Category Archives: News Updates

भारते कोविड् रोगिणां संख्या 50 लक्षमतीता। गते 24 होराभ्यन्तरे 90123 रोगिणः।

दिल्ली- भारते कोविड् रोगिणः 50 लक्षमतीताः। गते 24 होराभ्यन्तरे 90123 जनाः अपि कोविड् बाधिताः अभवन्। अनेनैव रोगिणां संख्या 50 लक्षमतीता। अनेन विश्वे कोविड् रोगिणां संख्या 50 लक्षमतीतेषु राष्ट्रेषु भारतं द्वितीयस्थाने वर्तते। अमेरिका राष्ट्रमेव प्रथमस्थाने वर्तते।

     भारते गते 24 होराभ्यन्तरे 1290 जनाः कोविड् बाधया मृताः। एव राष्ट्रे कोविड् बाधया मृतानां संख्या 80776 जाता। 5020380 जनेभ्यः एव कोविड् रोगः भारते स्थिरीकृतः। एषु 995933 जनाः अधुना कोविड् चिकित्सायां सन्ति। 3942361 जना कोविड्मुक्ताः अभवन्।

     आशङ्का एवं वर्तते यत् 50 लक्षं कोविड् रोगिषु दशलक्षं जनाः गते 11 दिनाभ्यन्तरे एव रोगिणः संजाता इति। परं प्रथमं दशलक्षं रोगिणः 167 दिनेनैव रोगावेदिताः अभवन्। शिष्टानां 40 लक्षं जनानां रोगस्थिरीकरणं 61 दिनाभ्यन्तरे संजातम्। राष्ट्रे प्रतिदिनं रोगिणां संख्या ऊर्धं गच्छतीति अनेन सूच्यते।

संसदः वर्षाकाल अधिवेशनं समारब्धम्।

दिल्ली-  कोविड् मानदण्डं कर्शनतया पालयन् संसदः वर्षाकालाधिवेशनम् अद्य समारब्धम्। लोकसभा राज्यसभायोः मेलनं चतुर्होरावधिकं पृथक् भविष्यति।

     प्रातः नववादने लोकसभाक्रमस्य समारम्भः अभवत्। स्वर्गीयाः राष्ट्रपतिचरः प्रणव् मुखर्जी वर्यः, संगीतज्ञः पण्डित् हस्राजः, भूतपूर्वः चण्डीगड् मुख्यमन्त्री अजित् जोगी, मध्यप्रदेश् राज्यपालः लाल्जी टण्टन्, इत्येतेषाम् आदराञ्जलिं समर्प्य लोक्सभा समारब्धा, राज्यसभाक्रमः सायं त्रिवादनात् सप्तवादनपर्यन्तं भविष्यति।

     अस्मिन्नधिवेशने सुप्रधानाः निर्णयाः स्वीकरिष्यन्ते इति लोकसभायां वार्ताहरैः सह भाषमाणः प्रधानमन्त्री नरेन्द्रमोदीवर्यः अवदत्। सर्वेपि विषयाः चर्चायां भविष्यति। सर्वैरपि कोविड् मानदण्डाः पालनाीयाः इत्यपि प्रधानमन्त्री अवदत्।

ओक्स्फट् कोविड् प्रतिरोधकपरीक्षणं पुनरारब्धम्।

लण्टन्-, प्रासङ्गिकत्वेन स्थगयितं ओक्सफट् कोविड् प्रतिरोधकपरीक्षणं पुनरारब्धम्। प्रतिरोधकौषधं स्वीकृतेषु सन्नद्धप्रकर्तकेषु एकः अज्ञातरोगग्रस्तः अभूत्। अतः परीक्षणं सामयिकत्वेन अवसितमासीत्।

परीक्षणस्य भागत्वेन १८००० सन्नद्धप्रवर्तकेषु प्रतिरोधकं सूच्यौषधरूपेण परीक्षितम्। एषु एक एव आज्ञाकामयग्रस्तः सञ्जातः। ब्रिट्टने प्रतिरोधकनिर्माणे विश्वविद्यालयेन सह आस्ट्रसनेक इति औषधनिर्माणसंस्था अपि भागं भजते।

भारते सिरम् इन्टिट्यूट् इति संस्था एव ओर्स्फट् विश्वविद्यालयस्य प्रतिरोधौषधं परीक्षते। ब्रिट्टने यदा परीक्षणं स्थगयितं तथा भारते अपि एवमेव स्थगयितमासीत्।

स्वामी अग्निवेश् दिवंगतः।

नवदिल्ली- भूतपूर्वः विधानसभासामाजिकः तथा आर्यसमाजपण्डितः स्वामी अग्निवेश् दिवंगतः। स ८० वयस्कः आसीत्। तीव्रेण यकृत् रोगेण चिकित्सायाम् आसीत्। नवदिल्यां चिकित्सालये आसीदन्त्यम्।

विविधानाम् अवयवानां प्रवर्तनमान्द्येन कुजवासरादारभ्य स्वामी कृत्रिमश्वासवातायने आसीत्। विविधानां धर्माणाम् आन्तरिकं संवादमावश्यकमिति स्वामी अचिन्तयत्।

सेप्तम्बर् 21 तः विद्यालयानां पुनरुद्घाटनाय केन्द्रसर्वकारस्य निर्णयः. स्वास्थ्यमन्त्रालयस्य नूतना मार्गरेखा।

नवदिल्ली-  राष्ट्रे विद्यालयानां प्रवर्तनं सप्तम्बर् 21 तः पुनरारब्धुं केन्द्रसर्वकारः निरणयत्। केन्द्रीय स्वास्थ्य-परिवारक्षेममन्त्रालयः एतत्सम्बन्धिनीं मार्गरेखां प्रादर्शयत्। पुनरुद्घाटनस्य चतुर्थसोपाने एव विद्यालयानां प्रवर्तनाय अनुमतिः।

     नियन्त्रितमेखलायाः बहिः प्रदेशस्थाेषु विद्यालयेषु  नवमतः दावादशपर्यन्तं वर्गाः एव प्रवर्तनम् आरभन्ते। मुखावरणस्य उपयोगः, छात्राणां मिथः षट्पादपरिमितम् अन्तरः, अणुनाशकद्रावकाणामुपयोगः, आरोग्यसेतुः इति मोबैल् आप् इत्यादिकं अवश्यंभावि। सार्वजनीनस्थलेषु निष्ठीवनं निषिद्धं कल्पितम्।

     अस्मिन्नन्तरे कोविड् महामारिमभिलक्ष्य समारब्धाः अधिजालिकशिक्षाः अनुवर्तन्ते, सर्वे एतदर्थं प्रोत्साहनं दद्युः इत्यपि मार्गरेखायामस्ति।

अन्ताराष्ट्रविपणिमनुसृत्य तैलेन्धनमूल्ये परिवर्तनमावश्यकमिति सर्वोच्चन्यायालये आवेदनम्।

नवदिल्ली-  पेट्रोल् डीजल् प्रभृतीनां तैलेन्धनानां मूल्यनियन्त्रणात् सर्वकाराणां प्रतिनिवर्तनं पुनःशोधनीयम् इति सूचयन् सर्वोच्चन्यायालये सार्वजनीनहितावेदनं समर्पितम्।अन्ताराष्ट्रविपण्याम् असंस्कृततैलस्य मूल्ये अपचये अत्र उपभोक्तृभ्यः तस्यानुकूल्यं न दीयते। तेभ्योपि आनुकूल्यम् आवश्यकमिति सूचयन् तृशूर् देशीयः षाजी. के. कोडङ्कत् वर्यः एव सर्वोच्चन्यायालयम् अभ्युपगतः। न्यायाधीशः आर्. एफ् नरिमान्  वर्यस्य आध्यक्ष्ये आयोजितं संवेशनं कुजवासरे अस्मिन् व्यवहारे वादं श्रोष्यति।

     तैलेन्धनानां करनिश्चयः असंस्कृततैलानां मूल्यमनुसृत्य न भवेत्। करनिर्णये सर्वकार एव अधिकारी। पेट्रोल् डाजल् इत्यादीनां मूल्यवर्धितकरः (वाट्) न्यूनीकरणीयः इत्यपि निषे राजन् इत्यभिभाषकद्वारा समर्पिते आवेदने सूचयति। अधुना मूल्यस्य 25 प्रतिशतमेव तैलेन्धनानां मूल्यवर्धितकरः।

     सर्वकारस्वामिता अधिकतयास्थिताः तैलसंघाः प्रतिदिनं तेलमूल्यं वर्धापयन्ति। अन्ताराष्ट्रविपण्याम् असंस्कृततैलस्य मूल्यं  सार्वकालिकापचये तिष्ठति। तथापि अत्र इन्धनमूल्ये वर्धनमस्ति।

 

राष्ट्रपुनर्निर्माणे शिक्षकाणां योगदानं महत्तरम्-प्रधानमन्त्री।

दिल्ली- राष्ट्रपुनर्निर्माणे शिक्षकाणां योगदानं महत्तरमेवेति प्रधानमन्त्री नरेन्द्रमोदीवर्यः न्यगादीत्। अध्यापकदिनमालक्ष्य दत्ते सन्देशे एव प्रधानमन्त्रिणः एष परामर्शः। अस्मिन् सन्दर्भे डो. सर्वप्पल्ली राधाकृष्णवर्यं कृतज्ञतया स्मरति इत्यपि प्रधानमनत्री ट्विट्टर् मध्ये सूचितवान्।

     मानसं रूपवत्कर्तुं तथा राष्ट्रं पुनर्निर्मातुं च कठिनप्रयत्नानाम् अध्यापकानां योगदानाय वयं कृतज्ञाः सन्ति। शिक्षकदिवसे शिक्षकाणां परिश्रमेभ्यः कृतज्ञताम् अर्पयामीति मोदीवर्यः ट्वीट् कृतवान्।

उपनिर्वाचनाानि नवम्बर् मासे पूर्तीकरिष्यन्ति इति निर्वाचनायोगः।

दिल्ली- उपनिर्वाचनानि नवम्बर् मासे पूर्णतां यास्यन्तीति केन्द्रिय निर्वाचनायोगः असूचयत्। दिनाङ्कः अनन्तरम् उद्घोषयिष्यति। केरलेषु चवरा, कुट्टनाट् इति द्वे क्षेत्रे अनुसूचिकायामस्ति। विहार् विधानसभा निर्वाचनेन साकम् उपनिर्वाचनानि अपि भविष्यन्तीति निरवाचनायुक्तस्य सूचना।

     कोविड् व्यापनस्य साहचर्यमस्ति चेदपि उपनिर्वाचनानि न हातव्यानि इति निर्वाचनायुक्तस्य अभिप्रायः। कोविड्, अतितीव्रवृष्टिः इत्यादीनां भूमिकायाम्  उपनिर्वाचनानि परिवर्तनीयानि इति कानिचन राज्यानि निर्वाचनायुक्त अभ्यर्थयन्। अद्य आयोजितम् अधिवेशनम् एतदधिकृत्य चर्चां कृत्वा परिवर्तनीयस्य आवश्यकता नास्तीति निरणयत्।

2020वर्षस्य श्रेष्ठचिन्तकेषु केरलीयस्वास्थ्यमन्त्रिणी प्रथमस्थाने।

तिरुवनन्तपुरम्- केरलीय स्वास्स्थ्यमन्त्रिणी के.के. शैलजावर्या 2020 श्रेष्ठचिन्तकेषु  प्रथमस्थाने चिता। ब्रिट्टने प्रोस्पेक्ट् नामिकया मासपत्रिकया आयोजिते छन्दाकलने एव श्रीमती शैलजावर्या प्रथमस्थानमाप्तवती। कोविड् प्रतिरोधप्रवर्तनानि अभिलक्ष्यैव अस्याः अयमङ्गीकारः। चिन्तकानाम् अनुसूचिकीसु द्वितीयस्थाने न्यूसिलान्ट् राष्ट्रस्य प्रथानमन्त्री जसीन्ता आर्डन् वर्या तिष्ठति।

     विंशतिसहस्रं जनाः मतानि दत्वा एव विश्वे प्रसिद्दानां 50 चिन्तकानाम् अनुसूची  सज्जीकृतवन्तः। भारते प्रथमं कोविड् रोगस्य आवेदनं केरलराज्ये एव संजातम्। अत्र रोगव्यापनस्य नियन्त्रणे मरणन्यूनीकरणे च मन्त्रिण्याः प्रवर्तनेन साध्यमभवदिति प्रोस्पेक्ट् मासिकी वदति।

     चीनीदेशे यदा प्रथमं कोविड् आवेदितमं तदा एव अस्य प्राधान्यं ज्ञात्वा प्रवर्तितुं मन्त्रिणी शक्ता अभवत्। विश्वस्वास्थ्यसंस्थानस्य मार्गनिर्देशान् परिपाल्य प्रतिरोधप्रवर्तनेषु नेतृत्वं विधातुमपि सा शशाक। 2018 तमे वर्षे निपा विषाणोः प्रतिरोधाय कृतं प्रवर्तनमपि मासिकी असूचयत्।

2020 डिसम्बर् मासावधिकेन सर्वाः रेल्यानसेवाः पुनस्स्थाप्यन्ते।

देहली- राष्ट्रे डिसम्बर् मासावधिकेन सम्पूर्णरूपतया रेलयानसेवां पुनरारब्धुं रेल्वे मन्त्रालयः सन्नद्धः। अस्य भागत्वेन 100 रेल्यानासेवा अपि अचिरेण पुनस्स्थापयिष्यति। नूतनोयं निर्देशः गृहमन्त्रालयस्य अङ्गीकारार्थं समर्पितः।

     कोविड् कालेपि सुरक्षितया रीत्या सेवां क्रमीकर्तुं शक्यते इति रेल्वे मन्त्रालयस्य सन्नाहः। साममाजिक अन्तरं तथा अन्याः न्बन्धनाश्च परिपाल्य एव सेवा पुनस्स्थाप्यते। एतदर्थं आगामी मार्च् मासपर्यन्तं विशेषशुल्कं स्वीकृत्य सेवांम् आर्भते।

     पुनरुद्घाटनस्य चतुर्थसोपाने  अचिरेण 100 रेल्यानसेवा तथा पञ्चमे सोपाने प्रथमं 250 रेल्यानसेवा च पुनस्स्थाप्यते। केन्द्रीय गृहमन्त्रालयाय एतत्सम्बन्धी निर्देशः ह्यस्तने दत्तः।