Category Archives: News Updates

कोविड्-19- भारते समाजाभिव्यापनं सम्पन्नमिति भारतीयवैद्यकनिकायः।

नवदिल्ली- भारते कोविड् रोगस्य समाजाभिव्यापनं सम्पन्नमिति भारतीय-वैद्यक-निकायः(I.M.A.). राष्ट्रे एतावत्पर्यन्तं समाजव्यापनं न जातमिति केन्द्रीय-स्वास्थ्यमन्त्रालयस्य वादावृत्तेरन्तराले एव भिषग्वराणाम् अयमभिप्रायः।

     राष्ट्रे एतदभ्यन्तरे कोविड् समाजाभिव्यापनं समभवत्। इतः परं भारते स्थितिः सङ्कीर्णा भवेत्। रोगव्यापनं रूक्षं भवेत् इत्यपि ऐ.एम्. ए. अधिकारी वि.के. मोङ्गा अवदत्।

     प्रतिदिनं राष्ट्रे 30000 इति क्रमेण रोदबाधितानां संख्या वर्धते। अधुना ग्रामप्रदेशेष्वपि रोगव्यापनं तीक्ष्णं भवति। अतः समाजव्यापनमेव सूचयति।

     केरले तिरुवनन्तपुरं मण्डले द्वयोः प्रदेशयोः समाजव्यापनं सञ्जातमिति मुख्यमन्त्री पिणरायि विजयन् वर्यः अवदत्। राष्ट्रे सर्वकारीणतले एव समाजव्यापनस्य स्थिरीकरणं केरले एव जातम्।

कोविड् रोगव्यापनम्- तिरुवनन्तपुरं समुद्रतटप्रदेशेषु पूर्णपिधानं विधास्यति। तटप्रदेशः तिस्रः मेखलाः परिकल्प्य प्रतिरोधः।

तिरुवनन्तपुरम्- कोविड् रोगव्यापने वर्धमाने तटप्रदेशेषु पूर्णपिधानं विधास्यतीति मुख्यमन्त्री अवदत्। आगामिनि दिने एतदर्थम् आदेशः दीयते इति अवलोकनयोगानन्तरं मुख्यमन्त्री वार्ताहरान् व्यजिज्ञपत्।

प्रतिरोधप्रवर्तनानि सफलानि कर्तुं तटप्रदेशः मेखलात्रयरूपेण पर्यकल्पयत्। अञ्चुतेङ् आरभ्य पेरुमातुरा पर्यन्तं प्रथममेखला, पेरुमातुरा तः विषिञ्ञं पर्यन्तं द्वितीयमेखला, विषिञ्ञं आरभ्य ऊरम्प् पर्यन्तं तृतीयमेखला च। अत्र स्थितिगतीः नियन्त्रयितुं आरक्षिदलं नियुक्तमित्यपि मुख्यमन्त्री अवदत्।

प्रति मेखलं द्वौ भारतीयप्राशासनिकसेवा राजपुरुषौ दायित्वं स्वीकरिष्यतः। तटप्रदेशे यात्रार्थं निरोधः आयोजितः। अवश्यकार्यायैव यात्रोद्यमः भवेयुरिति मुख्यमन्त्री अवदत्।

केरले प्लस्-टु, वि.एच्.एस्.इ. परीक्षापरिणामः अद्य घोषयिष्यति।

तिरुवनन्तपुरम्- केरलराज्ये प्लस्-टु (उच्चतरविद्यालयः) वि.एच्.एस्.इ.(वृत्तिविषयक उच्चतरविद्यालयः) परीक्षापरिणामः अद्य धोषयिष्यति। अद्य मध्याह्नादूर्ध्वं द्विवादने शिक्षामन्त्री प्रो. सी. रवीन्द्रनाथवर्यः परीक्षाफलं धोषयिष्यति।www.keralaresult.nic.in इति जालपुटे परीक्षाफलं लप्स्यते। डि.एच्.एस्.इ.  पि.आर्.डि. कैट्  जालपुटेष्वपि फलं लभेत। पि.आर्.डि, लैव, सफलं 2020 मोवैल् आप् द्वारा अपि परीक्षापरिणामं ज्ञातुं शक्यते। सि.बि. एस्.इ दशमकक्ष्यापरीक्षाफलमपि अद्य घोषयिष्यति।

श्रीपद्मनाभस्वामिमन्दिरप्रशासने राजपरिवारस्यापि अधिकारः-सर्वोच्चन्यायालयः।

नवदिल्ली- श्रीपद्मनाभमन्दिरे तिरुवितांकूर् राजपरिवारस्य अधिकारः सर्वोच्चन्यायालयेन व्यवस्थापितः। मन्दिरं सर्वकारेण स्वायत्तीकरणीयम् इति केरलीय-उच्चन्यायालयस्य निर्णयं विरुध्य राजपरिवारेण समर्पिते आवेदने एव अधुना सर्वोच्चन्यायालयस्य निर्णायकः विधिनिर्णयः।

     पद्मनाभस्वामिमन्दिरस्य प्रशासनाय नूतना समितिः आयोजनीया इति न्यायालयेन आदेशो दत्तः। तावत्पर्यन्तं मण्डलन्यायाधिपस्य आध्यक्ष्ये अधुना स्थितायाः समितेः मन्दिरप्रशासनम् अनुवर्तयितुम् अधिकारः अस्ति। न्यायाधिशः यु.यु. ललित् वर्यस्य आध्यक्ष्ये आयोजितस्य संवेशनस्यैव एष निर्णयः।

     पद्मनाभस्वामिमन्दिरं राज्ञः परम्परायै दातुं व्यवस्था नास्तीति सूचयन्नेव 2011 संवत्सरे मन्दिरं सर्वकारेण स्वायत्तीकरणीयमिति उच्चन्यायालयेन आदेशो दत्तः आसीत्। एनं निर्णयं विरुध्यैव राजपरिवारः सर्वोच्चन्यायालये व्यहारं नीतवन्तः।

ऐश्वर्या राय् बच्चन्, पुत्री आराध्या च कोविड् बाधिते।

मुम्बै- विख्यातः अभिनेता अमिताब् बच्चन् तस्य पुत्रः अभिषेक् बच्चन् च कोविड् रोगबाधया चिकित्सालयं प्रवेशितावास्ताम्। तत्पश्चात् बच्चन् वर्यस्य स्नुषा ऐश्वर्या राय् बच्चन्, पौत्री आराध्या बच्चन् च रोगबाधिते जाते।

पूर्वं द्वयोः आन्टीजन् परिशोधनायां रोगः न स्थिरीकृतः आसीत्। परन्तु स्रवपरिशोधनायाम् अधुना रोगबाधा स्थिरीकृता।

एकस्यां दीर्घपीठिकायाम् एकः छात्रः, महाराष्ट्र राज्ये द्वयोः मण्डलयोः विद्यालयाः प्रवर्तनमारब्धाः।

मुम्बै- एकस्मिन् वर्गे १५ छात्राः इति क्रमेण महाराष्ट्र राज्ये विद्यालयाः पुनरुद्घाटिताः। मुखावरणं धृत्वा एकस्मिन् दीर्घासन्दे एकः छात्रः इति क्रमेण द्वयोः मण्डलयोः विद्यालयाः एव प्रवर्तनमारब्धाः। चन्द्रपुर् गाद्चरोलि मण्डलयोः एव विद्यालयाः प्रवर्तनमारब्धाः।

एतयोः मण्डलयोः कोविड् रेगबाधितानां संख्या न्यूना जाता इत्यतः ९,१०,१२ वर्गाणां प्रारम्भाय राज्यशिक्षाविभागः जूण्-१५ दिनाङ्के मार्गनिर्देशमदात्।

जूलै ३१ पर्यन्तं राष्ट्रे विद्यालयाः पिहिताः भवेयुरिति केन्द्रसर्वकारस्य निर्देशमस्ति। तं निर्देशं विरुध्यैव महाराष्ट्रे विद्यालयानां पुनरुद्घाटनाय निर्णयो जातः।

उच्चतरविद्यालयपरीक्षायाः फलप्रख्यापनतिथिः अग्रे गता।

तिरुवनन्तपुरम्- केरलराज्ये उच्चतरविद्यालयीपरीक्षायाः फलप्रख्यापनम् आयामितम्। अनन्तपुर्यां त्रितलपिधाने घोषिते एव फलप्रख्यापनतिथिः आयामिता। अस्मिन् मासे दशमदिनाङ्के फलप्रख्यापनं भवेदिति पूर्वं सूचितमासीत्। परन्तु पूर्णपिधानकारणेन परीक्षामण्डलस्य अधिवेशनं न शक्यमासीत्।

     परीक्षापत्राणां मूल्यनिर्णयं सम्पूर्णमभवत्। वोकेशनल् हयर् सेकण्टरि परीक्षायाः अपि फलं दशमदिनाङ्के प्रख्यापनीयमासीत्। तदपि आयामितम्।

सचिवपदव्याः निष्कासितः शिवशङ्कर् वर्यः विरामे प्रविशति।

तिरुवनन्तपुरम्- सूचना-तान्त्रिकविद्या सचिवः एं शिवशङ्करवर्यः विरामाय प्रार्थनामदात्। सुवर्णवहनव्यवहारे लग्नया स्वप्ना सुरेष् इति युवत्या सह सम्बन्धमारोप्य सः सचिवपदव्याः निष्कासितः आसीत्।
एतदनन्तरमेव स विरामाय प्रार्थनापत्रमदात्। षण्मासपर्यन्तं विरामं स्वीकर्तुम् अनुमत्यै एव स प्रार्थितवान्।
ऐक्य अरब् राष्ट्रव्यूहे वाणिज्यदूतकार्यालयसम्बन्धिनि व्यवहारे मुख्याभिशस्तेति सन्दिह्यमानया स्वप्ना सुरेष् इति युवत्या सह शिवशङ्करस्य अतिपरिचयः अस्तीति सूचनया बह्यः उक्तयः आसीत्। विपक्षिदलनेता रमेश् चेन्नित्तला, भा.ज.पा. राज्यस्तरीयाध्यक्षः के. सुरेन्द्रन् च मुख्यमन्त्रिणं शिवशङ्करं च तीक्ष्णरूपेण विमर्शितवन्तौ।

सुवर्णवहने लग्नानां कृते मुख्यमन्त्रिणः कार्यालयेन सम्बन्धः अस्तीति विपक्षारोपम् अभिलक्ष्यैव ऐ.टी. सचिवं स्वस्थानात् निरकासयत्।

पूर्वलडाक् सीमां प्रति भारतम् अधिकानि सेनाङ्गानि न्ययोजयत्, उत्तरप्रदेशात् 15000 सैनिकाः।

देहली- पूर्वलडाक् सीम्नि भारतम् अधिकानि सेनाङ्गानि न्ययोजयत्। उत्तरप्रजेशात् 15000 सैनिकानाम् आगमनेन सीमायां भारतीयसैनिकानां संख्या 50000 अतीताः टि-90 विचक्रपरिवाहानभिव्याप्य सर्वे सन्नाहाः तत्र आयोजिताः। पूर्वमेव तिस्रः सेनाकक्ष्या विचक्रपरिवाहाश्य सीमायामासन्।

     गतदिने सम्पन्नायाम् उच्चतलसेनाचर्चायां स्वीकृतां समयामनुसृत्य स्वकीयान् सेनासन्नाहान् प्रत्याययितुं यदि चीना सन्नद्धः भवेत् तर्हि समानरीत्या भारतसेनायाः अपि  प्रतिनिवर्तनं भविता। तावत्पर्यन्तं सेनाविन्यासः तत्रैव तिष्ठेत्।

     निमनोन्नतप्रदेशस्थेन पर्यावरणेन सह अनुपदं समीकृत्यैव सेनाङ्गानि 14000 पदपरिमितां सीमां प्रापयत्।

राष्ट्रिय-योग्यता-प्रवेशकपरीक्षा (नीट्) सेप्तम्बर् १३ दिनाङ्के तथा मुख्य सहयोगप्रवेशकपरीक्षा (जे.ई.ई. मेयिन्) सेप्तम्बर् प्रथमतः षष्टदिनाङ्कपर्यन्तम्।

नवदिल्ली- जूलै अन्तिमे वारे आयोजनीये जे.ई.ई., नीट् परीक्षे आयामिते। कोविड् व्यापनसाहचर्ये छात्राणां सुरक्षां परिगणय्यैव परीक्षयोः परिवर्तनं निर्णीतमिति केन्द्रीय मानवसंसाधनमन्त्री रमेश् पोख्रियाल् वर्यः अवदत्।

नीट् परीक्षा सेप्तम्बर् १३ दिनाङ्के चालयिष्यति। जे.इ.इ. परीक्षा सेप्तम्बर् १ तः ६ पर्यन्तमपि भविता। जे.इ.इ. अड्वान्स् परीक्षा सेप्तम्बर् २७ दिनाङ्के चालयिष्यति। कोविड् व्यापनमभिलक्ष्य द्वितीयवारमेव एताः परीक्षाःपरिवर्तिताः।