनीनशिक्षासचिवः ए षाजहान् वर्यः, शिक्षा निदेशकः के. जीवन् बाबू, एस्.सी.इ.आर्.टी. निदेशकः डो. जे प्रसाद् वर्यः, सर्वशिक्षा केरला निदेशकः डो. ए.पी.कुट्टिकृष्णन्, सी.डिट्ट् प्रतिनिधिः मनोज् कृष्णन्, संस्कृतं रिसर्च् अधिकारी वी. श्रीकण्ठन् इत्येते सन्निहिताः आसन्।