वंगचलचित्रनटः सौमित्र चाट्टर्जी दिवङ्गतः।

कोल्कत्ता- वंगचलचित्रे विख्यातः नटः  सौमित्र चाट्टर्जी वर्यः कालकबलितः अभववत्। स 85 वयस्कः आसीत्। कोविड् बाधया ओक्टोबर् षष्ठे दिने स चिकित्सालयं नीतः आसीत्। स्व्स्थ्ये सन्निग्धे जाते स तीव्रपरिचरण विभागं नीतः। कोविड् ऋणावस्थां प्राप्तोपि  स मृत्युना अपहृतः।

     सत्यजित् राय वर्येण सह दशकत्रयं यावत् प्रवर्तननिरतः चाट्टर्जीवर्यः वंगचलचित्रे सार्वकालीनः कलाकारः आसीत्। अभिनेता, कविः, लेखकः, निदेशक इत्यादिषु रूपेषु स भारतीयचलचित्रस्य कीर्तिं आविश्वं प्रासारयत्।

     आकाशवाण्यां कर्म कुर्वन् स सत्यजित् राय् वर्येण मैत्रीं सम्पादितवान्। अनेन सौहार्देन स चलचित्ररंगं प्राप्तवान्। सत्यजित् राय वर्यस्य पञ्चजश चलचित्रेषु स नायकः आसीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *