Category Archives: News Updates

शबरिमला- भक्तानां प्रवेशाय सज्जीकरणं भविष्यति।

तिरुवनन्तपुरम्- मण्डलव्रतकाले शबरिमलमन्दिरे भक्तानां प्रवेश‌ः आराधना च अवश्यं स्यादित्येव देवस्वसमितेः अभिप्रायः इति समित्यध्यक्षः एन् वासु वर्यः अवदत्। भक्तानां संख्यानियन्त्रणं जालाधिष्ठितपङ्क्तिद्वारा प्रवेशः इत्यादिष्वपि निर्णयो जातः। भक्तानां दर्शनसमये अनुवर्तनीयान् मार्गनिर्देशान् समर्पयितुं मुख्यसचिवस्य नेतृत्वे विशेषसमितिः रूपवत्कृता, समितेः आवेदनम् एकसप्ताहाभ्यन्तरे प्राप्स्यतीत्यपि अध्यक्षः अवदत्। अवलोकनाधिवेशनानन्तरं वार्ताहरैः सह भाषमाण आसीत् सः।

तीर्थाटकानां मन्दिरप्रवेशात् प्रागेव ते कोविड्ग्रस्ताः न भवन्तीति निर्णेतुं सुविधा आयोजिता। घृताभिषेकः विशेषरीत्या प्रचाल्यते। सन्निधाने शयनार्थं सुविधा न भविता। अन्नदानं परिमितया रीत्या आयोज्यते।

गतसप्तमासेन कोविड् मानदण्डपरिपालनकारणात् मन्दिरे भक्ताः न प्रवेशिताः। तदर्थं निर्णयस्वीकारायैव मुख्यमन्त्रिणः आध्यक्ष्ये अधिवेशनम् आयोजितमासीत्।

नववाण्याः समस्या: १५० सप्ताहा : पश्चात्कृताः ।

इरिङ्ङालक्कुटा – नववाणी संस्थायाः समस्यापूरणस्पर्धा संस्कृतप्रश्नोत्तरस्पर्धा च अतीव हृद्या विज्ञानप्रदा च भवति । प्रतिसप्ताहं एकं समस्यापूरणं,  दशप्रश्नात्मिका प्रश्नोत्तरस्पर्धा इति क्रमेण १५० सप्ताहाश्च अतीताः।

    गुरुमहिमा ‘देश स्नेहः कालिकघटना: हास्यकणिका: लोकनीति:’ इत्यादिषु विषयेषु त्रिसहस्राधिकाः  श्लोकाः प्रकाशिताः। दशमिताः पण्डिताः अनस्यूततया तत्र भागं भजन्ते । प्रतिसप्ताहं चत्वारिंशत् मिताः श्लोकाः नववाण्या  प्रकाश्यन्ते । सहस्रशो भाषाप्रणयिनः आस्वादकाश्च समास्यामधु स्वदन्ते च । समस्या पूरणे श्री नारायणन् एन्, श्री भास्करन्, श्री विजयन् वि. पट्टाम्बि प्रभृतयः प्रातःस्मरणीयाः ।

     समस्याः तु समासार्था इति अमरकोशस्य प्रस्तावेन संक्षिप्य कथनमिति अर्थ: सङ्गतो वर्तते। प्रदत्ते पादे निर्दिष्टमाशयं संक्षेपेण विशदीकरोति तत्पूरणम्। प्रश्नोत्तरं, विचारसत्रं, आनुकालिककवीनां कथा:, कविताः, लेखनानि, छात्राणामुपकारकान् पाढ्यांशविस्तारांश्च यथाकालं प्रकाशयन्ती नववाणी संस्कृत प्रचारणे अग्रिमं स्थानमापद्यते।

     इरिङ्ङालकुटा संस्कृताध्यापकै : २०१० वर्षे समारब्धा इयम् अन्तर्जालीयदीपशिखा संस्कृतक्षेत्रे प्रभां प्रसारयन्ती विराजते।  अतीव विस्तृते गभीरे च संस्कृतसागरे यथाशक्ति स्वपोतमुपयुज्य तत्रत्यानि मुक्ताफलानि उत्क्षिप्य प्रकाशयन्ती इयं संस्था उत्तरोतरं वर्धताम्।

Samasyapooranam

सम्पादकः – विजयन् वि. पट्टाम्बि।

केलरेषु सेप्तम्बर् मासे कोविड् रोगिणां संख्या एकलक्षं जाता।

तिरुवनन्तपुरम्- केरलराज्ये कोविड् रोगिणां संख्यासु अतिशयकरा वर्धना। 27 दिनाभ्यन्तरे एकलक्षं रोगिणः आवेदिताः। एतेन राज्ये स्थितिः आशङ्काजनका जाता। अपि च  परीक्षणानुपातिकत्वेन रोगिणां वर्धने केरलराज्यं तृतीयस्थाने वर्तते। अस्य भूमिकायां परिशोधनावर्धनाया स्वास्थ्यविदग्दैः सूचना दत्ता।

     केरलेषु एतावत् पर्यन्तं 175384 जना कोविड्बाधिताः सञ्जाताः। एषु एकलक्षपरिमितं जनाः अस्मिन् मासे एव रोगिणः संजाताः। परिशोधनायां 13.87 प्रतिशतं जनेषु रोगबाधा स्थिरीक्रियते। महाराष्ट्रराज्ये कर्णाटके च  इतोप्यधिकम् आवेदयति।

     रोगमुक्तावपि तादृशवर्धना अत्र नास्ति। राष्ट्रे आहत्य 82 प्रतिशतं रोगमुक्तिः वर्तते। परं केरलेषु केवलं 67 प्रतिशतमेव रोगमुक्तिः। रोगवर्धनभूमिकायां राज्यस्य स्वास्थ्यमन्त्री जागरूकतानिर्देशमदात्। कोविड् रोगस्य द्वितीयतरंगमेवात्र प्रचलति। अतः सर्वैः जागरूकैः भाव्यम् इति स्वास्थ्यमन्त्री सूचनामदात्।

गायकः एस्.पि. बालसुब्रह्मण्यम् दिवंगतः।

चेन्नै- विख्यातः गायकः एस्.पि. बालसुब्रह्मण्यं वर्यः दिवमगात्। स ७४ वयस्कः आसीत्। चेन्नै एं.जि.एम्. चिकित्सालये चिकित्सायां तिष्ठन् अद्य मध्याह्ने आसीत् अस्य अन्त्यम्। कोविड् बाधया आगस्त् पञ्चमे दिनाङ्के चिकित्सालयं नीतः आसीत् सः। आगस्त् १३ दिनाङ्कं यावत् अस्य स्वास्थ्यावस्था तृप्ता आसीत्।

सेप्तम्बर् मासे कोविड् वैराणुविमुक्तोपि महाशयस्यास्य श्वसनव्यवस्था स्थगिता इत्यतः स तीव्रपरिचरणविभागे एवासीत्।

गायकः संगीतनिदेशकः नटः इत्यादिषु रंगेषु लोकप्रशस्तः बहुमुखप्रतिभः बालसुब्रह्मण्यं वर्यः १६ भारतीयभाषासु ४०००० अधिकानि गीतानि अगायत्। षड् राष्ट्रीयपुरस्काराः तथा आन्ध्रा, कर्णाटकप्रभृतीनां सर्वकाराणां पुरस्काराश्च अनेन आप्ताः। पद्मश्री पद्मभूषण् पुरस्काराः अपि अनेन प्राप्ताः।

जीवनशैलीरोगनियन्त्रणम्, कोरलराज्यस्य कृते ऐक्यराष्ट्रसभा पुरस्कारः।

तिरुवनन्तपुरम्-  जीवनशैलीरोगनियन्त्रणाय ऐक्यराष्ट्रसभायाः पुरस्कारः केरलराज्याय दत्तः। विश्व-स्वास्थ्यसंस्थानस्य निदेशकमुख्यः डो. टेट्रोस् अदानों गेब्रियोसस् वर्यः एव  यु.एस्य नालिकाद्वारा पुरस्कारः औपचारिकतया घोषितवान्। 2020 तमे वर्षे ऐक्यराष्ट्रसभया अस्मै पुरस्काराय सर्वकारीणविभागे चितैः सप्तराष्ट्रैः साकमेव केरलीय स्वास्थ्यविभागोपि चितः। रष्या, ब्रिट्टन्, मोक्सिक्को, नैजीरिया, अर्मेनिया, सेय्न्ट् हेलना इत्यादिभिः राष्ट्रैः सममेव केरलस्यापि पुरस्कारः विहितः।

     स्वास्थ्यरंगे केरलेन क्रियमाणः अविरामः परिश्रमः एव एतादृशस्य अङ्गीकारस्य मूलमिति मुख्यमन्त्री पिणरायि विजयन् तथा स्स्थ्यविभागमन्त्री के.के. शैलजा च असूचयताम्। प्राथमिकारोग्यकेन्द्रेभ्यः आरभ्य सर्वेषु चिकित्सालयेषु जीवनशेलीरोगनियन्त्रणाय चिकित्सायै च महत्तराणि सेवनानि आयोजितानि। कोविड् काले मृत्युसंख्यायां न्यूनत्वम् अनेनैव साधितमभवत्। एतदर्थं प्रयतितान् सर्वानपि एतौ अभिनन्दनानि व्याहरताम्।

     एतेन सहैव अतिनूतना श्वासकोशरोगनियन्त्रणपद्धतिः, नेत्रपटलान्धतानिवारणपद्धतिः, अर्बुदचिकित्साापद्धतिः, पक्षाघातनियन्त्रणपद्धतिः इत्यादयः अपि पुरस्कारलाभाय कारणमभवत्।

अक्कित्तं ज्ञानपीठप्रभायाम्।

    पालक्काट् –  2019 तमवर्षस्य ज्ञानपीठपुरस्कारं कैरली साहित्यकाराय अक्कित्तम् अच्युतन् नम्पूतिरिवर्याय समार्पयत् । सहित्यविभागे भारतसर्वकारस्य सर्वोन्नतः पुरस्कार एषः।  कैरलीविभागे पुरास्कामार्जितेषु षष्ठ: आसीत् अयं महाशयः ।1926 तमे वर्षे मार्चमासस्य अष्टादशतमे दिने पालकाट् प्रान्ते कुमरनेल्लूर ग्रामे अक्कित्तत्त्  ब्राह्मणकुले महाकवे: जन्म । कुमरनेल्लूर् सर्वकारीयविद्यालये प्राथमिकपठनं पुनः कोषिकोट् सामूतिरिकलालये स्नातकलाभः । ततः कोटक्काट् शङ्कुण्णि नम्पीशन् वर्यात् संस्कृतपठनम् ।  ततः कोषिकोट् आकाशवाण्यां कर्मनिरतो∫भवत् ।

      महाकवे : ‘इरुपतां नूटटाण्डिन्टे इतिहासम्’ इति ग्रन्थः तस्य रचनासु प्रामुख्यं भजते। बलिदर्शनम्’ अन्तिमहाकालम् ‘ इटिञ्ञुपोलिञ्ञ लोकम्’ अक्कित्तत्तिन्टे गद्यलेखनानि इत्यादयो प्रमुखा : ग्रन्था: भवन्ति।

     ज्ञानपीठ पुरस्कार: 1965 तमे वर्षे भारतसर्वकारेण समायोजितः वर्तते। एकादशलक्षं रुप्यकाणि सरस्वतीदेवतायाः विग्रह: प्रशस्तिपत्रञ्च पुरस्कारस्वरूपम् । केरलेषु पञ्चसाहित्यकाराः पुरस्कारेणानेन पूर्वं समादृताः वर्तन्ते । महाकवि जि . शङ्करकुरुप्पु (1965) ‘ तकषि शिवशङ्करपिल्ला (1984) एस के पाट्टेक्काट् (1980) एम् टि वासुदेवन नायर( 1995 ) प्रो ओ एन वि कुरुप्प् (2007) चैते ।
सप्तम्बर मासस्य चतुर्विंशतितमे दिनाङ्के कुमरनेल्लूरस्थे अक्कित्तत्तु भवने पुरस्कारः समर्पितः। केरल मुख्यमन्त्री पिणरायि विजयः ,  एम् टि वासुदेवन् नायर्  प्रतिभा राय् प्रभृतयः अन्तर्जालिकद्वारेण तत्र भागभाज आसन् । केरलस्य सांस्कृतिकविभाग मन्त्री श्री ए के बालन् पुरस्कारं समार्पयत् । केरलीयानां प्रमोदावसरे नववाणी पत्रिकायाः  वर्धापनानि महाकवये समर्पयाम:।

केरलेषु कोविड् रोगिणां प्रतिदिनसंख्या ५००० अतीताः।

तिरुवनन्तपुरम्- केरलराज्ये कोविड् रोगबाधा प्रतिदिनं वर्धते।ह्यस्तने रोगिणां संख्या इद्प्रथमतया ५००० अतीता। ५३७६ जनेभ्यः ह्यस्तने कोविड् स्थिरीकृतम् इति मुख्यमन्त्री असूचयत्। २० मरणानि अपि ह्यस्तने स्थिरीकृतानि। कोविडवलोकनानन्तरं वार्ताहरमेलने भाषमाण आसीत् मुख्यमन्त्री। २५९१ जनाः रोगमुक्ताः अभवन्। रोगिषु ४४२६ जनाः सम्पर्केण रोगबाधिताः अभवन्। ९० स्वास्थ्यकर्मकराः अपि रोगग्रस्ताः सञ्जाताः।

सम्पर्केण रोगं स्थिरीकृतेषु ६८० रोगिणां रोगप्रभवः अज्ञातः भवति। ह्यस्तने ५१२०० जनेषु रोगपरिशोधना विहिता। रोगमधिकृत्य मिथ्याभीतिः नावश्यकः। मानदण्डः पालयति चेत् भीतिः अस्थाने एव। स्वगृहे एव सम्पर्कविरोधेन वसति चेत् मानसिकसम्मर्दं दूरीकर्तुं शक्यते इत्यपि मुख्यमन्त्री अवदत्।

षट्सु राज्येषु सेप्तम्बर् 21 आरभ्य विद्यालयाः प्रवर्तिष्यन्ते, मार्गनिर्देशाः घोषिताः।

दिल्ली- कोविड् व्यापनस्य भूमिकायां गत पञ्चमासान् यावत् पिहिताः विद्यालयाः षट्सु राज्येषु श्वः प्रभृति भागिकतया  प्रवर्तिष्यन्ते। आन्घ्राप्रदेशः असं, हरियाणा, जम्मू-काश्मीर्, कर्णाटक, पञ्चाब् इति राज्येष्वेव कक्ष्या समारभ्यते। परं दिल्ली, गुजरात्, केरला, उत्तरप्रदेश, उत्तराखण्ड, पश्चिमबंगाल्, राज्येषु सेप्तम्बर् 21 दिनाङ्के विद्यालयानां प्रवर्तनं न भविता इति पूर्वं सूचितमासीत्।

     अनावरणं चतुर्थसोपानस्य भागत्वेन विद्यालयानां प्रवर्तनं भागिकतया अनुमितमासीत्। नवमतः द्वादशपर्यन्तं कक्ष्यायाः प्रवर्तने एव अनुमतिः दत्ता आसीत्। परन्तु कक्ष्याप्रवर्तनम् अनिवार्यं न कृतमासीत्। एतन्निर्णेतुम्  अधिकारः राज्यसर्वकारेभ्यः दत्तमासीत्।

अक्षरवृक्षं पद्धत्यै राष्ट्रिय पुरस्कारः।

तिरुवनन्तपुरम्- सम्पूर्णपिधानकाले गृहे एव स्थितानां छात्राणां सर्गशेषीं प्रोत्साहयितुं सार्वजनीन शिक्षाविभागेन आविष्कृता योजना भवति अक्षरवृक्षं योजना। अस्यै योजनायै राष्ट्रियपुरस्कारः दत्तः। इन्ड्या  बुक्क् आफ् रेक्कार्ड्स् इत्यस्य 2020 तमस्य देशीयपुरस्कार एव राज्य-शैक्षिकानुसन्धान-प्रशिक्षणपरिषदा आयोजितस्य अक्षरवृक्षं योजनया अवाप्तः।

     अक्कादमिकसंस्थायाः नेतृत्वे छात्राणां अधिकानां साहित्यसृष्टीनां प्र सज्काजीकर्शतुं प्नारकाशितुं च यैव राष्ट्रियपुरस्कारः। अक्षरवृक्षं योजनायां 56249 साहित्यसृष्टीः स्कूल् विक्की द्वारा लब्धा।

     कथा कविता लेखनम् इत्यादिषु विभागेषु लब्धाः साहित्यसृष्टयः विदग्धपरीक्षणानन्तरमेव एस्.सी.इ. आर्,टी. संस्थायाः नेतृत्वे विविधसम्पुटरूपेण प्रकाशिताः।

     परिस्थितिः, शुचित्वं, रोगप्रतिरोधः इत्यादीन् विषयान् आधारीकृत्य लेखनं, कविता, कथा इत्यादयः  पद्सधत्ज्जीयाः निर्कवहणधुरार्तुं प्रकाशयितुं च एकैकस्य छात्रस्य अवसरदानमेव योजनायाः लक्ष्यमासीत्। पद्धत्याः निर्वहणधुरा एस्.सी.इ.आर्.टी. कैट् संस्थायोः निक्षिप्ता।  प्रथमतः द्वादशकक्ष्यापर्यन्तं छात्राः भागभाजः आसन्।

नृत्तकलानिष्णाता कपिला वात्स्यायन् वर्या निरगात्।

दिल्ली-  भारतीय शासात्रीयनृत्तं, कला, वास्तुविद्या कलाचरित्रम् इत्यादिषु निष्णाता कपिला वात्स्यायन् वर्या दिवङ्गता। भूतपूर्वा संसद् सदस्या, इन्दिरागान्धी राष्ट्रीय कलाकेन्द्रस्य स्थापकनिदेशिका चासीत्। शिक्षामन्त्रालये भारतसर्वकारस्य सचिवा चासीत्। सा 91 वयस्का आसीत्। विख्यातः हिन्दी साहित्यकारः एस्.एच्. वात्स्यायन् अस्याः पतिः भवति।

     1970 तमे वर्षे सङ्गीतनाटक-अक्कादमी सभाङ्गत्वं, संगीतं, नृत्तं, नाटकम् इत्यादिषु केन्द्रसर्वकारेण दीयमाना परमोन्नतबहुमतिः, 1995 तमे वर्षे ललितकला अकादमी सभाङ्गत्वं इत्यादिषु पुरस्कारेषु समादृता सा 2011 तमे वर्षे पद्मविभूषणेन च बहुमता।

     दिल्ली विश्वविद्यालयात् आङ्गलसाहित्ये स्नातकोत्तरबिरुदं सम्पाद्य मिषिगण् विश्वविद्यालयात् आन् आर्बर् शिक्षायां द्वितीयस्नातकोत्तरबिरुदं,  बनारस् हिन्दू विश्वविद्यालयात् विद्या वारिधिबिरुदमपि सम्पादितवती।

     2006 तमे वर्षे राज्यसभायाम् अङ्गत्वेन निर्दिष्टा कपिला वर्या पुनः तदङ्गत्वं तत्याज।