जीवनशैलीरोगनियन्त्रणम्, कोरलराज्यस्य कृते ऐक्यराष्ट्रसभा पुरस्कारः।

तिरुवनन्तपुरम्-  जीवनशैलीरोगनियन्त्रणाय ऐक्यराष्ट्रसभायाः पुरस्कारः केरलराज्याय दत्तः। विश्व-स्वास्थ्यसंस्थानस्य निदेशकमुख्यः डो. टेट्रोस् अदानों गेब्रियोसस् वर्यः एव  यु.एस्य नालिकाद्वारा पुरस्कारः औपचारिकतया घोषितवान्। 2020 तमे वर्षे ऐक्यराष्ट्रसभया अस्मै पुरस्काराय सर्वकारीणविभागे चितैः सप्तराष्ट्रैः साकमेव केरलीय स्वास्थ्यविभागोपि चितः। रष्या, ब्रिट्टन्, मोक्सिक्को, नैजीरिया, अर्मेनिया, सेय्न्ट् हेलना इत्यादिभिः राष्ट्रैः सममेव केरलस्यापि पुरस्कारः विहितः।

     स्वास्थ्यरंगे केरलेन क्रियमाणः अविरामः परिश्रमः एव एतादृशस्य अङ्गीकारस्य मूलमिति मुख्यमन्त्री पिणरायि विजयन् तथा स्स्थ्यविभागमन्त्री के.के. शैलजा च असूचयताम्। प्राथमिकारोग्यकेन्द्रेभ्यः आरभ्य सर्वेषु चिकित्सालयेषु जीवनशेलीरोगनियन्त्रणाय चिकित्सायै च महत्तराणि सेवनानि आयोजितानि। कोविड् काले मृत्युसंख्यायां न्यूनत्वम् अनेनैव साधितमभवत्। एतदर्थं प्रयतितान् सर्वानपि एतौ अभिनन्दनानि व्याहरताम्।

     एतेन सहैव अतिनूतना श्वासकोशरोगनियन्त्रणपद्धतिः, नेत्रपटलान्धतानिवारणपद्धतिः, अर्बुदचिकित्साापद्धतिः, पक्षाघातनियन्त्रणपद्धतिः इत्यादयः अपि पुरस्कारलाभाय कारणमभवत्।

Leave a Reply

Your email address will not be published. Required fields are marked *