Category Archives: News Updates

राष्ट्रपतिचरः प्रणव् मुखर्जीवर्यः ऐहिकं देहं तत्याज।

दिल्ली-  भूतपूर्वराष्ट्रपतिः प्रणव् मुखर्जीवर्यः निर्यातः। स 84 वयस्कः आसीत्। देहल्यां सैनिकचिकित्सालये चिकित्सायामासीत्। तस्मिन् कोविड् रोगः स्थिरीकृतः आसीत्। मस्तिष्के रक्तस्रावेन द्रुतशस्त्रक्रियार्थं नीतः तदनन्तरं कृतकजीवसन्धारणे आसीत्। दिनानि यावत् गुरुतराम् अवस्था सन्तीर्य अद्य मृत्यवे वशंवदो जातः।

     अर्धशतकं यावत् भरतस्य राजनैतिकक्षेत्रे अतुलं योगदानम् अनेन दत्तम्। तस्मिन् शासनचातुर्यं प्रायोदिकराजनैतिकतां च समञ्जसेन मेलितमासीत्। केन्द्रीय मन्त्रिमण्डले बहुवारं स अङगमासीत्। अतः प्राय सर्वेष्वपि विभागेषु स स्वकीयं शासनसामर्थ्यं प्राकटयत्।

     2012 तमे वर्षे स भारतस्य राष्ट्रपतिपदे नियुक्तः। पञ्चवर्षाणि यावत् राष्ट्रपतिपदे स शुशुभे। तथापि कोविड् महामारिणा स कालकबलीभूतो अभवत्।

अद्य श्रावणोत्सवः, अस्माकं देशीयोत्सवः।

अद्य विश्वे सर्वत्र केरलीयाः श्रावणोत्सवं समाचरन्ति। कोविड् भीत्या परिमितरूपेणैव सर्वत्र उत्सवारम्भः। अस्मिन् पर्वणि सर्वेभ्यो अनुवाचकेभ्यो नववाणीसंघस्य श्रावणोत्सवशुभकामनाः।

पुनरुद्घाटनं चतुर्थसोपानम् प्रख्यापितम्- मेट्रो रेल्यानसेवा अनुमिता। परिमित्या अधिवेशनस्य अनुमतिः।

नवदिल्ली- कोविड्प्रतिरोधाय पिहिते राष्ट्रसौविध्ये पुनरुद्घाटनस्य चतुर्थसोपानार्थं मार्गरेखा केन्द्र गृहमन्त्रालयेन उद्घोषिता। सोप्तम्बर् प्रथमतः त्रिंशत् दिनाङ्कपर्यन्तमेव पुनरुद्घाटनं चतुर्थसोपानम्। विद्यालयाः दृश्यशालाःव्यायामशालाश्च पिहिताः एव स्थास्यन्ति। नवमतः द्वादशपर्यन्तं वर्गेषु पठनं कुर्वन्तः छात्राः  विद्यालयं प्राप्य शिक्षकैः साकं संशयनिवृत्तिः तथा उपदेशस्वीकारं च कर्तुं पारयन्ति। एतदर्थं रक्षाकर्तृृणामनुमतिः लिखितरूपेण दातव्यम्। नियन्त्रितमेखलायाम् अस्यानुमतिः न भविता। जालाधारितकक्ष्या प्रभृतीनां सेवानां कृते विद्यालयेषु सेप्तम्बर् 21 प्रभृति 50 प्रतिशतं शिक्षकेभ्यः आगन्तुम् अनुमतिः प्रदत्ता।

     सेप्तम्बर् सप्तमतिथेरारभ्य मेट्रो रेल्सेवा भविता। 21 तः आरभ्य सार्वजनीनाधिवेशनाय सोपाधिकी अनुमतिः प्रदत्ता। राजनैतिक- विनोद- कायिक- धर्मपर-  सामाजिक-सास्कृतिककार्यक्रमान आयोजयितुं शक्यते। अत्र अङ्गानां संख्या एकशते परिमिता। कोविड् मानदण्डानुसारमेव कार्यक्रमाः आयोजनीयाः। सेप्तम्बर् 30 पर्यन्तं नियन्त्रितमेखलासु नियन्त्रणानि अनुवर्तेरन्।

पोपुलर् फिनान्स् इति आर्थिकनिर्वादव्यवहारे संस्थास्वामिनौ गृहीतौ।

तिरुवनन्तपुरम्- कोन्नी स्थले प्रवर्तमाने पोपुलर् फिनान्स् इति संस्थाने प्रवृत्तम् आर्थिकनिर्वादमभिलक्ष्य संस्थायाः स्वामिनौ गृहीतौ। प्रबन्धकनिदेशकः तोमस् डानियेल् तस्य पत्नी तथा प्रबन्धकसहयोगी च प्रभा डानियेल् इत्येतौ चङ्ङनाश्शेरि स्थले आरक्षिभिः गृहीतौ इति मुख्यमन्त्री वार्ताहरसम्मेलने असूचयत्।

इमं व्यवहापमन्वेष्टुं पत्तनंतिट्टामण्डलस्य आरक्षिदलाधिकारिणः के.जी. सैमण् वर्यस्य नेतृत्वे २५ अङग अन्वेषणसंघः रूपीकृतः इत्यपि मुख्यमन्त्री अवदत्। दक्षिणमेखला आरक्षिदलनेत्री श्रीमती हर्षिता अट्टल्लूरी वर्या अन्वेषणप्रगतिम् अवलोकयिष्यति। अस्य आर्थिकनिर्वादस्य प्रभावः विदेशेष्वपि वर्तते इत्यतः इन्टर् पोल् इत्यन्वेषणसंधस्य साहाय्यमपि मार्गयतीत्यपि मुख्यमन्त्री अवदत्।

कोन्नी वाकयार् आस्थानत्वेन प्रवृत्तमानायाम् अस्यां संस्थायां २००० कोटि रूप्यकाणां आर्थिकनिर्वादमस्तीति आरक्षिदलेन सूचितम्।

अन्तिमपादपरीक्षा अवश्यम् आयोजनीया- सर्वोच्चन्यायालयः।

नवदिल्ली- विश्वविद्यालयैः अन्तिमपादस्नातकपरीक्षा ध्रुवम् आयोजनीया इति सर्वोच्चन्यायालयः। परीक्षादिनाङ्कानाम् आयामार्थं राज्यानि विश्वनिद्यालयान् निर्देष्टुं श्क्यन्ते इत्यपि न्यायालयः शुक्रवासरे व्यक्तमकरोत्।

     अन्तिमपादपरीक्षाणाम् आयोजनमनुबन्ध्य विश्वविद्यालयनुदानायोगस्य निर्देशान् विरुध्य समर्पिते आवेदने विधिनिर्णयं कुर्वन्नासीत् न्यायालयः।अशोक् भूषण्,  सुभाष् रेड्डी, एम् आर् षा इत्येते न्यायाधिपाः सन्निहिताः आसन्।

     सेप्तम्बर् 30 दिनाङ्काभ्यन्तरे परीक्षाः आयोजनीयाः इत्यासीत् विश्वविद्यालयानुदानानयोगस्य निर्देशः। एतत् परिवर्तनार्थं राज्यानि विश्वविद्यालयं निर्दिशन्तु इति सर्वोच्चन्यायालयः असूचयत्।

भारतस्य आर्थिकव्यवस्थायां समस्यायाः कारणं सर्वकारेण आयोजितं पूर्णपिधानमिति सर्वोच्चन्यायालयः।

नवद्ल्लीः सम्पूर्णपिधानं कर्शनरूपेण आराष्ट्रम् आयोजितम् इत्यतः भारतस्य आर्थिकव्यवस्थायां समस्याः सञ्जातेति सर्वोच्चन्यायालयेन निरीक्षितम्। कृष्णागार देयमधिकृत्य सत्यप्रस्तावना समर्पणे कालविलम्भं मा भूदिति न्यायालयः केन्द्रसर्वकारं निरदिशत्।

     रिसर्व बेंकेन निर्णयः स्वीकृतः इति सर्वकारः। परन्तु न्यायालयः रिसर्वबेङ्कं प्रत्युत्तराय निरदिशत्। तत्र सर्वकारः रिजर्वबेङ्कस्य पश्चात् निलीय तिष्ठति इत्यपि न्यायालयेन सूचितम्। ऋणप्रत्यर्पणसमये वृद्धिस्वीकाररीतिं समाक्षिप्य न्यायालयेन वादः श्रूयते।

केरलविधानसभायाः विशेषाधिवेशनम् समारब्धम्, सर्वकारं विरुध्य अविश्वासाव्याक्षेपं प्रस्तोतुं विपक्षसन्नाहः।

तिरुवनन्तपुरम्- केरलविधानसभायाः विशेषाधिवेशनं समारब्धम्। प्रातः नववादने आर्थिकविधेयकस्य अवतारणं प्रचलति। सुवर्णप्रेषणविवादस्य भूमिकायां सर्वकारं विरुध्य विपक्षदलं सभायाम् अविश्वासाव्याक्षेपं प्रस्तोष्यति। प्रातः दशवादने ्व्याक्षेपमधिकृत्य चर्चा प्रचलिष्यति।

कोण्ग्रेस् दलसदस्यः वि.डि. सतीशन् वर्येण प्रस्तूयमाने  अव्याक्षेपे पञ्चहोरापरिमितेन समयेन चर्चां समापयिष्यति। अविश्वासाव्याक्षेपंस्य समर्थनाय ऐक्य-प्रजातन्तरसख्यस्य सर्वान सदस्यान् संघनेता  निरदिशत्। परन्तु तत्र केचन अस्य समर्थनं न विधास्यन्ति इति सूचना अस्ति।

कोविड् व्यापनं वर्षद्वयाभ्यन्तरे नियन्त्रणविधेयम भविष्यति इति विश्व-स्वास्थ्य संघटना।

जनीवा- कोविड् रोगव्यापनं वर्षद्वयाभ्यन्तरे नियन्त्रणविधेयं भविष्यतीत्येव प्रतीक्षा इति विश्वस्वास्थ्यसंघटना नेता टेड्रोस् अथानों गेब्रियेसस् वर्यः अवदत्। 1918 तमे वर्षे व्यापितं स्पानिष् फ्लू नामकस्य आमयस्य शमनार्थं वर्षद्वयं यावत् प्रतिपालितम् इत्यपि तेन सूचितम्। परन्तु तदानीन्तनाम् अवस्थामपेक्ष्य अधुना तान्त्रिकविद्यायाः प्रभावेण रोगव्यापनम् अल्पेन कालेन रोद्धव्यमासीत् इत्यपि स अवादीत्।

     अधुना जनानां परस्परमेलनस्य साहचर्यम् अधिकं वर्तते इत्यतः विषाणुव्यापनस्य साध्यता अपि अधिका भवति। सममेव एतत् प्रतिरोद्धुं तान्त्रिकतासाध्यता अपि विश्वे वर्तते। राष्ट्रीयैक्यं तथा आगोल-ऐक्यदार्ढ्यस्य प्राधान्यमपि तेन पृथक् सूचितम्।

विद्यालयीयपाठ्यक्रमेषु अस्मिन् वर्षे न्यूनीकरणं न भविष्यति।

तिरुवनन्तपुरम्- २०२०-२१ अध्ययनवर्षे विद्यालयपाठ्यक्रमेषु न किमपि न्यूनीकरणम् आवश्यकमिति सार्वजनीनशिक्षामन्त्री प्रो.सी. रवीन्द्रनाथवर्यस्य आध्यक्ष्ये समुपविष्टस्य पाठ्यचर्या नियन्त्रणसमितेः निर्णयः। अधुना प्रचाल्यमाना अङ्गीयकक्ष्या अधिकफलप्रदरीत्या आयोजयिष्यति।

केन्द्रीय-राज्यसर्वकारयोः निर्णयमनुसृत्य विद्यालयानां पुनःप्रवर्तनसाध्यता परीक्षणीया इत्यपि समितिः निरदिशत्। कोविड्-१९ काले अङ्कीयाध्ययने केरलदेशः विश्वे आदर्शरूपेण वर्तते, अतः राष्ट्रे प्रथमस्थानमावहति इति मन्त्री अवदत्।

जालाधारितकक्ष्यायां कला-कायिकाभ्यासस्यापि स्थानं, भिन्नशेषिछात्राणां तथा गिरिवर्गछात्राणां च पठने विशेषपरिगणनां प्रदास्यति। कोविड् काले अनुस्यूतपठनाय प्रवर्तनपद्धतेः आसूत्रणार्थं द्विसप्ताहाभ्यन्तरे आवेदनं समर्पयितुं एस.सी.इ.आर्.टी. निदेशकं डो.जे. प्रसाद् वर्यं निरदिशत्। एतदर्थं विदग्धसमितिः रूपवत्करोति।

विख्यातः हिन्दुस्थानि संगीतज्ञः जस् राज् वर्यः दिवङ्गतः।

नवदिल्ली- हिन्दुस्तानि संगीते निष्णातः पण्डित् जस् राज वर्यः पञ्चत्वं प्राप। अमेरिक्कायां न्यूजेर्सी स्थले आसीत् तस्य अन्त्यम्। अयं पद्मविभूषणपुरस्कारेण आदृतः आसीत्।

     भारते विदेशेष्वपि सहस्रपरिमितेषु संगीतसंवेशनेषु संगीतमालपन् अयं आविश्वम् आराधकानां प्रियङ्करः अभवत्। हिन्दुस्थानि संगीते मेवाति घराना सम्प्रदाये अयं महाप्रतिभ- ासीत्। भारतस्य अन्तः बहिश्च निरवधिकानां संगीतविद्यालयानां स्थापकः अस्त्ययम्। सप्तर्षी चक्रवर्ती, रमेश् नारायण् प्रभृतयः तस्य शिष्यप्रमुखाः सन्ति।

     तबलावादकरूपेण अयं संगीतलोकं प्रव्वेश। अनन्तरं गानरंगे चिरप्रतिष्ठितः। हृदयाघातः एव मृत्युकारणम्। तस्य महाशयस्य वियोगे प्रधानमन्त्री नरेन्द्रमोदी अन्वशोचयत्।