भारत-इङ्ग्लेन्ट् क्रिक्केट् क्रीडापरम्परायाः आद्य शुभारम्भः।

चेन्नै- भारत-इङ्ग्लेण्ड् राष्ट्रयोः मिथः क्रिक्केट् क्रीडास्पर्धा अद्य समारभते। चेन्नैपुर्यां एं.ए. चिदम्बरं क्रीडाङ्कणे प्रातः 9.30 वादने समारभमाणा स्पर्धा स्टार् स्पोट्स् इति नालिकया तत्समयं समप्रेष्यते। अधिजालिकरूपेण होट्स्टार् नालिकायामपि स्पर्धां वीक्षितुं सुविधा अस्ति।
भारतं इङ्ग्लेण्ट् च अस्मिन् क्रीडाङ्कणे नववारं परस्परं प्रतियोगितां व्यतनुताम्। इतः पूर्वं 2016 तमे वर्षे आसीत् प्रतियोगिता। तस्मिन् मत्सरे भारतं 75 धावनाङ्कैः विजयमवाप। इङ्ग्लेण्ट् राष्ट्रं 1985 तमे वर्षे इतः विजयमवाप। अनया क्रीटया विश्व टेस्ट् क्रिक्केट् परमपरायां अन्तिमचरणे न्यूसिलाण्टस्य प्रतियोगी कः इति निश्चेतुं शक्यते।
Leave a Reply