पादकन्दुकक्रीडकरत्नं डीगो मारडोणा कालयवनिकान्तर्गतः।

ब्यूणस् ऐरिस्- पादकन्दुकक्रीडाक्षेत्रे इतिहासतारं डीगो अरमान्डो मारडोणा अन्तरितः। स 60 वयस्कः आसीत्। मस्तिष्के रक्तं घनीभूय अवशतां प्राप्तः स गतदिने शस्त्रक्रियाम् अधिगतवानासीत्। अपि च प्रत्यावर्तिसूचनामपि तस्मिन्नासीत्। मरणकारणं हृदयाघात एव।

     1960 ओक्टोबर् मासे अर्जन्टीना राष्ट्रे ब्यूणस् ऐरिस् स्थले विल्ल फियोरित्तो प्रविश्यायां लानस् जनपदे एव तस्य जन्म अभवत्। नवमे वयसि एव स्व प्रदेशे उत्कृष्टः पादकन्दुकक्रीडकः इति ख्यातिमवाप्तवानयम्।

     2003 पर्यन्तं अर्जन्टीना क्रीडकसंघे अयं वयसा कनिष्ठः आसीत्। 1976 थः 1981 पर्यन्तं 166 प्रतियोगितासु क्रीडयन्नयं 111 लक्ष्यकन्दुकं प्राप्तवान्। विश्वचषकक्रीडायां बहुवारं स अर्जन्टीना राष्ट्रस्य कृते क्रीडाङ्गणं प्रविष्टवान्। 1997 वर्षे स्वकीये जन्मदिने स पादकन्दुकक्रीडाक्षेत्रात् विरराम।

Leave a Reply

Your email address will not be published. Required fields are marked *