Category Archives: News Updates

जे.इ.इ. नीट् परीक्षयोः परिवर्तनं नास्ति। परिवरितनीयमिति आवेदनं सर्वोच्चन्यायालयेन निरस्तम्।

नवदिल्ली- अखिलभारतीय वैद्यकप्रवेशकपरीक्ष (नीट्) तथा तान्त्रिककलाशालप्रवेशिका जे.इ.इ इति द्वे परीक्षे परिवर्तनीये इत्यावेदनं सर्वोच्चन्यायालयेन निरस्तम्। छात्राणां भाविजीवनम् अपघाते पातयितुं न शक्यते इति निरीक्ष्यमाणः न्यायाधीशस्य अरुण् मिश्रावर्यस्य आध्यक्ष्ये आयोजितस्य संवेशनस्यैव अयम निर्णयः।

     सेप्तम्बर् मासे एव नीट् जे.इ.इ. परीक्षां सञ्चालयितुं केन्द्रसर्वकारस्य निर्णय आसीत्। कोविड् रोगस्य भूमिकायां परीक्षापरिवर्तनमाववश्यकमिति आवेदयन्तः एकादशछात्राः एव सर्वोच्चन्यायालयं प्रावन्।

     परीक्षा संचालनार्थं सर्वान् प्रयत्नान् जागरूकतया करिष्यति इति सर्वकारस्य प्राड्विवाकः न्यायालयं समवबोधयत्। सुरक्षानिर्देशं परिपाल्य परीक्षासञ्चालनार्थं सन्नद्धाः इत्यपि परीक्षायोगः न्यायालयं प्राबोधयत्।

कोविड् योद्धृृृन् प्रति राष्ट्रं विधेयत्वं समर्पयति- राष्ट्रपतिः।

कोविड् योद्धृृृन् प्रति राष्ट्रं विधेयत्वं समर्पयति- राष्ट्रपतिः।

नवदिल्ली- कोविड् महामारी आविश्वं मानवजीवनं क्लेशकरमकरोदिति राष्ट्रपतिः रामनाथ कोविन्द् वर्यः अवदत्। स्वतन्त्रतादिवसमालक्ष्य सन्देशं ददन् भाषमाण आसीत् राष्ट्रपतिः। कोविड् प्रतिरोधाय बद्धकक्षेभ्यः आरोग्यपिरवर्तकेभ्यः स कृतज्ञतां व्याहरत्।

अस्मिन् वर्षे स्वतन्त्रतादिवसस्याचरणं भिन्नया रीत्या वर्तते। मारकः विषाणुः मानवजीवनाय भीषा जातः। जीवनस्य सर्वेषु मण्डलेषु अन्तरायश्च सञ्जातः। अस्मिन् साहचर्ये एव वयं स्वतन्त्रतादिवसम् आचरामः। रोगस्य तीक्ष्णतां न्यूनीकर्तुं बहून् मृत्योर्वक्त्रात् त्रातुं च वयं शक्ताः अभवाम।

वैविध्ययुक्ते भारते असाधारणेन परिश्रमेणैव वयं रोगप्रतिरोधार्थं शक्ताः जाताः। प्रादेश्कं साहचर्यं ज्ञात्वं तदनुसारं प्रवर्तितुं राज्यसर्वकाराश्च सज्जाः अभवन्। वन्दे भरत दौत्यद्वारा विश्वस्य विभिन्नभागेभ्यः प्रवासिभारतीयाः अत्रानीताः।

कोविड् बाधया जीवसन्धारणं स्थगितानां जनानां कृते प्रधानमन्त्री गरीब् कल्याण् योजनाद्वारा साहाय्यमदात्। स्वतन्त्रता संग्रामे महात्मागान्धिनः अनुचरा‌ वयं भाग्यवन्त एव इत्यपि राष्ट्रपतिः अवोचत्।

इरान् देशात् प्रस्थिताः चतस्रः तैलवाहिकानावः अमेरिकया बलात् गृहीताः।

वाषिङ्टण्- इरानात् प्रस्थिताः चतस्रः लैलवाहिकामहानावः अमेरिकया वलाद्गृहीताः इत्यावेद्यते। वेनस्वलां प्रति गच्छन्त्यः आसीत् एताः महानौकाः। लूणा, पान्डी, बेरिङ्ग् बेल्ला इत्येताः तैलवाहिकाः एव अमेरिक्कया गृहीताः। ट्रम्प् प्रशासनेन अयोजितम् उपरोधमुल्लङ्घ्य तैलव्यापाराय इरानेन उद्यतः इति दोषमारोप्यैव अमेरिक्कासंयिक्तराज्यसंघस्य अयमुद्यमः।

     गृहीताः महानौकाः हूस्टण् प्रापयितुं  अमेरिक्कया उद्यममारब्धः। लौकाः ग्रहीतुं सैनिकबलं नोपयुक्तमिति अमेरिका अधिकृतानां विशदीकरणम्। महानौकातः तैलेन्धनं ग्रहीतुं अमेरिक्कायाः नियमज्ञाः गते मासे व्यवहारं अवेदितवन्तः आसन्।

कृष्णशिलाखनीनां प्रवर्तनसम्ब्न्धी निर्णयः उच्चन्यायालयेन स्थगितः

कोच्ची- केरलराज्ये क़ृष्णशिलाखनीनां प्रवर्तनसम्बन्धी हरितव्यवहारासनस्य आदेशः उच्चन्यायालयेन स्थगितः। खनिप्रवर्तने जनावासक्षेत्रात् २०० मीट्टर् दूरपरिधिः व्यवहारासनेन कल्पितः आसीत्। एष एव उच्चन्यायालयेन स्थगितः। ५० मीट्टर् दूरपरिधिरेव सर्वकारेण कल्पितः आसीत्।

पालक्काट मण्डलात् आवेदितानां जनानाम् आवश्यं परिगणय्य एव हरितव्यवहारासनं निर्णयमदात्। एतद्विरुध्य कृष्णशिलाखनिस्वामिभिः दत्ते आवेदने एव उच्चन्यायालयस्य विधिनिर्णयः सञ्जातः। केवलं परिष्ठितिविभागस्य वादमङ्गीकृत्यैव हरितव्यवहारासनेन निरणयदित्यासीत् खनिस्वामिनां वादः।

उच्चन्यायालयस्य अऩेन निर्णयेन राज्ये तत्स्थित्यनुसारं खनीनां प्रवर्तनं भविष्यति। एतत् पर्यावरणस्य दोषायैव भवेदिति परिष्ठितिवादिनाम् अभिप्रायः।

विद्यालयानां प्रवर्तनं सद्यो न भविष्यति, शून्य अध्ययनवर्षत्वेन परिगणयितुं पर्यालोचना।

नवदिल्ली- कोरोणा विषाणोः व्यापनस्य भूमिकायां 2020 शून्याध्ययनवर्षत्वेन परिगणयितुं केन्द्रीय शिक्षामन्त्रालयस्य पर्यालोचना। अधुनातनं साहचर्यं अनुकूलं नास्तीति विचारविमर्शकारणेनैवायं निर्णयः। परं कलालयेषु विद्यालयेषु च वार्षिकं मूल्यनिर्णयम् आयोजयितुं शक्यते इति प्रतीक्षा असेतीति केन्द्र मानवशेषीविभागस्य सचिवः अमित् खरे वर्यः मानवविभवशेषीविभागस्य संसदीयस्थिरसमित्यधिवेशने प्रतीक्षां प्राकटयत्।

     अध्ययनवर्षम् अनुपेक्ष्य वार्षिकपरीक्षापूर्तये एव अधुना पर्यालोचना। प्रथमकक्ष्यातः द्वादशकक्षायापर्यन्तं  पठितवत्सु छात्रेषु षष्टिप्रतिशतं छात्राः सद्यस्कसेवा द्वारा पठितुं पारयन्ति। त्रिंशत् प्रतिशतं छात्राणां कृते रेडियो, टेलिविजन् प्रभृतीनि परिमितानि सौविध्यान्येव सन्ति। दशप्रतिशतं छात्राः सद्यस्कसेवाद्वारा कक्ष्यायां भागं गृहीतुं न शक्नुवन्ति इति सर्वेक्षणसूचना अस्ति।

     सम्पूर्णपिधानगात् परं पिहितान्  विद्यालयान्  पदे पदे पुनरुद्घाटयितुं पूर्वं निर्णयमासीत्। परन्तु विद्यालयानां पुनरुद्घाटनाय समयः न अनुकूलः इति विचिन्तनस्य आधारेण स निरणयः त्यक्तः।

मध्यकेरलेषु कठिना वृष्टिः, निम्नप्रदेशाः जलपूरिताः सञ्जाता।

कोट्टयम्- मध्यकेरलेषु दक्षिणकेरलेषु च कठिना वृष्टिः। पम्पा, अच्चन् कोविल्, मणिमला, मीनच्चिल् प्रभृतयः मध्यकेरलस्थाः नद्यः कूलङ्कषाः सञ्जाताः। पत्तनंतिट्टा, कोट्टयं प्रभृतिषु स्थलेषु निम्नप्रदेशाः जलैराप्लाविताः अभवन्। जलश्रेणिषु ऊर्ध्वं गच्छत्सु कुट्टनाट् प्रदेशे दुरिताश्वासशिबिराणि समारब्धानि।

पाला, कोट्टयं नगरयोः निम्नप्रदेशाः जलैराच्छादिताः। अयर्कुन्नं पेरूर् प्रभृतिभ्यः प्रदेशेभ्यः जनाः सुरक्षितदेशं नीताः। कुमरकं, अय्मनं, तिरुवार्प्, आर्पूक्करा पञ्चायत् स्थलेष्वपि जलोपप्लवः अभवत्।

इटुक्की मण्डले अद्यापि शोणजागरूकता घोषिता। परन्तु प्रातःकाले अतितीव्रवृष्टिः तत्र न जाता। मुल्लप्परियार् जलबन्धे जलश्रेणी उन्नता जाता। अनेन जागरूकतायै पेरियार् तटेषु अधिवसतः जनान् अधिकृताः असूचयन्।

आलप्पुषा मण्डले जलोपप्लवः अधिकतया दृश्यते। तत्र वृष्टेः ईषत्शमनमस्ति। तथापि पूर्वभागादागतैः जलपूरैः कुट्टनाट् प्रदेशस्थानि गृहाणि जलान्तर्भूतानि अभवन्।

कोषिक्कोट् विमानपत्तने विमानदुर्घटना।

करिप्पूर्- कोषिक्कोट् अन्ताराष्ट्रविमानपत्तने एयर् इन्ड्या एक्स्प्रस् विमानं अवतारणावसरे धावनमार्गात् स्खलित्वा अपघाते आपतितम्। दुबाय् देशात् कोषिक्कोट् पर्यन्तं आगतं विमानमेव एवम् अपघाते पतितम्। अपघाते विमानं द्विधा भग्नम् इत्यावेद्यते। ए.ऐ.१३४४ विमानं रात्रौ ७.४५ वादने एव मार्गात् स्खलितम्। अपघाते एकेन वैमानिकेन सह दश मृताः इति श्रूयते। बहवः रुग्णाः संजाताः। रुग्णान् चिकित्सालयं प्रावेशयत्। तेषु केचन अतितीव्रावस्थायां सन्ति। विमाने आहत्य १९१ यात्रिकाः आसन्।

अष्टवैद्यः इ.टि. नारायणन् मूस् वर्यः दिवंगतः।

तृशूर्- ओल्लूर् तैक्काट्टुश्सेरि ग्रामं विश्वप्रसिद्धं कृतवान् वैद्यश्रेष्ठः इ.टि. नारायणन् मूस् वर्यः कालयवनिकायाम् अन्तरधात्। स ८७ वयस्कः आसीत्। वैद्यरत्नम् इति व्यापारमुद्रितस्थापनानाम् अध्यक्षः तथा प्रबन्धननिदेशकश्चासीदयम्।

तैक्काट्टुश्शेरि एलेटत्त् तैक्काट् नीलकण्डन् मूस् देवकी अन्तर्जनं दम्पत्योः दशसु अपत्येषु एक एव पुत्रः अयं १९३३ सेप्तम्बर् १५ दिनाङ्के भूजातः अभवत्।

आयुर्वेदचिकित्सामण्डले अस्य समुन्नतं योगदानं परिकल्प्य राष्ट्रं तं पद्मभूषण् पुरस्कारेण बह्वमन्यत। अपि च प्रधानमन्त्रिणः स्वदेशीपुरस्कारेणापि अयं समादृतः।

केरलेषु प्राचीनकाले १६ अष्टवैद्यपरिवाराः आसन्। अधुना तु केवलं षडेव सन्ति। तेषु प्रमुखः भवति ब्रिट्टीष् सर्वकारेण वैद्यरत्नम् इति बहुमानितः एलेटत्त् मन। १९४१ तमे वर्षे पित्रा स्थापिता आसीत् वैद्यरत्नम् औषधशाला। १९५४ तमे वर्षे नारायणन् मूस् वर्यः तस्याः शालायाः सारथ्यमावहत्। अधुना वैद्यककलालयप्रभृतीनां बहूनां संस्थानां नियन्त्रणं वैद्यरत्नम् इति संधेन क्रियते।

अयोध्यायां श्रीराममन्दिरनिरमाणस्य शुभारम्भः आगस्त् 5 दिनाङ्के।

दिल्ली- आयोध्यायां श्रीरांमन्दिरनिर्माणं श्वः आरभते। प्रधानमन्त्रिणः सन्दर्शनमभिलक्ष्य मन्दिरनगर्याः सुरक्षा केन्द्रसेनया स्वायत्तीकृता। कोविड् महामार्याः करालहस्तेपि अयोध्यानगरं मन्दिरभूमिपूजार्थं सज्जमभवत्। श्वः एकादशवादनेन प्रधानमन्त्री नरेन्द्रमोदीवर्यः मन्दिरनगरीं प्राप्स्यति। प्रथमं हनूमान् मन्दिरं प्राप्य तत्र प्रधानमन्त्री दशनिमेषपर्यन्तं स्थास्यति। ततः सार्धैकादशवादने मन्दिरभूमिपूजासमारोहे भागं गृहीष्यति। भूमिपूजानन्तरं मन्दिराङ्गणे प्रधानमन्त्री  पारिजातवृक्षं रोपयिष्यति।

    उत्तरप्रदेशमुख्यमन्त्रिणमभिव्याप्य पञ्च जनाः एव प्रधानमन्त्रिणा साकं वेदिकायां भविष्यति। 150 आमन्त्रितेषु 133 जनाः सन्यासिनः भवन्ति। एतैः सह उत्तरप्रदेशस्य सुन्नी वखफ् बोर्ड् अध्यक्षः सफर् फारूखी अयोध्याव्यवहारे आवेदकः इख्बाल् अन्सारी च तत्र भविष्यति। तस्मिन्नन्तरे कोविड् व्यापनस्य भूमिकायाम् एतादृशस्य समारोहस्य समायोजनं विरुध्य वामपक्षीयप्रभृतिभिः राजनैतिकदलैः विरोधः प्रकटितः।

संस्कृतवाराचरणम्।

नटवरम्ब:- नटवरम्ब सर्वकारीयोच्चविद्यालये संस्कृतवाराचरणस्य उद्घाटनं वेलूक्कर ग्रामपञ्चायत्त् अध्यक्षा श्रीमति उचिता सुरेष् निरवहत्। नटवरम्ब विद्यालयस्य शताब्दिनिमित्तं निर्मिते “SMART SANSKRIT ” इति वाट्साप् गणे कार्यक्रममिदं प्राचलत्। अस्मिन् वाट्साप् गणे शतदिनात्मकं निश्शुल्कसंस्कृतपठनं प्रचलन्नस्ति। रक्षाकर्तृसमितेः अध्यक्षः श्री अनिलः आध्यक्षपदम् अलङ्कृतवान्। कालटी सर्वकलाशालायाः व्याकरणविभागस्य प्राचार्यः डोः एम्. वि नटेशः मुख्यभाषणम् अकरोत्। हयर् सेक्कन्टरि विभागाध्यक्षः श्री नासरुद्दीन् अध्यापकप्रतिनिधिः श्री ताजुद्दीन् ,हयर् सेक्कन्डरिविभागस्य संस्कृताध्यापकः डोः महेष् बाबु प्रभृतयः आशंसाः समर्पयन्। हैस्कूल् प्रधानाध्यपिका श्रीमति लालिटीच्चर् स्वागतभाषणम् अकरोत्। हैस्कूल् विभागस्य संस्कृताध्यापकः श्री सुरेष् बाबु कृतज्ञतां व्याहरत्। सम्मेलनानन्तरं कृतिःइति संस्कृतसङ्गीतशिल्पं प्रादर्शयत् ।