Category Archives: News Updates

केरलेषु प्रादेशिकनिर्वाचनम्, अद्य मतगणना,

तिरुवनन्तपुरम्- कोविड् जागरूकतां परिपाल्य केरलेषु चरणत्रयेण प्रवृत्तस्य निर्वाचनस्य मतगणना आद्य प्रातः अष्टवादने आरभ्यते। मध्याह्नेन सम्पूर्णं फलं ज्ञातुं शक्यते। निर्वाचितानि अङ्गानि आगामिनि सोमवासरे शपथं गृहीत्वा पदवीं स्वीकरिष्यन्ति।

     प्रादेशिकस्वयंप्रशासनव्यवस्थामनुसृत्य 1199 प्रादेशिकसंस्थासु 21861 निर्वाचनक्षेत्राणि केरलेषु सन्ति। एषप 941 ग्रामपञ्चायत्, 152 व्लोक् पञ्चायत्, 14 जिल्ला पञ्चायत्, 86 नगरसभाः, 6 महानगरसभाश्च भवन्ति। आहत्य 74899 स्थानाशिनः सन्ति। आहत्य 244 मतगणनाकेन्द्राणि सन्ति। एतानि प्रतिमण्डलं दशतः विंशतिपर्यन्तं व्याप्य तिष्ठन्ति।

सुप्रसिद्धः कैरलीसाहित्यकारः यु.ए. खादर् वर्यः निर्यातः।

कोषिक्कोट्- प्रशस्तः साहित्यकारः यु.ए. खादर् वर्यः कालयवनिकायम् अन्तरितः। स ८५ वयस्कः आसीत्। श्वासकोशार्बुदबाधया कोषिक्कोटे निजीयचिकित्सालये चिकित्सायामासीत्।

     १९३५ वर्षे पूर्वम्यान्मार् देशे बिल्लिन् इति ग्रामे अयं भूजातः। तस्य माता म्यान्मार् देशीया आसीत्। तस्य सप्तमे वयसि मातुः वियोगानन्तरं पितुः साकम् अयं केरलेषु पितुः देशमागतः। अस्य प्राथमिकशिक्षा कोयिलाण्टी उच्चविद्यालये आसीत्। ततः मद्रपुरी कलाशालातः चित्ररचनायां बिरुदं सम्पादितवान्।

     १९८३ वर्षे तृक्कोट्टूर् पेरुमा इति कथासमाहाराय, २००० तमे वर्षे अघोरशिवम् इति कैरली नोवल् कृते च केरलसाहित्य अक्कादमीपुरस्कारम् अवाप्तवान्। २००९ तमे वर्षे केन्द्र साहित्य अक्कादमीपुरस्कारमपि अनेन प्राप्तः।

     कोषिक्कोट् आकाशवाणी निलये राज्य स्वास्थ्यविभागे च असौ सेवां व्यदधात्। २०११ तमे वर्षे प्रकाशितं शत्रु इति नोवल् एव तस्य अन्तिमा कृतिः।

शिवगिरितीर्थाटनाय सज्जीकरणमारब्धम्। कोवि़ड् मानदण्डमनुसृत्य तीर्थाटकानां सङ्ख्या न्यूनीकरिष्यति।

 वर्कला- अष्टाशीतितमं शिवगिरतीर्वथाटनं  समायोजयितुं सज्जीकरणम् आरब्धम्। कोविड् मानदण्डं परिपाल्यैव अस्मिन् वर्षे तीर्थाटनं भविष्यति। जनसम्मर्दमपहातुं प्रतिदिनं सहस्रपरिमितान् जनानेव प्रवेशयिष्यति।

     डिसम्बर् 30, 31, जनुलरि 1 दिनाङ्केषु अयाथार्थ्यरुपेणैव तीर्थाटनम् आयोजयिष्यति इति शिवगिरिमठाधिकारिणः असूचयन्। पूर्ववत् महासम्मेलनानि कार्यक्रमाश्च अस्मिन् वर्षे न भविष्यति। प्रमुखानां प्रभाषणानि डिसम्बर् 25 आरभ्य शिवगिरि टी.वी. द्वारा सम्प्रेषयिष्यति।

     सम्मर्दन्यूनिकरणस्य भागत्वेन विशेषबस्यान रेलयानसेवाः अस्मिन् वर्षे नायोजयिष्यति। स्नानघट्टादीनि अणुविमुक्तानि करिष्यति इत्यपि अधिकारिणः अब्रुवन्।

संसन्मन्दिरस्य पुनर्निर्माणम् अधुना न कर्तव्यमिति सर्वोच्चन्यायालयस्य आदेशः।

नवदिल्ली-  नूतनस्य संसन्मन्दिरस्य शिलान्यासं कर्तुं शक्यते। परं निर्माणम्  अधुना न कर्तव्यम् इति सर्वोच्चन्यायालयः। अधुना स्थितस्य मन्दिरस्य पाटनं वृक्षाणां नाशनं वा न कर्तव्यम् इत्यपि सर्वोच्चन्यायालयः केन्द्रसर्वकाराय निर्देशमदात्। न्यायालयस्य निर्देशः अवश्यं पालयतीति सर्वकारः अवदत्।

     नूतनस्य संसन्मण्डलस्य निरमाणाय 20000 कोटि रूप्यकाणां परियोजनां् विरुध्य समर्पिते आवेदने अन्तिमनिर्णयम् आदम्यमाने मन्दिरनिर्माणप्रवर्तनेन पुरोगच्छन्तः सर्वकारस्य उद्यमे न्यायाधधिपाः अतृप्तिं प्राकटयन्।

     न्यायालयस्य सूचनां स्वीकृत्य सर्वकारस्य प्रवृत्तौ  प्राड्विवाकः सर्वकारस्य कृते खेदं प्राकटयत्। शिलान्यासादृते अन्यानि प्रवर्तनानि अधुना न करिष्यतीति सर्वकारस्य वादं स्वीकृत्य न्यायालय शिलान्यासाय सोपाधिकाम् अनुमतिम् अदात्।

बुरेवी चक्रवातः श्रीलङ्कायां नाशं वितीर्य केरलतीरं समागच्छति।

कन्याकुमारि- बुरेवी चक्रवातस्य आशङ्कायां केरलदेशः। अद्य चतुर्षु मण्डलेषु जाग्रतानिर्देशः घोषितः। मध्यकेरले अपि तीव्रवृष्टिर्भविता।

     दक्षिणपूर्व वंगसमुद्रे रूपमापन्नः बुरैवि चक्रवातः ह्यस्तने रात्रावेव श्रीलङ्कातीरं सम्प्राप्ताः। अद्य प्रातः कन्याकुमारीतीरं प्राप्नोतीति प्रवचनमस्ति। पाम्पन् तीरे सम्प्राप्यमाने चक्रवातस्य वेगः प्रतिहोरं 70  तः 80 कि.मी. भविष्यति। केरलेषु तीरमण्डले देशियदुरन्तसेनादलानि विन्यस्तानि। तिरुवनन्तपुरं पत्तनंतिट्टा, कोल्लम्, आलप्पुषा मण्डलेषु रक्तजाग्रता घोषिता।

    जाग्रतानिर्दिष्टमेखलायां जनां बहिः न गच्छेयुरिति सूचना अस्ति।

पादकन्दुकक्रीडकरत्नं डीगो मारडोणा कालयवनिकान्तर्गतः।

ब्यूणस् ऐरिस्- पादकन्दुकक्रीडाक्षेत्रे इतिहासतारं डीगो अरमान्डो मारडोणा अन्तरितः। स 60 वयस्कः आसीत्। मस्तिष्के रक्तं घनीभूय अवशतां प्राप्तः स गतदिने शस्त्रक्रियाम् अधिगतवानासीत्। अपि च प्रत्यावर्तिसूचनामपि तस्मिन्नासीत्। मरणकारणं हृदयाघात एव।

     1960 ओक्टोबर् मासे अर्जन्टीना राष्ट्रे ब्यूणस् ऐरिस् स्थले विल्ल फियोरित्तो प्रविश्यायां लानस् जनपदे एव तस्य जन्म अभवत्। नवमे वयसि एव स्व प्रदेशे उत्कृष्टः पादकन्दुकक्रीडकः इति ख्यातिमवाप्तवानयम्।

     2003 पर्यन्तं अर्जन्टीना क्रीडकसंघे अयं वयसा कनिष्ठः आसीत्। 1976 थः 1981 पर्यन्तं 166 प्रतियोगितासु क्रीडयन्नयं 111 लक्ष्यकन्दुकं प्राप्तवान्। विश्वचषकक्रीडायां बहुवारं स अर्जन्टीना राष्ट्रस्य कृते क्रीडाङ्गणं प्रविष्टवान्। 1997 वर्षे स्वकीये जन्मदिने स पादकन्दुकक्रीडाक्षेत्रात् विरराम।

भारतवंशजः न्यूसिलान्ट् संसत्सदस्यः संस्कृते सत्यशपथमग्रहीत्।

वेल्लिङ्टण्- न्यूसिलान्ट् संसदे चितः भारतवंशजः संस्कृते सत्यशपथमग्रहीत्। गौरव् शर्मा नामकः न्यूसिलाण्ट् संसत्सदस्यः एव गतदिने संसदि संस्कृते शपथं स्वीकृत्य इतिहासपात्रमभवत्। हिमाचलप्रदेशस्थः भवति ३३ वयस्कः गौरव् शर्मा। हामिल्टण् पश्चिमप्रान्तात् लेबर् पार्टीति दलस्य प्रत्याशित्वेन सदस्यत्वमाप।

न्यूसिलान्ट् संसदं प्रति चितः कनिष्ठः सदस्यः इतिरूपेणापि प्रसिद्धिमाप गौरव् शर्मा। न्यूसिलान्टस्य गोत्रवंशीयानां मावोरी इति भाषायामपि केतन शपथम् अग्रहीषुः। संस्कृतं सर्वासां भाषाणां जननीरूपा भाषा इत्यतः शपथग्रहणाय संस्कृतं स्वीकृतवानिति स अब्रवीत्।

कोविड् प्रतिरोधकं क्रिस्तुमस् पर्वणः प्राक् वितरीतुं शक्येत इति फेसेर्।

वाषिङ्टण्- तृतीयसोपानपरीक्षणं ९५ प्रतिशतं फलप्रदमिति विज्ञाते साहचर्ये कोविड्प्रतिरोधकौषधस्य वितरणं डिसम्बर् मासार्धेन अमेरिक्कायाम् अरप्स्यते इति फैसर् आख्यः औषधनिर्माणसंघः । डिसम्बर् मासार्धेन अमेरिका भक्ष्य-औषध प्रशासकम् औषधवितरणाय अनुमतिं प्रदास्यतीति प्रतीक्षते। फैसर् इति संघस्य जर्मन् सहयोगी बयोण् टक् इत्यस्य मेधावी युगुर् साहिन् वर्यः अवदत्।

परीक्षणे भागं भजितेषु ४३००० सन्नद्धप्रवर्तकेषु केवलं १७० प्रवर्तकानामेव कोविड् बाधा जाता। प्रतिरोधकस्य कार्यक्षमता ९५ प्रतिशतमिति अनेन अवगतम् इति फैसर् संघः सूचयति।

वंगचलचित्रनटः सौमित्र चाट्टर्जी दिवङ्गतः।

कोल्कत्ता- वंगचलचित्रे विख्यातः नटः  सौमित्र चाट्टर्जी वर्यः कालकबलितः अभववत्। स 85 वयस्कः आसीत्। कोविड् बाधया ओक्टोबर् षष्ठे दिने स चिकित्सालयं नीतः आसीत्। स्व्स्थ्ये सन्निग्धे जाते स तीव्रपरिचरण विभागं नीतः। कोविड् ऋणावस्थां प्राप्तोपि  स मृत्युना अपहृतः।

     सत्यजित् राय वर्येण सह दशकत्रयं यावत् प्रवर्तननिरतः चाट्टर्जीवर्यः वंगचलचित्रे सार्वकालीनः कलाकारः आसीत्। अभिनेता, कविः, लेखकः, निदेशक इत्यादिषु रूपेषु स भारतीयचलचित्रस्य कीर्तिं आविश्वं प्रासारयत्।

     आकाशवाण्यां कर्म कुर्वन् स सत्यजित् राय् वर्येण मैत्रीं सम्पादितवान्। अनेन सौहार्देन स चलचित्ररंगं प्राप्तवान्। सत्यजित् राय वर्यस्य पञ्चजश चलचित्रेषु स नायकः आसीत्।

भारतक्रिक्केट् संघः आस्ट्रेलियापर्यटनाय प्रस्थितः।

दुबाय्- नवम्बर् 27 दिनाङ्के आरभमाणाय आस्ट्रेलियापर्यटनाय भारतक्रिक्केट्संघः प्रस्थितः। द्विमासपर्यन्तं आयामं वर्तते भारतस्य आस्ट्रेलियापर्यटनम्। ऐ,पि.एल्. वेलायाम् अवसितायां बयो सेक्यूर् बबिल्तः बहिरागतानि संघाङ्गानि दुबाय्यां सम्मिलितानि आसन्।

     पृथक् वैयक्तिकसुरक्षावस्त्रं धृत्वा तिष्ठतां क्रीडकाणां चित्रं बी.सी.सी.ऐ. संस्थया वहीरानीतम्। आस्ट्रेलियां प्राप्यमाणः संघः प्रथमं सम्पर्करोधने प्रविशति।

     नवम्बर् 27 दिनाङ्के सिड्न्यां प्रथमं एकदिनमत्सरं भविता। आनेन सहैव भारतस्य पर्यटनप्रारम्भ। त्रीणि एकदिनमत्सराणि , त्रीणि 20-20 मत्सराणि, चत्वारि टेस्ट् मत्सराणि च परम्परायां सन्ति।