Category Archives: News Updates

आराष्ट्रं रोगिणां संख्या वर्धते।

 उत्तरप्रदेशे कोविड् रोगबाधया मन्त्रिणः मृत्युः,

केन्द्रीय गृहमन्त्री अमित्षा वर्यः कोविड् बाधितः अभवत्।

  नवदिल्ली-    उत्तरप्रदेशे मन्त्रिमण्डलसदस्या तान्त्रिकशिक्षाविभागमन्त्री च कमलराणी वरुण् वर्या कोविड् बाधया मृता। जूलै १८ दिनाङ्के तस्यां रोगबाधा स्थिरीकृता आसीत्। अतः लख्नौ चिकित्सालये चिकित्सायां वर्तमाना अद्य प्रातः दिवंगता अभवत्। अस्मिन्नन्तरे केन्द्रीयगृहमन्त्री अमित्षा वर्यः कोविड् बाधितः सन् चिकित्सालयं नीतः। आराष्ट्रं रोगिणां संख्या मृत्युसंख्या च अनुदिनं वर्धते।

केरलेषु अद्य ११६९ जनाः कोविड् बाधिताः सन्तीति आवेदयति। एषु ९९१ जनेषु सम्पर्केणैव रागबाधा सञ्जाता। शिष्टाः विदेशेभ्यः इतरराज्येभ्यश्च आगत्य सम्पर्कनिरोधे स्थिताः आसन्। एकस्य रोगिणः मरणमपि अद्य आवेदितम्।

संस्कृतदिवसः अद्य।

तिरुवनन्तपुरम्- भारते संस्कृतानुरागिणां मुख्यदिवसो भवति श्रावणमासे पूर्णिमा तिथिः। पञ्चदशकं यावत् दिनमिदं संस्कृतदिवसत्वेन आचर्यते। 1969 तमे वर्षे एं. सी. चग्ला वर्यः यदा केन्द्रीय शिक्षामन्त्री आसीत् तदा एव संस्कृतदिवसमायोजयितुं निरणयो जातः। तदा प्रभृत्येव आकाशवाण्यां संस्कृतवार्ताप्रसारणमपि समारब्धम्।  र्अटल् बिहारी वाजपेयी वर्यः प्रधानमन्त्रीपदव्यां स्थित्वा 2000-2001 वर्षः संस्कृतवर्षत्वेन आचरितः। तदा प्रभृति प्रतिवर्षं संस्कृतवाराचरणमेव इदानीं संपत्स्यते। संस्कृतदिनस्य पूर्वं दिनत्रयं पश्चाच्च दिनत्रयं समायोज्य संस्कृतवारम् आचर्यते।

     संस्कृतं राष्ट्रीयैक्याय इति मुद्रावाक्यम् उद्घोषयन्नेव संस्कृतदिनमाचर्यते। अस्याः अमृतभाषायाः प्राधान्यं प्रसक्तिं च सामान्यजनेभ्यो अवबोधयितुं तथा संस्कृतपठनद्वारा पौराणिकम् आधुनिकं च विज्ञानं संयोजयितुमेव एतादृशं दिनाचरणम् कल्पितमस्ति। व्यवहारभाषात्वेन संस्कृतं प्रतिष्ठितुं यत्नं कृतवन्तः बहवः विद्वांसः सन्ति। तेषु प्रामुख्यं भजन्ते गुरुनाथः इति विख्यातः पुन्नश्शेरि नम्पि नीलकण्डशर्मा महाशयः तेषां मार्गं अनुसृत्य के.पी. नारायण पिषारोटिवर्यः, पी.टी. कुरियाकोस् वर्यः, वी. कृष्णशर्मा, प्रभृतयः विद्वांसः केरलेषु संस्कृतमहासागरे कर्णधाराः आसन्।

     संस्कृतभाषा तथा तस्यामन्तर्लीनां संस्कृतिं  विपुलां संपदं च मानवजीवनस्य विभिन्नां मेखलां स्पृशन्ति। वेदेषु वेदाङ्गेषु इतिहासपुराणादिषु दर्शनेषु उपनिषत्सु च सूचितानां विज्ञानानां प्रचारणम् आधुनिककले अवश्यंभावि। अतः संस्कृतदिनाचरणं केवलं आचरणाय न भवतु, संस्कृतप्रचारायैव भवतु।

अङ्कीयशिक्षारीतिः आराष्ट्रं श्रद्धामावहद् इति मुख्यमन्त्री पिणरायि विजयन् वर्यः l

केरलसर्वकारेण आयोजिता अङ्कीयशिक्षारीतिः आराष्ट्रं श्रद्धामावहद् इति मुख्यमन्त्री पिणरायि विजयन् वर्यः अब्रवीत्। भारते विदूरशिक्षा अभियानमधिकृत्य मानवसंसाधनमन्त्रालयस्य आवेदने आदर्शरूपेण केरलमेव अवातरत् इति तेन निगदितम्। एतत् केरलाय अभिमानास्पदम् इति कोविडवलोकनार्थमायोजिते वार्ताहरमेलने मुख्यमन्त्री अवदत्।
अङ्कीयकक्ष्या जालाधारितप्रवेशनम्, तान्त्रिकविद्याप्रयोगशालाप्रभृतिषु षोडश मानदण्डेषु पञ्चदश केरलेन आर्जितमिति आवेदने सूचितमस्ति। सार्वजनीनविद्यालयेषु जालाधारिककक्ष्या कार्य़क्षमतया प्रचलति, परं निजीयविद्यालयेषु समयक्रमः पुनरायोजनीयः इत्यपि मुख्यमन्त्रिणा सूचितम्।

शिक्षामण्डले महत् परिवर्तनम्, राष्ट्रिय-शिक्षा-नायः केन्द्रमन्त्रिमण्डलेन अङ्गीकृतः।

दिल्ली- राष्ट्रे वर्तमानस्य विद्याभ्यासक्रमस्य आसमन्तात् परिवर्तनम् आयोजयति।  अधुना वर्तमानः उच्चविद्यालय-उच्चतरविद्यालयक्रमः परिवरितयिष्यति। तदर्थं शिक्षानायस्य प्रारूपं संसद् अङ्गीचकार। एतदनुसारं चतुर्षु सोपानेषु द्वादशाङ्कपरिपूर्तये अष्टादशवर्षीयः शिक्षासम्प्रदायः राष्ट्रे अयोजयिष्यते। इष्टतरं विषयं चित्वा पठितुमवसरः छात्राः लभन्ते। मानवविभवमन्त्रालयस्य नाम इतःपरं शिक्षामन्त्रालयः इति भविष्यति।  औद्योगिकी घोषणा अद्य सायं चतुर्वादने भविष्यति।

     राष्ट्रे शिक्षाक्षेत्रे समग्रं परिवर्तनम् अनेन जायते।  त्रीणिवयस्तः अष्टादशवयःपर्यन्तं शिक्षा अधिकारः भविता।  सममेव पाठ्यपद्धतेः बहिः कला-कायिकरङ्गेषु पाठ्येतरप्रवर्तनेष्वपि प्रामुख्यं दीयमाना रीतिरेव नयप्रारूपे विभाविता।

     दश-द्वादशकक्ष्यायोः परीक्षासम्प्रदायेपि परिवर्तनं निर्दिष्टम्। 10+2 इति अधुनातनां रीतिं परिवर्त्य  5+3+3+4  इति रूपेण शिक्षाधटनायाः परिष्करणायैव निर्णयः। पञ्चमकक्ष्यापर्यन्तं मातृभाषायामेव अध्ययनं भवेत्। प्रथमतः तृतीयकक्ष्यापर्यन्तं केवलं भाषा गणितं च पाठयितुं निर्देशः अस्ति।

Click here to read NEP

कोविड् रोगिणः मृत्युः, कोट्टयं नगरसभा वैद्युतश्मशाने शवसंस्कारविषये संघर्षः।

कोट्टयम्- कोविड् बाधया मृतस्य देहसंस्कारं कोट्टयं मुट्टम्बलं वैद्युतश्मशाने तद्देशवासिनः रुरोध। संस्कारवेलायां धूमशकलात् रोगव्यापनं भवेत् इति मृषाभीत्या नगरसभासदस्यस्य नेतृत्वे एव देशवासिनः संस्कारकर्व रुरोध। कोट्टयं चुङ्कं देशीयः औसेफ् जोर्ज् इत्याख्यस्य मृतदेह एव संस्कारार्थं तत्रानीत आसीत्। तस्य आराधनालये कोविड् मानदण्डानुसारं मृतदेहसंस्कारार्थं सुविधा नास्तीत्यतः नगरसभाश्मशानमानीतः। कोट्टयं विधानसभा सदस्य आगत्य देशवासिभिः सागं संभाषणं कृत्वा अपि जनैः न अनुमितः।

     रात्रौ आरक्षिदलस्य सान्निध्ये नगरसभा अधिकृतानाम् अनुमत्या मृतदेहः तस्मिन्नेव श्मशाने संस्कृतः। मृतदेहं प्रति तद्नांदेशायानां केषांचन जनानां शत्रुता विषये आकेरलं जनाः जागरिताः अभवन्। मृतशरीरं कदापि अस्माकं शत्रुः, रोगी अपि अस्माकं शत्रुः नास्ति। रोग एव शत्रुः, रोग एव निष्कासितव्यः इत्याह्वानेन समाजमाध्यमेषु केरलीयाः प्रचारणाय अद्यताः सन्ति।

अद्य कार्गिल् विजयदिवसः, युद्धविजयस्य 21 तमं वयः।

नवदिल्ली- भारतस्य कार्गिल् युद्धविजयस्य अद्य 21 वयः। ओपरेशन् विजय् इति नामना स्थलसेनया तथा ओपरेशन् सफेद् सागर्  इति नाम्ना व्योमसेनया च संयुक्ततया कृते संग्रामे पाकिस्तानं विरुध्य भारतं विजयमवाप।

     युद्धे वीरमृत्युं प्राप्तानां 527 धीरसैनिकानां कृते श्तल-नाविक-व्योमसेनाविभागस्थाः अधिकारिणः दिल्ल्यां युद्धस्मारके पुष्पचक्रम्  समर्पयिष्यति।

     1999मेय-जूलै काले जम्मू काश्मीरे कार्गिल् प्रदेशे एव युद्धं समारब्धम्। पाक् सैन्यस्य सहयोगेन भीकराः सीमामतिक्रम्य अक्रमणमारभन्त। तदा एव भारतेन प्रत्यादेशो दत्तः

     18000 पादमिते ऊर्ध्वभागे शत्रुसैन्यैः प्रतिकूलसाहचर्यैश्च कृते आहवे एव ऐतिहासिकं विजयमवाप भारतम्। स्वर्गीयः अटल् बिहारी वाजपेयी वर्यः आसीत् तदानीन्तनः प्रधानमन्त्री।

मध्यप्रदेश मुख्यमन्त्रिणः कोविड् रोगबाधा।

भोपाल्- मध्यप्रदेशमुख्यमन्त्री तथा वरिष्ठः भा.ज.पा. नेता च शिवराज् सिंह् चौहान् वर्यः कोविड्-१९ रोगबाधितः अभवत्। कार्यमिदं स एव स्वकीये ट्विट्टर् द्वारा प्राकाशयन्।”

मम प्रियाः देशवासिनः मयि कोविड्-१९ रोगस्य लक्षणमासीत्। प्रथमे परीक्षणे मयि रोगबाधा स्थिरीकृता।”
इत्येव स ट्विट्टर् मध्ये सूचितवान्।

मुख्यमन्त्रिणा सह सम्पर्कं सञ्जातान् सर्वान् सम्पर्कनिरोधे प्रावासयत्।

कोविड्- मृतदेहं स्वीकर्तुं कोपि नास्ति। रुग्णवाहिकाचालकः स्वीकृत्य प्रेतसंस्कारं कृतवान्।

मङ्गलूरु- कोविड् व्यापनं समाजे बृहत्तरं प्रतिसन्धिमसृजत्। एतादृशः प्रतिसन्धिरेव समाजे नायकान् सृजति। तादृशः एकोस्ति मंगलूरुस्थः मुहम्मद् आरिफ् इति रुग्णवाहिकाचालकः। कोविड् बाधया मृतस्य कस्यचन वृद्धस्य मृतदेहसंस्कारार्थम् उद्यम एव आरिफ् वर्यं प्रशस्तं चकार।
अपत्यैः उपेक्षितः वृद्धसदने कालं नीतः वेणुगोपाल रावु इति ६२ वयस्कः कोविड् बाधया मृतः। परं तस्य मृतदेहं स्वीकर्तुं बान्धवाः नागताः। कोविड् संक्रमणभीत्या प्रेतसंस्कारार्थम् अन्यः कोपि नागतः। अस्मिन्नन्तरे आरिफ् सन्नद्धतां प्रकटय्य आगतवान्।
अनाथरूपेण मृतदेहे स्थिते आरक्षिनिलये सूचनां दत्वा आरिफ् वर्यः प्रेतसंस्कारार्थमागतः।

कोविड् प्रतिरोधप्रवर्तनानाम् अवलोकनाय सर्वदलसमारोहः आयोजयितुं निर्णयः।

तिरुवनन्तपुरम्- केरलराज्ये कोविड् प्रतिरोधप्रवर्तनानि  चर्चितुं मुख्यमन्त्री पिणरायि विजयन् वर्यः सर्वदलानाम् अधिवेशनं समाहूतवान्। जूलै 24 दिनाङ्के सायं त्रिवादने वीडियो समारोहरूपेणैव अधिवेशनं सम्पत्स्यते।

     विधानसभायाः निर्णीतसमारोहस्य परिवर्तनादीन् विषयान् सर्वदलाधिवेशने चर्चाविषयो भविता। धनविनियोगदेयकस्य समर्थनार्थमेव जूलै 27 दिनाङ्के विधानसभायाः आधिवेशनं निश्चितमासीत्। परन्तु कोविड् व्यापने रूषिते अधिवेशनं परिवर्तनीयं भवति।

     अस्मिन्नन्तरे राज्य कोविडामयेन चत्वारः जना अद्य मृताः। इदंप्रथमतया एव एकस्मिन् दिने चत्वारि मरणानि आवेदयति। अनेन कोविड् बाधया राज्ये मृतानां संख्या 48 जाताः।

कोविड् प्रतिरोधकम्- प्रथमसोपाने ३७५ जनेषु परीक्षणम्- एयिंस् निदेशकः।

नवदिल्ली- अखिलभारतीय वैद्यकसंस्थानस्य-एयिंस्- कोविड् प्रतिरोधकपरीक्षणं प्रथमसोपाने ३७५ जनेषु विधास्यति इति निदेशकः रण्दीप् गुलेरिया असूचयत्।

प्रतिरोधकपरीक्षणाय १८०० जनाः एयिंस् जालपुटे पञ्जीकृतवन्तः। एषु ११२५ जनेषु परीक्षणं विधास्यति। प्रथमसोपाने ३७५ जनेषु परीक्षणेन प्रतिरोधकस्य सुरक्षितत्वं मात्रा च ज्ञातुं शक्यते।

द्वितीयसोपाने १२ तः ६५पर्यन्तं वयःपरिमितेषु ७०० जनेषु परीक्षणं भविता। तृतीयसोपाने अधिकाधिकेषु जनेषु परीक्षणं व्यापयिष्यति। तृतीयसोपानस्यन्ते परीक्षिताः विषाणुं प्रति यावत् प्रतिरोधकम् आर्जितवन्तः इत्यवगम्यते इत्यपि एयिंस् निदेशकः अवदत्।