Category Archives: News Updates

अमेरिक्कायां पञ्चलक्षं भारतीयानां कृते नागरिकतां प्रदास्यति

वाषिङ्टण्- पञ्चलक्षं प्रवासिभारतीयेभ्यः अमेरिक्कानागरिकप्रदानाय नयरेखां निर्मितवान् नियुक्तः अमेरिक्का राष्ट्रपतिः जो बैडन् वर्यः। विविधेभ्यः राष्ट्रेभ्यः विनाप्रमाममपि अमेरिक्कां  प्राप्तानां 1.1 कोटिपरिमितानां देशान्तरवासिनां कृते  नागरिकताप्रदानाय नियमभेदगतिम् अनेतुमेव बैडन्  वर्यस्य उद्यमः।

     अनेन सह एच्.1.बि प्रभृतीनां वृत्तिसम्बन्धीनां प्रमाणानां संख्याप्रवर्धनायापि उद्यमः आरब्धः। एच्य1यबि विसाायुक्तानां पारिवारिकेभ्यः वृत्तिसम्बन्धिप्रमाणं निरुध्य ट्रम्प् प्रशासनेन आनीतां व्यवस्थां प्रत्यावर्तयितुमपि उद्यमः अस्ति। प्रतिवर्षं 95000 अभयार्थिभ्यः राष्ट्रे प्रवेशनं विधातुमपि निर्णयः अस्ति।

     अमेरिक्कां उद्ग्रथितुं प्रयत्नं कुर्वतां सर्वेषां अमेरिकावासिनाम् अध्यक्षो भवाम्यहमिति विजयप्रभाषणे जो बैडन् वर्येण उक्तम्।

केरलेषु तद्देशप्रशासनाय मतदानस्य समयक्रमः घोषितः।

तिरुवनन्तपुरम्- केरलेषु तद्देशस्वयंप्रशासनस्थापनेषु सामाजिकानां चयनार्थं निर्वाचनस्य समयक्रमः घोषितः। कोविड् मानदण्डमनुसृत्यैव निर्वाचनं भविता। छन्दाकलनाय सोपानत्रयं कल्पितम्।

प्रथमसोपाने तिरुवनन्तपुरम्, कोल्लम्, पत्तनं तिट्टा, आलप्पुषा,इटुक्की मण्डलेषु डिसम्बर् ८ दिनाङ्के निर्वाचनं भविता। द्वितीयसोपाने कोट्टयम्, एरणाकुलम्, तृशूर्, पालक्काट्, वयनाट् मण्डलेषु डिसम्बर् १० दिनाङ्के निर्वाचनं भविष्यति। तृतीयसोपाने मलप्पुरम्, कोषिक्कोट्, कण्णूर्, कासरगोड् इति चतुर्षु मण्डलेषु डिसम्बर् १४ दिनाङ्के निर्वाचनं कल्पितम्। मतगणना डिसम्बर् १६ दिनाङ्के निश्चिता।

कोविड् रोगिणां कृते पत्रालयद्वारा मतदानाय व्यवस्था कल्पिता। कोविड् काले कल्पितं निर्वाचनमित्यतः अस्य निर्वाचनस्य अतीव प्राधान्यमस्ति। निर्वाचनस्य सर्वेषु रङ्गेषु कोविड् मानदण्डः पालनीयः भवति।

निर्वाचनार्थं औद्योगिकं विज्ञापनं नवम्बर् १२ दिनाङ्के भविष्यति। नवम्बर् १२ तः स्थानाशिनः नामनिर्देशं समर्पितुं पारयन्ति। नवम्बर् १९ दिनाङ्के नामनिर्देशनस्य प्रत्यावर्तनाय व्यवस्था अस्ति।

भूमिदानं महादानम् ।

आलूर्/इरिङ्ङालक्कुटा – आजीवं संस्कृतस्य प्रचारकत्वव्रतमापन्न : आलूर चुङ्कन् गृहनाथः श्री. सि.वि. जोस् अल्पमात्र सम्पदः 4 सेन्ट्र भूमिः अङ्गन वाटिकायै समर्पितेति सर्वेषाम् आनन्दाय अलम् । स्वगृहस्य समीपे शिशूनां संरक्षणाय संवर्धनाय च संस्थैका आवश्यकीति समाजस्य अभ्यर्थनां शिरसा वहन्नयं महादानाय सन्नद्धो∫भवत् । माप्राणंं होलिक्रोस् उच्चविद्यालये संस्कृताध्यापकः भवति श्री जोस् महाशयः । ०५-११-२०२० दिनाङ्के स्वगृहसमीपे समायोजितायां लघुसभायां इरिङ्ङालक्कुटा नीयमसभामण्डलं सामाजिकः प्रोफ. के.यु. अरुणन्  महात्मने भूमेः रेखां समार्पयत् । आलूर्  ग्रामपञ्चायत्त्ध्यक्षा श्रीमति सन्ध्या नैसन्, उपाध्यक्षः श्री ए. आर् डेविस् प्रभृतयः  सन्निहिताश्चासन्।

प्रशासनं स्वाधीनं भविष्यति चेत् प्रथमं कर्तव्यं सूचयति जो बैडन् वर्यः

वाषिङ्‍टण्- डी.सी.- अमेरिका प्रशासकनिर्वाचनस्य फलप्रख्यापने पुरोगच्छति सति विजयी भविष्यति चेत् प्रथमं कर्तव्यं स्वयम् उद्घोषयति डमोक्राट्टिक् दलस्य स्थानाशी जो बैडन् वर्यः।

ट्रम्प् वर्यस्य अलीकनिर्णयानां संशोधनं विधास्यतीति बैडन् महोदयः अवदत्। अस्य भागत्वेन पारीस् समयातः प्रत्यावर्तननिर्णयं पुनरालोच्यते इत्यपि तेन निगदितम्। ७७ दिनाभ्यन्तरे पारीस् समया पुनस्स्थाप्यते।

अस्मिन्नन्तरे निर्वाचनस्य विश्वास्यता विनष्टेति रिप्पब्लिक्कन् दलस्य स्थानाशी तथा अधुनातनप्रशासकश्च डोनाल्ट् ट्रम्प् वर्यः अवोचत्। पत्रालयद्वारा आयोजिते मतदाने मृषामतानि अधिकानि इत्यारोप्य ट्रम्प् वर्यः सर्वोच्चन्यायालये व्यवहाराय गतः। अतः अमेरिका निर्वाचनस्य फलप्रख्यापने विलम्बः सुनिश्चितः अभवत्।

केरलीया प्रियङ्का राधाकृष्णन् न्यूसिलान्ट् राष्ट्रे मन्त्री।

वेल्लिङ्‍टण्- न्यूसिलान्ट् सर्वकारे प्रथमतया भारतवंशीया मन्त्री। सा तु केरलीया प्रियङ्का राधाकृष्णन् इत्याख्या। लेबर् पार्टी इति दलस्य सदस्या भवति प्रियङंका। सा सामाजिकविकासः, युवजनक्षेमः सन्नद्धता इत्यादिषु विभागेषु कार्यं करिष्यति। वृत्तिविभागे सहमन्त्रिपदवीमपि सा एव निर्वक्ष्यति।

गते मन्त्रिमण्डले मन्त्रिपदव्यां स्थितायाः जेन्नी सेयिल्सायाः वैयक्तिककार्यदर्शीपदव्यामासीत् प्रियङ्का। लेबर् पार्टी सर्वकारस्य द्वितीये सत्रे उपप्रवक्तृपदवीमपि सा जग्राह।

कोरलेषु एरणाकुलं परवूर् देशीया भवति प्रियङ्का। १४ वर्षाणि यावत् लेबर् पार्टी दलस्य प्रवर्तिका अस्ति।

एषुत्तच्छन् पुरस्कारः सक्करिया महोदयाय।

तिरुवनन्तपुरम्- साहित्यरंगे केरलीयसर्वकारेण दीयमाना परमोन्नतबहुमतिः भवति एषुत्तच्छन् पुरस्कारः। मलयालभाषापितुः तुञ्चत्त् एषुत्तच्छन् वर्यस्य नाम्नि संस्थापितः अयं पुरस्कारः अस्मिन् वर्षे विख्यातकथाकाराय सक्करियावर्याय दीयते। साहित्यरंगे समग्रयोगदानमभिलक्ष्यैवायं पुरस्कारः। पञ्चलक्षं रूप्यकाणि फलकं च पुरस्कारे अन्तर्भवति। सांस्कृतिकविभागमन्त्री ए.के.बालन् वर्यः पुरस्कारमघोषयत्।

     केरल्यां श्रद्धेयः लेखकः भवति सक्करिया। तेन लिखिताः सर्वाः अपि कथाः श्रेष्ठाः सन्ति। केन्द्र साहित्य अक्कादमी पुरस्कारः, केरल साहित्य अक्कादमी पुरस्कारः, ओ.वी. विजयन् पुरस्कारः, केरल साहित्य अक्कादम्यां विशिष्टाङ्गत्वम् इत्यादयः निरवधिकाः अङ्गीकाराः सक्करियावर्यं प्रापन्।

     1945 जूण् 5 दिनाङ्के कोट्टयं मीनच्चिल् तालूक् पैका मध्ये अयं भूजातः। कुञ्ञच्चन् त्रेस्यक्कुट्टी च पितरौ। बंगलूरु एं इ.एस् कलाशालायां तथा काञ्ञिरप्पल्ली डोमनिक् कलाशालायां च अयम् अध्यापकः आसीत्।

    नवम्बर् प्रथमं दिनं ऐक्यकेरलसंस्थापनदिवसं भवति। अस्मिन्नेव दिने कैरलीसाहित्यस्य परमोन्नतः अयं पुरस्कारः घोषितः।

भीकरवादविरुद्धे आहवे भारतं फ्रान्स् राष्ट्रेण साकं तिष्ठतीति प्रधानमन्त्री नरेन्द्रमोदीवर्यः।

नवदिल्ली- फ्रान्स् राष्ट्रे नोत्रदां बसेलिक्का इति क्रैस्तवाराधनालये त्रयाणां मृत्योः कारणभूतं भीकराक्रमणं भारतेन अपलपितम्। भीकरवादं विरुद्ध्य क्रियमाणे आहवे भारतं फ्रान्स् राष्ट्रेण साकं तिष्ठतीति प्रधानमन्त्री नरेन्द्रमोदी वर्यः ट्वीट्टर् मध्ये सूचितवान्। बहुभिः विश्वराष्ट्रैः एषा दुर्घटना अपलपिता। आक्रमणे मृतानां परिवारेभ्यः प्रानस् पौरेभ्यश्च प्रधानमन्त्री अनुशोचनं व्याजहार। कस्मिन्नपि साहचर्ये भीकरवादस्य आतङ्कवादस्य च न्यायीकरणं कर्तुं न शक्यते इति भारतीय विदेशकार्यमन्त्रालयस्यापि सूचना अस्ति।

     पूर्वं फ्रान्सिस् मार्पापा वर्यः घटनामेनाम् अपलपति स्म। सर्वविधानि भीकरप्रवर्तनानि अवसादयितुं मार्पापा जनान् उदबोधयत्। मारितेभ्यः प्रार्थनां विधास्यतीत्यपि मार्पापा व्याजहार। ब्रिट्टीष् प्रधानमन्त्री बोरिस् जोण्सण् वर्यः अपि भाकरविरुद्धतायैः स्वसज्जतां प्रकटीचकार। तुर्की, इरान् प्रभृतीनि राष्ट्राण्यपि घटनामेनाम् अपालपन्।

   फ्रान्स् राष्ट्रे नीस् आख्ये तीरदेशनगरे  एव नोत्रदां वसेलिका अवतिष्ठते। ह्यस्तने एव तत्र भीकराक्रमणं सञ्जातम्। बसेलिकायाः अन्तः प्रविश्यैव भीकराः आक्रमणमारभन्त। मृतेषु द्वे स्त्रियौ स्तः। धर्मनिन्दामारोप्य फ्रान्स् देशे पारीसे कंचन श्क्षकं शिरच्छेदेन हन्ति स्म।

फेस् बुक्क् नयनिदेशिका अङ्की दास् वर्या स्वपदवीं तत्याज।

नवदिल्ली-  फेस्बुक्क् इत्याख्यस्य मुखपुस्तकस्य भारत-दक्षिणेष्या मध्येष्या प्रान्तस्य नयनिदेशिका अङ्की दास् वर्या स्वकीयस्थानात् त्यागपत्रम् अदात्। फेस् बुक्क् मध्ये विद्वेषप्रचारणनियन्त्रणमनुबन्ध्य सञ्जाते विवादे भा.ज.पा. दलाय स्वपक्षं समर्थितवती सा इति विषये  विवादवनिता आसीत् सा। परन्तु स्थानत्यागस्य कारणम् अविदितमेव।

     फेस् बुक्क मध्ये राजनैतिकविषयनियन्त्रणविषये अङ्की दास् वर्यायाः दायित्वं संघस्य अन्तर्भागात् सर्वकारीयतलाच्च विमर्शितमासीत्। भा.ज.पा दलीयानां विद्वेषप्रचारणं विरुध्य कार्यान्वयनस्वीकारम् अङ्किता द्सेन स्थगिता  इति वाल्स्ट्रीट् मासिक्याः आवेदनमेव विवादास्पदमभूत्।

     गते सप्ताहे अङ्की दास् वर्या  संसदीयसमितेः पुरतः उपस्थिता आसीत्। फेस्बुक्क् मध्ये  वैयक्तिकतामनुबन्ध्य आशङ्का परिहारार्थमेव सा समितेः पुरतः उपस्थिता। तत्र होराद्वयं यावत् सा प्रश्नान् प्रत्युक्तवती आसीत्।

कुल्भूषण् जादवस्य मृत्युदण्डपुनरीक्षणार्थं सूचितस्य विधेयकस्य पाकिस्तानसंसद् परिषदः अङ्गीकारः।

इस्लामाबाद्-  मृत्युदण्डं  परिकल्प्य पाकिस्ताने कारागारवासम् अनुवर्तमानस्य कुलभूषण् यादवस्य दण्डनं पुनः परिशोधयितुं आयोजितं विधेयकं पाक् संसदः परिषदा अनुमितम्। इन्टर्नाषणल् कोर्ट् आफ् जस्टीस्(रिव्यू आन्ट् रीकण्सिडरेषन्) ओर्डिनन्स् इति नामाङ्कितस्य विधेयकस्य राष्ट्रिय  विधानसभायां नीतिन्याय स्थिरसमित्यां चर्चानन्तरमेव अङ्गीकारो लब्धः।

     अन्ताराष्ट्र नीतीन्यायालयस्य निर्देशान् पलयति विधेयकमिदम् इति चर्चायां भागं वहन् नीतिन्याय विभागमन्त्री फारुख् नसीम् अवदत्। भीकरवादं चारवृत्तिं च समारोप्य 2017 एप्रिल् मासे एव सेवाविरतं नौसेनाकर्मकरं कुल्भूषम् यादवं पाकिस्तान सैनिकन्यायालयः मृत्युदण्डम्  व्यदधात्।

नीट्ट् परीक्षायां सम्पूर्णाङ्कप्राप्तिः, षोय्ब् अफ्ताब् श्रद्धेयो जातः।

जय्पूर्- अखिलभारतीय-वैद्यकप्रवेशकपरीक्षायां आहत्य 720 अङ्केषु 720 अङ्कान् पूर्णतया  अवाप्य अखिलभारतस्तरे प्रथमस्थानमाप्तवान् ओडीषा रूर्कलादेशायः षोय्ब् अफ्ताब् इति अष्टादशवयस्कः युवा। वैद्यकीयाध्ययनं समाप्य हृद्रोगचिकित्सको भवितुं स इच्छति।

     राज्यस्थानराज्ये कोट्टा मण्डले करियर् इन्स्टिट्यूट् इति संस्थाने एव ऊर्जिताध्ययनाय गतवानयम्। आराष्ट्रं पिधाने घोषिते सर्वेपि तस्य सब्रह्मचारिणः स्व स्वदेशं प्रतिनिवृत्ताः। तथापि षोय्ब् तत्रैव उषित्वा अधिकसमयम् अध्ययनाय व्ययितवान्। अस्य कठिनप्रयत्नस्य फलमेव अनेन प्राप्ताः पूर्णाङ्काः।

     प्रतिसन्धीनां मध्ये अतीव क्लेशमनुभूयैव अस्मिन् वर्षे नीट्ट् परीक्षा आयोजिता इति शिक्षामन्त्री रमेश् पोख्रियाल् वर्यः अवदत्। कोविड् मानदण्डान् परिपाल्य परीक्षा समुन्नतरीत्या प्रचालिता।तदर्थं सहकृतेभ्यः मुख्यमन्त्रिभ्यः मन्त्री कृतज्ञताम् अवदत्। 1367322 छात्राः परीक्षामलिखन्। एषु 290 छात्राः ओक्टोबर् 14 दिनाङ्के एव परीक्षां लिखितवन्तः।